प्राप्यते सति दृश्ये ऽस्मिन् न च तन् नाम केनचित् । यत्र तत्र किलायाति चित्तभ्रान्त्या जगद्भ्रमः
द्रष्टाथ यदि पाषाणरूपतां भावयन् बलात् । किलास्ते तत् तदन्ते ऽपि भूयो ऽस्योदेति दृश्यता
न च पाषाणतातुल्या निर्विकल्पसमाधयः । केषाञ्चित् स्थितिम् आयान्ति सर्वैर् इत्य् अनुभूयते
न च पाषाणतातुल्या रूढिं यातास् समाधयः । भवन्त्य् अग्र्यं पदं शान्तं चिद्रूपम् अजम् अव्ययम्
तस्माद् यदीदं सद् दृश्यं तन् न शाम्येत् कदाचन । शाम्येत् तपोजपध्यानैर् दृढम् इत्य् अज्ञकल्पना
आलीनवल्लरीरूपं यथा पद्माक्षकोटरे । आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः
यथा रसः पदार्थेषु यथा तैलं तिलादिषु । कुसुमेषु यथामोदस् तथा द्रष्टरि दृश्यधीः
यत्र यत्र स्थितस्यापि कर्पूरादेस् सुगन्धता । यथोदेति तथा दृश्यं चिद्धातोर् उदरे जगत्
यथा चात्र तव स्वप्नसङ्कल्पश् चित्तराज्यधीः । स्वानुभूत्यैव दृष्टान्तस् तस्माद् धृद्य् अस्ति दृश्यभूः
तस्माच् चित्तविकल्पस्थः पिशाचो बालकं यथा । विनिहन्त्य् एवम् एषान्तर् द्रष्टारं दृश्यरूपिका
यथाङ्कुरो ऽन्तर् बीजस्य संस्थितो देशकालतः । करोति भासुरं देहं तनोत्य् एवं हि दृश्यधीः
द्रव्यस्य हृद्य् एव चमत्कृतिर् यथा सदोदितास्त्य् अस्तमयोज्झितोदरे । द्रव्यस्य चिन्मात्रशरीरिणस् तथा स्वभावभूतास्त्य् उदरे जगत्स्थितिः
इदम् आकाशजाख्यानं शृणु श्रवणभूषणम् । उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे
अस्तीहाकाशजो नाम द्विजः परमधार्मिकः । ध्यानैकनिष्ठस् सततं प्रजानां च हिते रतः
स चिरं जीवति यदा तदा मृत्युर् अचिन्तयत् । सर्वाण्य् एव क्रमेणाहं भूतान्य् अद्मि किलाक्षयः
एवम् आकाशजं विप्रं न कस्माद् भक्षयाम्य् अहम् । अत्र मे कुण्ठिता शक्तिः खड्गधारा यथोपले
इति सञ्चिन्त्य तं हन्तुम् अगच्छत् तत्पुरं तदा । त्यजन्त्य् उद्यमम् उद्युक्ता न कदाचन केचन
ततस् तत्सदनं यावन् मृत्युः प्रविशति स्वयम् । तावद् एनं दहत्य् अग्निः कल्पान्तज्वलनोपमः
अग्निज्वालामहाजालं विदार्यान्तर्गतो ऽप्य् असौ । द्विजं दृष्ट्वा समादातुं हस्तेनैच्छत् प्रयत्नतः
न चाशकत् पुरो दृष्टम् अपि हस्तशतैर् द्विजम् । बलवान् अप्य् अवष्टब्धुं सङ्कल्पपुरुषं यथा
अथागत्य यमं मृत्युर् अपृच्छत् संशयच्छिदम् । किम् इत्य् अहं न शक्नोमि भोक्तुम् आकाशजं प्रभो
मृत्यो न किञ्चिच् छक्तस् त्वम् एको मारयितुं बलात् । मारणीयस्य कर्माणि तत्कर्तॄणीह नेतरत्
तस्माद् एतस्य विप्रस्य मारणीयस्य यत्नतः । कर्माण्य् अन्विच्छ तेषां त्वं साहाय्येनैनम् अत्स्यसि
ततस् स मृत्युर् बभ्राम तत्कर्मान्वेषणादृतः । मण्डलानि दिगन्तांश् च सरांसि सरितो दिशः
वनजङ्गलजालानि शैलाम्भोधितटान्य् अपि । द्वीपान्तराण्य् अरण्यानि नगराणि पुराणि च
ग्रामान् अखिलराष्ट्राणि देशान्तगहनानि च । एवं भूमण्डलं भ्रान्त्वा स कुतश्चिन् न कानिचित्
तान्य् आकाशजकर्माणि लब्धवान् मृत्युर् उद्यतः । वन्ध्यापुत्रम् इव प्राज्ञस् सङ्कल्पाद्रिम् इवापरः
समपृच्छद् अथागत्य यमं सर्वार्थकोविदम् । परायणं हि प्रभवस् सन्देहेष्व् अनुजीविनाम्
आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो । धर्मराजो ऽथ सञ्चिन्त्य सुचिरं प्रोक्तवान् इदम्
आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित् । एष ह्य् आकाशजो विप्रो जातः खाद् एव केवलात्