यद् अस्ति तन्मयेनैव भवितव्यं विजानता । आत्मैव जगताम् अस्ति न देहाद्यर्थजालकम्
पदार्थजातं देहादि विदा सन्त्यज्य दूरतः । आशीतलान्तẖकरणो नित्यम् आत्ममयो भव
आत्मैव ह्य् आत्मनो बन्धुर् आत्मन्य् आत्मैव विद्यते । आत्मात्मनैवाह्रियते सर्वात्मात्मानुभूतितः
यथा जलाद् ऋते नास्ति समुद्रत्वं महाम्बुधेः । आत्मतत्त्वाद् ऋते नास्ति जगत्त्वं जगतस् तथा
यथार्कẖ कुम्भलक्षेषु तथात्मा देहपङ्क्तिषु । नास्तम् एति न चोदेति नष्टानष्टासु तास्व् असौ
अनात्मधीẖ क्वचिद् अपि शुक्तौ रजतता यथा । योदेत्य् अनघ मिथ्या सा सर्वगत्वाद् इहात्मनः
देहो ऽहम् इति या बुद्धिस् सा संसारनिबन्धनी । देहदुẖखानुपातित्वाद् असारत्वाच् च वस्तुनः
नकिञ्चिन्मात्ररूपो ऽस्मि यथैते गगनादयः । इति या शाश्वती बुद्धिस् सा न संसारबन्धनी
यथा विमलतोयान्तर् बहिर् अन्तश् च भानुजम् । तेजस् तिष्ठति सर्वत्र तथात्मा सर्ववस्तुषु
भित्तौ नभसि पाताले पुरो दूरे च संस्थितः । आत्मा त्रिष्व् अपि कालेषु नासौ नश्यति कर्हिचित्
छेदादीनाम् अगम्यं खं यथैवात्मा तथैव हि । एतावन्मात्रको भेदो यच् चिन्मात्रात्मतात्मनि
सन्निवेशांशवैचित्र्यं यथा हेम्नो ऽङ्गदादिता । आत्मनस् तदतद्रूपं तथैव जगदादिता
सरिताम् आसमुद्रान्तं यथैवाम्बु विवर्तते । उत्पन्नध्वंसिनाजस्रं तरङ्गौघेन वारिणि
आत्मन्य् आत्मसमुल्लासस् तथैवायं विलोक्यते । नानापदार्थजालेन विनाशाब्धिं प्रधावता
विनाशवाडवाक्रान्तं भीमं कालमहार्णवम् । जगज्जालतरङ्गिण्यो यान्ति सर्गतरङ्गकाः
तस्याप्य् अद्याप्य् अपूर्णस्य यḫ पाता कालवारिधेः । तम् आत्मानं महागस्त्यं राजन् भावय विन्ध्यवत्
शास्त्रसंव्यवहारार्थं संसारोच्छेदनोद्यतैः । आत्मादिकाẖ कृतास् सञ्ज्ञा वागतीतस्य वस्तुनः
न रज्ज्वाम् अस्ति सर्पत्वं तन् मिथ्या कḫ प्रपश्यति । नात्मनो ऽस्ति क्वचिद् बन्धो मा मोहाद् भावयाङ्ग तम्
मोहस् तद्भावनामात्रम् आहुर् मोहहरा नराः । तम् एव भावनात्यागात् त्यक्त्वा विज्वरतां व्रज
एष एवान्धकारो ऽसाव् एतद् एव परं मलम् । प्राग् अबद्धस्य बन्धेन सङ्कल्पो यẖ किलात्मनः
अनात्मन्य् आत्मताम् अस्मिन् देहादौ दृश्यजालके । त्यक्त्वा सत्त्वम् उपारूढो गूढस् तिष्ठ यथासुखम्
कुचकोटरसंसुप्तं विस्मृत्य जननी सुतम् । यथा रोदिति पुत्रार्थं तथात्मार्थम् अयं जनः
अजरामरम् आत्मानम् अबुद्ध्वा परिरोदिति । हा हतो ऽहम् अनाथो ऽहं नष्टो ऽस्मीति जनो मुधा
देशकालक्रियाभेदे देहस्थे मरणाभिधे । लोको ऽनुशोचत्य् आत्मानम् अहो नु खलु मूढता
देशकालक्रियाभेदं यदि देहो ऽनुधावति । तद् अनादेर् अनाशस्य किम् अस्यागतम् आत्मनः
अन्यद् भुक्तं वान्तम् अन्यद् इदं तद् यज् जनव्रजैः । देहस्य नाशिनो नाशे आत्मनाशो ऽनुशोच्यते
देहात्मनोर् महीपाल सविकाराविकारयोः । सुवर्णभस्मोपमयोस् सम्बन्धẖ क इवैतयोः
नानाकारविकाराख्यैस् स्वविलासैर् अनन्यगैः । लीलयैव स्वम् आत्मानम् आत्मायं गोपयन् स्थितः
सर्गनिर्माणसंहारैर् मिथẖ कारणतां गतैः । अकारणस्वभावेन वित् स्फुरत्य् आत्मनात्मनि
क्रीडत्य् आत्मा शिशुर् इव सङ्कल्पैर् लीलयोम्भितैः । तृणैर् मणिम् इवात्मानं स्वच्छम् आच्छाद्य चञ्चलैः