नित्योदितं विमलरूपम् अनन्तम् आद्यं ब्रह्मास्ति नेतरकलाकलनं हि किञ्चित् । इत्य् एव भावय निरञ्जनताम् उपेतो निर्वाणम् एहि सकलामलशान्तवृत्तिः
अनामयं ब्रह्म समस्तकल्पकार्यैकबीजं परमाणुरूपम् । बृहच् च तद् बृंहितसर्वभावं खम् अस्ति नास्तीव यद् अस्ति किञ्चित्
अन्यत् क्वचित् किञ्चिद् इदं कदाचिन् न सम्भवत्य् एव सद् अप्य् असच् च । इत्य् एव साधो दृढनिश्चयो ऽन्तस् स्थित्वा गताशङ्कविलासम् आस्स्व
अन्तर्मुखस् सन् सततं समस्तं कुर्वन् बहिस्स्थं खलु कार्यजातम् । न खेदम् आयासि कदाचिद् एव व्योम्नस् समां संस्थितिम् अभ्युपैषि
रामाहङ्कारसत्तान्तḫ प्रसूते संसृतिभ्रमम् । बालस्य भाविता यक्षभावनेवोग्रयक्षकम्
अहङ्कारोपशान्तौ तु शाम्यतीयं हि संसृतिः । मोहदा मिहिकेवाङ्ग प्रावृट्कालपरिक्षये
रज्ज्वां सर्पभ्रमो बन्धोर् वाक्येनैति यथा क्षयम् । न सर्पो ऽयम् इयं रज्जुर् इत्याद्येन जनस्य वै
तथा गुरोर् गिरा शान्तिम् एत्य् अहम्भावविभ्रमः । माहङ्कारम् असद्रूपं भावयेत्यादिरूपया
अभ्यासाज् ज्ञानशास्त्राणां सत्सङ्गमकथाक्रमैः । अहम्भ्रमश् शमं याति जन्तोर् आन्ध्यम् इवाञ्जनैः
विद्यमानम् अपि स्थूलं यत् तत् क्षयि निघर्षणैः । उदपानशिलाप्य् अङ्ग क्षीयते घटघर्षणैः
अहङ्कृतेर् अविद्याया भाविताया अकारणम् । नाशे क इव सन्देहो विचारैर् नाशहेतुभिः
भगवन् सर्वतत्त्वज्ञ चित्ते ऽहङ्कारनामनि । गलिते वा गलद्रूपे लिङ्गं सत्त्वस्य किं भवेत्
विवेकाब्दोदयेनाङ्ग शाम्यन्त्यां देहधन्वनि । स्वचित्तमृगतृष्णायां न संसृत्यातपो भवेत्
उरवो ऽपि हि सञ्जाता न स्पृशन्त्य् आशयं सितम् । लोभमोहादयो दोषाḫ पयांसीव सरोरुहम्
मुदिताद्याश् श्रियो वक्त्रं न मुञ्चन्ति कदाचन । सौभाग्यसुखदायिन्यḫ पुष्पलक्ष्म्यो मधुं यथा
कथं संसृतिर् इत्य् एव विचारे मुदितोदये । उदेति सत्त्वं चित्तं च गलनाय प्रवर्तते
गलत्य् अहङ्कारमये चित्ते चलति दुष्कृते । वासनाग्रन्थयẖ खिन्ना इव त्रुट्यन्त्य् अलं शनैः
कोपस् तानवम् आयाति शरदीव पयोधरः । मोहो मान्द्यम् उपादत्ते प्रभाते तिमिरं यथा
कामẖ क्लमं गच्छति च दीर्घाध्वग इवातपे । लोभḫ पलायते क्वापि व्यालो दृष्ट्वेव बर्हिणम्
नोल्लसन्तीन्द्रियाण्य् उच्चैर् अहनीव निशाचराः । न स्फुरत्य् उच्चकैẖ खेदḫ प्रावृषीवाकुलं रजः
न दुẖखान्य् उपगर्जन्ति गजा इव वियौवनाः । न सुखान्य् उपधावन्ति पयांसीवोग्रसेतुना
सुखदुẖखादयश् चैते दृश्यन्ते यदि वा मुखे । दृश्यन्ते एव तत् साधो न तु लिम्पन्ति ते मनः
चित्ते गलति गीर्वाणगणस्य स्पृहणीयताम् । साधुर् गच्छत्य् उदेत्य् अस्य समताशीतचन्द्रिका
इदं शान्तं च कान्तं च दीप्तम् अप्रतिघाति च । निभृतं चोर्जितं स्वच्छं भवतीन्द्वमलं वपुः
भावाभावविभुग्नो ऽपि विचित्रो ऽपि महान् अपि । नानन्दाय न खेदाय सतां संसृतिविभ्रमः
बुद्ध्यालोकनसाध्ये ऽस्मिन् वस्तुन्य् अस्तमितापदि । प्रवर्तते न यो मोहात् तं धिग् अस्तु नराधमम्
विश्रान्तिम् आप्तुम् उचितां चिरम् अङ्ग दुẖखरत्नाकरं जननसागरम् उत्तितीर्षोः । को ऽहं कथं जगद् इदं च परश् च कस् स्यात् किं भोगकैर् इति मतिḫ परमो ऽभ्युपायः
भवताम् आदिपुरुष इक्ष्वाकुर् नाम भूपतिः । इक्ष्वाकुवंशप्रभवो यथा मुक्तस् तथा शृणु
इक्ष्वाकुर् इति विख्यातो भूपो भास्करवंशजः । आसीत् पतिर् महीपानां पितॄणाम् इव धर्मराट्
हिमशीतस्वभावो ऽपि पदार्थान् अन्तर् अस्पृशन् । मध्याह्ने सूर्यकान्ताद्रिर् इव ज्वलति यो ऽरिषु