ह्यो दिने हि मया प्रश्नẖ कृत आसीन् मुनीश्वर । उपशान्तिप्रकरणप्रसरे स यथा किल
अनन्तस्यात्मतत्त्वस्य कलङ्ककलना कुतः । अब्धेर् अगाधरूपस्य रजोराशिẖ कुतो भवेत्
तत्रोक्तं भवता ब्रह्मन् मय्य् अकालैकचोदके । सिद्धान्तकाल एवास्य प्रश्नस्योत्तरवाग् इति
तद् अद्य भगवंस् तं मे हृदयाच् छिन्द्धि संशयम् । वाक्यरश्मिभिर् आशीतैẖ खान् निशीव शशी तमः
त्वद्वाक्यामृतपानेन संशयांशापमृत्यवः । अशेषेण विनष्टा मे वर्षणेनेव पांसवः
क्षमानववधूकान्तं त्वां पृच्छामि तथाप्य् अहम् । न राजते स्वयं ज्ञातं ज्ञानं गुरुगिरं विना
राम राजीवपत्त्राक्ष साधु संस्मृतवान् असि । के नाम वा समारम्भाḫ प्राज्ञस्यायान्ति वन्ध्यताम्
क्षमौदार्यशमप्रायैर् गुणैर् यातो ऽसि पात्रताम् । शारदैश् शालिसौन्दर्यैश् श्रीमत्ताम् इव भूतलम्
भाजनं त्वं पवित्राणां सिद्धान्तवचसां स्थितः । सुरक्तकण्ठगीतीनां रागरक्तमना इव
श्रुत्वात्मज्ञानसिद्धान्तं त्वम् अद्यार्धप्रबुद्धवत् । न क्रियाद्वैतदोषेण गच्छस्य् उभयनष्टताम्
अमहात्मा हि वेदान्तसिद्धान्तावगताव् इतः । सर्वं ब्रह्मेति संयाति कर्माद्वैतवशाद् अधः
क्षमादिगुणपूतात्मा महात्मा त्वादृशस् तु यः । सर्वं ब्रह्मेति निर्णीय स्वभावाद्वैतम् एत्य् अलम्
कर्माद्वैतम् अनादृत्य नाभिवाञ्छति नोज्झति । आत्मतत्त्वैकभावित्वात् समताम् एति केवलम्
सर्वेषाम् एव शास्त्राणां सर्वासाम् अभितो दृशाम् । शृणु राघव सिद्धान्तम् आत्मज्ञानैकदीपकम्
जन्तुर् न जायते येन भावितेन मनाग् अपि । भव्य एवाङ्ग नाभव्यो भृष्टं बीजम् इवोषरे
इदं हि कथयन्त्य् उच्चैर् बोधं परम् उपागताः । वयं स्वयं च जानीमश् शास्त्रम् एवं च संस्थितम्
न तत्त्वातत्त्वयोर् भेदस् तरङ्गपयसोर् इव । न सत्यासत्ययोर् भेदो जाग्रत्स्वप्नार्कयोर् इव
सत्तायां न तु भेदो ऽस्ति भेदो यẖ कल्पितस् त्व् अयम् । विकल्पो न क्वचित् सत्यस् सत्तामात्रम् अतो ऽखिलम्
न सत्यासत्ययोर् भेदस् सत्तायाम् अङ्ग दृश्यते । सङ्कल्पान्तरशैलेन्द्रबाह्यशैलेन्द्रयोर् इव
संविन्मात्रं हि पुरुषो देहो नाम न विद्यते । अर्थक्रिया तदर्था च संविदर्थेन पूर्यते
तद् एव कल्पिताकारम् अगेन्द्रादीव दृश्यते । असद्रूपशरीरार्थम् अर्थẖ क इतरैẖ क्रमैः
अन्तस्स्वानुभवानन्दफला निश्शेषतẖ क्रियाः । समग्राणां पदार्थानाम् आसवाद्यनुभूतिवत्
अस्तीह किञ्चिद् एवैकं न द्वितीयास्ति कल्पना । निर्मलो नित्य आत्मास्ति यो नास्तीव व्यवस्थितः
नैव तस्य मलं नाङ्को न विच्छेदो न वस्तुता । न सत्ता नापि चासत्ता त्वत्ता मत्ता न चैव च
आत्मैवास्तीह नान्यो ऽस्ति त्यज रामेतरां धियम् । निर्द्वित्वो ऽथ निरेकत्वस् समो नित्योदितो भव
तद् एते भगवन् ब्रूहि मनोबुद्ध्यादयẖ कथम् । संस्थिता यैर् इह प्रोक्तम् इदं शास्त्रं त्वया मयि
शास्त्रसंव्यवहारार्थं शब्दराशिḫ प्रकल्पितः । मिथ्यैष चित्तबुद्ध्याद्यो न राम परमार्थतः
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... । चित्सत्तामात्रम् एवैतत् पराकाशात्मकं तथा
अप्सत्तामात्रम् एवैतद् वीच्यावर्तादिकं यथा । सर्वो जगत्पदार्थौघश् चिदाकाशात्मकस् तथा
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... । यथा स्वप्ने पुरानीकं स्पन्दने वा यथानिलः