न दुẖखान्य् उपगर्जन्ति गजा इव वियौवनाः । न सुखान्य् उपधावन्ति पयांसीवोग्रसेतुना
सुखदुẖखादयश् चैते दृश्यन्ते यदि वा मुखे । दृश्यन्ते एव तत् साधो न तु लिम्पन्ति ते मनः
चित्ते गलति गीर्वाणगणस्य स्पृहणीयताम् । साधुर् गच्छत्य् उदेत्य् अस्य समताशीतचन्द्रिका
इदं शान्तं च कान्तं च दीप्तम् अप्रतिघाति च । निभृतं चोर्जितं स्वच्छं भवतीन्द्वमलं वपुः
भावाभावविभुग्नो ऽपि विचित्रो ऽपि महान् अपि । नानन्दाय न खेदाय सतां संसृतिविभ्रमः
बुद्ध्यालोकनसाध्ये ऽस्मिन् वस्तुन्य् अस्तमितापदि । प्रवर्तते न यो मोहात् तं धिग् अस्तु नराधमम्
विश्रान्तिम् आप्तुम् उचितां चिरम् अङ्ग दुẖखरत्नाकरं जननसागरम् उत्तितीर्षोः । को ऽहं कथं जगद् इदं च परश् च कस् स्यात् किं भोगकैर् इति मतिḫ परमो ऽभ्युपायः
भवताम् आदिपुरुष इक्ष्वाकुर् नाम भूपतिः । इक्ष्वाकुवंशप्रभवो यथा मुक्तस् तथा शृणु
इक्ष्वाकुर् इति विख्यातो भूपो भास्करवंशजः । आसीत् पतिर् महीपानां पितॄणाम् इव धर्मराट्
हिमशीतस्वभावो ऽपि पदार्थान् अन्तर् अस्पृशन् । मध्याह्ने सूर्यकान्ताद्रिर् इव ज्वलति यो ऽरिषु
यमबन्धुत्वम् अरिषु येन पापाशयेषु च । दीनारिस्त्रीदृशा श्यामवपुषा प्रकटीकृतम्
प्रतापेनार्कवंशत्वं येनारिषु व्यतन्यत । सोम्यत्वं तु सुहृद्विप्रवधूगुर्वाद्यबन्धुषु
यस्याननाब्जम् आश्रित्य लक्ष्मीर् भ्रूभ्रमरी सखी । अमन्यत हरेर् वक्षẖ क्षपाकुसुमपेलवम्
यस्य शीतलशुक्लेन यशसा वलितं जगत् । करोति चक्रवाकानां पूर्णेन्दूदयविभ्रमम्
सो ऽखण्डशक्तिप्रसरं स्वाराज्यं परिपालयन् । कदाचिद् एकान्तगतो मनसा समचिन्तयत्
जरामरणसङ्क्षोभसुखदुẖखभ्रमस्थितेः । अस्य दृश्यप्रपञ्चस्य को हेतुस् स्याद् इति स्वयम्
जगतो न विवेदासौ कारणं चिन्तयन्न् अपि । बालो ऽभ्रस्तनितस्येव तेनासौ पर्यतप्यत
अथैकदापृच्छद् असौ ब्रह्मलोकागतं मनुम् । पूजितं स्वसभासंस्थं भगवन्तं प्रजापतिम्
संयोजयति धार्ष्ट्येन भगवन् भूरितेजसम् । भवत्प्रसाद एवायं भवन्तं प्रष्टुम् ओजसा
स्फुरता हृदये नित्यं धूमश्यामेन तापिना । दह्ये ऽहं संशयेनान्तर् वाडवेनेव वारिधिः
कुतस् सर्गो ऽयम् आयातẖ किंस्वरूपश् च कथ्यते । कथं केष्व् अवतिष्ठन्ते जरार्तिमरणापदः
अहं कथं वा विषमाद् अस्मात् संसृतिविभ्रमात् । विमुच्येय घनास्तीर्णाज् जालाद् इव विहङ्गमः
त्वम् एवास्य प्रपञ्चस्य जानासि सकला गतीः । गम्भीरस्यातिलोलस्य वरुणो ऽम्बुनिधेर् इव
सन्देहवृक्षपरशुर् हार्दध्वान्तदिवाकरः । परमामृतशीतांशुस् त्वम् एकḫ परमेश्वरः
अहो नु चिरकालेन विवेके प्रविकासिनि । विततानर्थविच्छेत्ता सारḫ प्रश्नस् त्वया कृतः
संसाराम्भोधितरणं परं विश्रमणं धियः । दृश्यतृण्यामहावातं यथापृष्टम् इदं शृणु
यद् इदं दृश्यते किञ्चित् तन् नास्ति नृप किञ्चन । रज्ज्वाम् इव भुजङ्गत्वम् असद् एवेदम् उत्थितम्
यथा गन्धर्वनगरं यथा वारिमतिर् मरौ । यथा शुक्तौ रजतता यथा द्वित्वं सुधानिधौ
सर्वं मिथ्यावभासात्म स्फुरतीदम् असन्मयम् । प्रविलोलोज्ज्वलालातलोचनभ्रमचक्रवत्
यत् तु नो दृश्यते किञ्चिद् यन् नकिञ्चिद् इति स्मृतम् । मनष्षष्ठेन्द्रियातीतं यत् खाद् अपि नकिञ्चन