महान्ति सुखदुःखानि यः पयांसीव सागरः । समस् समुपगृह्णाति महाभोक्ता स उच्यते
अहिंसा समता तुष्टिश् चन्द्रबिम्बाद् इवांशवः । नापयान्त्य् अनिशं यस्मान् महाभोक्ता स उच्यते
कट्व् अम्ब्लं लवणं तिक्तम् अमृष्टं मृष्टम् उत्तमम् । अधमं यो ऽत्ति साम्येन महाभोक्ता स उच्यते
सरसं नीरसं चैव सुरतं विरतं तथा । यः पश्यति समस् सोम्यो महाभोक्ता स उच्यते
क्षारे खण्डप्रकारे च शुभे वाप्य् अशुभे तथा । समता सुस्थिता यस्य महाभोक्ता स उच्यते
इदं भोज्यम् अभोज्यं चेत्य् एवं त्यक्त्वा विकल्पितम् । गताभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते
आपदं सम्पदं मोहम् आनन्दम् अवरं वरम् । यो भुङ्क्ते समया बुद्ध्या महाभोक्ता स उच्यते
धर्माधर्मौ सुखं दुःखं चिन्ता मरणजन्मनी । धिया येनेति सन्त्यक्तं महात्यागी स उच्यते
सर्वेच्छास् सकलाश् शङ्कास् सर्वेहास् सर्वनिश्चयाः । धिया येन परित्यक्ता महात्यागी स उच्यते
देहस्य मनसो बुद्धेर् इन्द्रियाणां जगत्स्थितेः । नूनं येनोज्झिता सत्ता महात्यागी स उच्यते
न मे देहो न जन्मापि युक्तायुक्ते न कर्मणा । इति निश्चयवान् यो ऽन्तर् महात्यागी स उच्यते
येन धर्मम् अधर्मं च मनोमननम् ईहितं । सर्वम् अन्तः परित्यक्तं महात्यागी स उच्यते
मनो ध्यानं तपस्तेजस् त्वत्तामत्ते शुभाशुभे । त्यक्त्वा यो ऽवस्थितस् स्वस्थो महात्यागी स उच्यते
स्वमनोमननं मान्यो नाभिवाञ्छति नोज्झति । यो ऽवासनस् सर्वम् इदं महात्यागी स उच्यते
यावती दृश्यकलना सकलेयं विलोक्यते । सा येन सुष्ठु सन्त्यक्ता महात्यागी स उच्यते
यो ऽकामकामी निर्द्वन्द्वस् सुखदुःखेष्व् अलोलधीः । धीरस् स्वस्थो मृदुर् दान्तो महात्यागी स उच्यते
कुर्वन्न् अपि च कार्याणि सुषुप्तसमवृत्तिताम् । न सन्त्यजति यः पूर्णो महात्यागी स उच्यते
इत्य् उक्तं देवदेवेन भृङ्गीशाय पुरानघ । एतां दृष्टिम् अवष्टभ्य तिष्ठ राम यथास्थितः
श्रीमत्कपालशकलावलिमध्यबद्धखण्डेन्दुमण्डितजटाशिरसा हरेण । इत्य् उक्तम् उज्ज्वलमणीन्द्रशिलैकशृङ्गे मेरौ ज्वलज्ज्वलनरूपिणि रामभद्र
एतां दृशं समवलम्ब्य विलासकान्तकार्यं कुरु क्रमगतं समयैव बुद्ध्या । नित्योदितो ऽसि विमलो ऽसि निरामयो ऽसि शङ्कां परित्यज सुखी भव यो ऽसि सो ऽसि
ह्यो दिने हि मया प्रश्नẖ कृत आसीन् मुनीश्वर । उपशान्तिप्रकरणप्रसरे स यथा किल
अनन्तस्यात्मतत्त्वस्य कलङ्ककलना कुतः । अब्धेर् अगाधरूपस्य रजोराशिẖ कुतो भवेत्
तत्रोक्तं भवता ब्रह्मन् मय्य् अकालैकचोदके । सिद्धान्तकाल एवास्य प्रश्नस्योत्तरवाग् इति
तद् अद्य भगवंस् तं मे हृदयाच् छिन्द्धि संशयम् । वाक्यरश्मिभिर् आशीतैẖ खान् निशीव शशी तमः
त्वद्वाक्यामृतपानेन संशयांशापमृत्यवः । अशेषेण विनष्टा मे वर्षणेनेव पांसवः
क्षमानववधूकान्तं त्वां पृच्छामि तथाप्य् अहम् । न राजते स्वयं ज्ञातं ज्ञानं गुरुगिरं विना
राम राजीवपत्त्राक्ष साधु संस्मृतवान् असि । के नाम वा समारम्भाḫ प्राज्ञस्यायान्ति वन्ध्यताम्
क्षमौदार्यशमप्रायैर् गुणैर् यातो ऽसि पात्रताम् । शारदैश् शालिसौन्दर्यैश् श्रीमत्ताम् इव भूतलम्
भाजनं त्वं पवित्राणां सिद्धान्तवचसां स्थितः । सुरक्तकण्ठगीतीनां रागरक्तमना इव
श्रुत्वात्मज्ञानसिद्धान्तं त्वम् अद्यार्धप्रबुद्धवत् । न क्रियाद्वैतदोषेण गच्छस्य् उभयनष्टताम्