अनात्मन्य् आत्मताम् अस्मिन् देहादौ दृश्यजालके । त्यक्त्वा सत्त्वम् उपारूढो गूढस् तिष्ठ यथासुखम्
कुचकोटरसंसुप्तं विस्मृत्य जननी सुतम् । यथा रोदिति पुत्रार्थं तथात्मार्थम् अयं जनः
अजरामरम् आत्मानम् अबुद्ध्वा परिरोदिति । हा हतो ऽहम् अनाथो ऽहं नष्टो ऽस्मीति जनो मुधा
देशकालक्रियाभेदे देहस्थे मरणाभिधे । लोको ऽनुशोचत्य् आत्मानम् अहो नु खलु मूढता
देशकालक्रियाभेदं यदि देहो ऽनुधावति । तद् अनादेर् अनाशस्य किम् अस्यागतम् आत्मनः
अन्यद् भुक्तं वान्तम् अन्यद् इदं तद् यज् जनव्रजैः । देहस्य नाशिनो नाशे आत्मनाशो ऽनुशोच्यते
देहात्मनोर् महीपाल सविकाराविकारयोः । सुवर्णभस्मोपमयोस् सम्बन्धẖ क इवैतयोः
नानाकारविकाराख्यैस् स्वविलासैर् अनन्यगैः । लीलयैव स्वम् आत्मानम् आत्मायं गोपयन् स्थितः
सर्गनिर्माणसंहारैर् मिथẖ कारणतां गतैः । अकारणस्वभावेन वित् स्फुरत्य् आत्मनात्मनि
क्रीडत्य् आत्मा शिशुर् इव सङ्कल्पैर् लीलयोम्भितैः । तृणैर् मणिम् इवात्मानं स्वच्छम् आच्छाद्य चञ्चलैः
स्पन्दप्रभां चिदादित्यḫ प्रसार्यालोककारिणीम् । जगद्दिनानि रचयन् न कदाचन खिद्यते
स्पन्दमात्रात्मचिद्धातोर् देह एव जगत्क्रमः । सन्निवेशो ऽप्य् अभिन्नात्मा पदार्थस्येव संस्थितः
स्पन्दमात्रात् स्वभावेन चित् करोति जगत्क्रियाम् । संहरत्य् अपरिस्पन्दाद् वार् वीचिरचनाम् इव
पदार्थान् अविभागेन पश्यन् बुद्ध्यादिवर्जितः । चिन्मात्रबालो रमते सर्गक्रीडनकैस् स्वयम्
बालẖ क्रीडनके जातरतिश् शोचति तत्क्षये । स्वरूपे विस्मृते यद्वत् तद्वद् आत्मेह संसृतौ
निस्स्पन्दास्पन्दसंवित्तेस् स्वयं सा स्मरणेन चित् । वित्त्वम् अस्या विदुस् स्पन्दं यदि वेद्योन्मुखं च तत्
अस्पन्दा स्पन्दविद्भ्रान्त्या चिद् विस्मृत्यैव शोचति । झगित्य् अस्पन्दनामानं मोक्षम् एत्योपशाम्यति
निजम् अस्पन्दनं तुर्यं जाग्रत्स्वप्नसुषुप्तकैः । आच्छाद्य शोचति मुधा तद् अकृत्वा न शोचति
जगज्जालाय चित्स्पन्दा मनोबुद्धीन्द्रियादयः । समुद्यन्ति जलस्पन्दा इवोर्म्योघकणादयः
सङ्कल्पनं हि चित्स्पन्दो ऽस्पन्दो ऽसङ्कल्पनं स्मृतम् । ब्रह्मासङ्कल्पनं विद्धि नकिञ्चिद् इव यच् च तत्
यथा वारि परिस्पन्दान् नानाकारं विलोक्यते । तदद्वितीयम् एवैवं चिद्ब्रह्म परिबृंहितम्
चितो ऽस्पन्दस् त्व् असङ्कल्पस् तत् तुर्यं ब्रह्म तद् भवेत् । तं मोक्षम् आहुस् तस्मिंस् त्वं नृप बद्धपदो भव
सङ्कल्पेन विहीनश् चेत् स्पन्द एव चितेर् नृप । सा तद् अस्पन्दना चित् स्यात् सङ्कल्पस् स्पन्द उच्यते
संस्थाप्य सङ्कल्पविकल्पमुक्तं चित्तत्त्वम् आत्मन्य् उपशान्तशङ्कः । स्पन्दे ऽप्य् अपस्पन्दचिदीश्वरात्मा स्वस्थस् सुखी राज्यम् इदं प्रशाधि
सर्गात्मभिर् विभुस् स्पन्दक्रीडितैर् बालवन् निजाम् । सत्तां मोहयतीवान्तस् सावधानो भवात्र भोः
सङ्कल्प्यात्मा स्वयं द्वैतं चिरं शोचति योनिषु । स्वयम् अद्वैतसङ्कल्पात् कालेनायाति निर्वृतिम्
स्वयम् अस्य तथा शक्तिर् उदेत्य् आबध्यते यथा । स्वयम् अस्य तथा शक्तिर् उदेत्य् आमुच्यते यथा
न लभ्यते प्रवचनैर् न धिया न तपश्श्रुतैः । यदोदयेच्छाम् आयाति तद् आत्मात्मानम् ईक्षते
अहो नु चित्रा मायेयं बत विष्वग् विमोहिनी । सर्वाङ्गप्रोतम् अप्य् आत्मा यद् आत्मानं न पश्यति
दृष्ट्वा सर्वगम् आत्मानम् अनन्तम् अवनीश्वर । निवर्तते शरीरास्था ततो दुẖखैर् न लिप्यते