न बन्धो ऽस्ति न मोक्षो ऽस्ति ब्रह्मैवास्ति निरामयम् । नैक्यम् अस्ति न च द्वित्वं संविद्भानं विजृम्भते
एकं यथा स्फुरति वारि तरङ्गभङ्गैर् एवं परिस्फुरति चित्तम् अकिञ्चिद् एतत् । त्वं बन्धमोक्षकलने प्रविमुच्य दूरे स्वस्थो भवाभयतयोदयसार एव
सङ्कल्पोन्मुखतां यातास् सत्याश् चिन्मात्रसंविदः । आपस् तरङ्गत्वम् इव यान्ति भूमिप जीवताम्
ते जीवास् संसरन्तीह संसारे पूर्वम् उत्थिते । स्वकर्मकरणाद् देहेष्व् अब्जेष्व् इव मधुव्रताः
सर्वात्मापि परं ब्रह्म कुर्वद् एव करोति नो । जननिष्ठानि दिवसकर्माणीव दिवाकरः
चलत्य् अचेतनम् अयो यथायस्कान्तसन्निधौ । तथा स्फुरति सर्गो ऽयं स्वस्थिते परमात्मनि
स्वपरिस्पन्दजो वारि यथावर्तḫ प्रवर्तते । तथायं चिन्मये जीवे देहस् सम्पद्यते स्वयम्
यथालातपरिस्पन्दाद् धेमचक्रं प्रदृश्यते । एवं स्वचेतनस्पन्दाद् देहो ऽयम् अवलोक्यते
यथा नदनदीभेदाद् बहुत्वं कल्प्यते ऽम्भसः । एवम् आकारभेदेन नानात्वं परमात्मनः
सुखदुẖखदशामोहो मनस्य् एवास्ति नात्मनि । केयूरकटकादित्वं सङ्कल्पे ऽस्ति न हेमनि
मूढे जीवे मनश् चित्तम् इत्यादिकलनं विदुः । यथाभूतार्थतत्त्वज्ञे सत्त्वम् एतद् उदाहृतम्
देहाद् अनन्तरं सत्त्वं व्योमताम् एति केवलम् । न जरामरणार्तीनां भूयो भवति कारणम्
यथास्फुरत् स्फुरद् इव प्रतिबिम्बं गिरेर् भवेत् । तथाकर्तैव कर्तेव लक्ष्यते चेतनस् तनौ
शारीरेषु विलासेषु सोम्य एवाशयेश्वरः । प्रतिबिम्बं विकारेषु मुखस्येवानुवर्तते
यथार्कश् चञ्चलो वारि दृश्यते न तु चञ्चलः । तथात्मा चञ्चलो देहे दृश्यते न तु चञ्चलः
यथा घटेषु नष्टेषु घटाकाशं न नश्यति । तथा नष्टेषु देहेषु नात्मा नश्यति कस्यचित्
रूपालोकमनस्काररहितो ऽर्थानुरञ्जनम् । यथामलो मणिर् धत्ते धत्ते देहं तथेश्वरः
रूपालोकमनस्कारैẖ किं वा मधुरसस् तरुम् । यथोल्लासयति प्रोच्चैस् तथा चिद् दृश्यमण्डलम्
त्रैलोक्यवर्तिनि यथा मधुरद्रव्यसञ्चये । स्थितं माधुर्यम् अखिले तथात्मा वस्तुजालके
यथार्को गच्छतो याति जन्तोस् तिष्ठति तिष्ठतः । मिथ्यैव न तु सत्येन तथात्मा वपुषाम् इह
प्रतिबिम्बविनाशेषु यथा न मकुरादयः । नश्यन्ति तद्वद् देहस्य नाशे नात्मा विनश्यति
अङ्गारादिषु दग्धेषु यथा हेम न दह्यते । तथा देहेषु नष्टेषु चिन्मात्रं न विनश्यति
अदृश्यो दृश्यते राहुर् गृहीतेन यथेन्दुना । तथानुभवमात्रात्मा चेत्येनात्मावलोक्यते
यद्वत् प्रकटताम् एति प्रतिबिम्बार्हता मणौ । प्रतिबिम्बेन तद्वद् वै चित्त्वं चेत्येन चेत्यते
सङ्कल्पजालमुक्तायाश् चितो यत् स्वस्थम् आस्थितम् । क्षयातिशयनिर्मुक्तं तद् विद्धि परमं पदम्
सत्त्वस्थे बुद्धितत्त्वे ऽन्तस् स्वयम् आत्मोपलभ्यते । आदर्शे मलमुक्ते हि प्रतिबिम्बं प्रवर्तते
न शास्त्रैर् नापि गुरुणा दृश्यते परमेश्वरः । दृश्यते स्वयम् एवात्मा स्वया सत्त्वस्थया धिया
इमे देहादयस् सर्वे भावाḫ प्रकृतिरूपिणः । नाप्य् असन्तो न सन्तो ऽपि भ्रममात्राद् ऋते ऽनघ
पथिकाḫ पथि दृश्यन्ते रागद्वेषविमुक्तया । यथा धिया तथैवैते द्रष्टव्यास् स्वेन्द्रियादयः
एतेषु नादरẖ कार्यस् सता नैवावधीरणम् । पदार्थमात्रतानिष्ठास् तिष्ठन्त्व् एते यथास्थितम्