कुतस् सर्गो ऽयम् आयातẖ किंस्वरूपश् च कथ्यते । कथं केष्व् अवतिष्ठन्ते जरार्तिमरणापदः
अहं कथं वा विषमाद् अस्मात् संसृतिविभ्रमात् । विमुच्येय घनास्तीर्णाज् जालाद् इव विहङ्गमः
त्वम् एवास्य प्रपञ्चस्य जानासि सकला गतीः । गम्भीरस्यातिलोलस्य वरुणो ऽम्बुनिधेर् इव
सन्देहवृक्षपरशुर् हार्दध्वान्तदिवाकरः । परमामृतशीतांशुस् त्वम् एकḫ परमेश्वरः
अहो नु चिरकालेन विवेके प्रविकासिनि । विततानर्थविच्छेत्ता सारḫ प्रश्नस् त्वया कृतः
संसाराम्भोधितरणं परं विश्रमणं धियः । दृश्यतृण्यामहावातं यथापृष्टम् इदं शृणु
यद् इदं दृश्यते किञ्चित् तन् नास्ति नृप किञ्चन । रज्ज्वाम् इव भुजङ्गत्वम् असद् एवेदम् उत्थितम्
यथा गन्धर्वनगरं यथा वारिमतिर् मरौ । यथा शुक्तौ रजतता यथा द्वित्वं सुधानिधौ
सर्वं मिथ्यावभासात्म स्फुरतीदम् असन्मयम् । प्रविलोलोज्ज्वलालातलोचनभ्रमचक्रवत्
यत् तु नो दृश्यते किञ्चिद् यन् नकिञ्चिद् इति स्मृतम् । मनष्षष्ठेन्द्रियातीतं यत् खाद् अपि नकिञ्चन
अविनाशं तद् अस्तीह तत् तद् आत्मेति कथ्यते । तत् तत् तत् परमं ब्रह्म तत् तत् सद् अमलं परम्
अनन्तभूतपर्णाया जाताया व्योमकानने । ऋक्षजालकपुष्पायास् सर्गवल्ल्यास् तु तद् रसः
तत् तच् चिन्मात्रम् आभानं यत् परिस्फुरति स्वयम् । अक्षुब्धाम्भोधिजलवत् तज् जगज्जालतां गतम्
एवं परात् समायाता राजन् सर्गपरम्पराः । तस्मिन्न् एव महादर्शे प्रतिबिम्बम् उपागताः
तास् स्वभावसमुत्पन्ना बह्व्यस् स्फुरणशक्तयः । पश्चात् कारणतां यान्ति मिथो जीवादिनामभिः
काश्चिद् ब्रह्माण्डतां यान्ति काश्चिद् गच्छन्ति भूतताम् । अन्यन् नानात्वम् इतरा भवत्य् एवं जगत्स्थितिः
गृहीतकलना ब्राह्म्यश् शक्तयस् स्वयम् एव हि । सङ्कल्प्य मितजीवत्वम् अहंज्ञानात्मिकास् स्थिताः
ताẖ कोशकारक्रिमिवत् स्वयं गच्छन्ति बन्धनम् । प्राप्ताḫ परिमितं रूपं रञ्जनं स्फटिका इव
बन्धो न सम्भवत्य् एव तास् स्वयं बन्धनं गताः । मुग्धा हि भीत्या पश्यन्ति यक्षं मातृस्तनेष्व् अपि
स्वभावतस् समुत्थाय निष्कारणम् अकारणम् । मिथẖ कारणतां यान्ति ब्राह्म्यस् स्फुरणशक्तयः
न बन्धो ऽस्ति न मोक्षो ऽस्ति ब्रह्मैवास्ति निरामयम् । नैक्यम् अस्ति न च द्वित्वं संविद्भानं विजृम्भते
एकं यथा स्फुरति वारि तरङ्गभङ्गैर् एवं परिस्फुरति चित्तम् अकिञ्चिद् एतत् । त्वं बन्धमोक्षकलने प्रविमुच्य दूरे स्वस्थो भवाभयतयोदयसार एव
सङ्कल्पोन्मुखतां यातास् सत्याश् चिन्मात्रसंविदः । आपस् तरङ्गत्वम् इव यान्ति भूमिप जीवताम्
ते जीवास् संसरन्तीह संसारे पूर्वम् उत्थिते । स्वकर्मकरणाद् देहेष्व् अब्जेष्व् इव मधुव्रताः
सर्वात्मापि परं ब्रह्म कुर्वद् एव करोति नो । जननिष्ठानि दिवसकर्माणीव दिवाकरः
चलत्य् अचेतनम् अयो यथायस्कान्तसन्निधौ । तथा स्फुरति सर्गो ऽयं स्वस्थिते परमात्मनि
स्वपरिस्पन्दजो वारि यथावर्तḫ प्रवर्तते । तथायं चिन्मये जीवे देहस् सम्पद्यते स्वयम्
यथालातपरिस्पन्दाद् धेमचक्रं प्रदृश्यते । एवं स्वचेतनस्पन्दाद् देहो ऽयम् अवलोक्यते
यथा नदनदीभेदाद् बहुत्वं कल्प्यते ऽम्भसः । एवम् आकारभेदेन नानात्वं परमात्मनः
सुखदुẖखदशामोहो मनस्य् एवास्ति नात्मनि । केयूरकटकादित्वं सङ्कल्पे ऽस्ति न हेमनि