तम् अपृच्छन् महातेजा ज्ञानजिज्ञासया स्वतः । भृङ्गीशः प्रणतो राम बद्धाञ्जलिर् उमापतिम्
भगवन् देवदेवेश सर्वज्ञ परमेश्वर । यद् अहं परिपृच्छामि कृपया तद् वदाशु मे
संसाररचनां नाथ तरङ्गतरलाम् इमाम् । अवलोक्य विमुह्यामि तत्त्वविश्रान्तिवर्जितः
कम् अन्तर्निश्चयं कान्तम् उररीकृत्य सुस्थिरम् । अस्मिञ् जगज्जीर्णगृहे तिष्ठामि विगतज्वरम्
सर्वाश् शङ्काः परित्यज्य धैर्यम् आलम्ब्य शाश्वतम् । महात्यागी महाकर्ता महाभोक्ता भवानघ
किम् उच्यते महात्यागी महाभोक्ता किम् उच्यते । किम् उच्यते महाकर्ता सम्यक् कथय मे प्रभो
धर्माधर्मोदयापायशङ्काविरहिताशयः । यः करोति यथाप्राप्तं महाकर्ता स उच्यते
रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले । यः करोत्य् अनपेक्ष्यैव महाकर्ता स उच्यते
मौनवान् निरहम्भावो निर्मानो मुक्तमत्सरः । यः करोति गतोद्वेगं महाकर्ता स उचते
शुभाशुभेषु कार्येषु धर्माधर्मकुशङ्कया । मतिर् न लिप्यते यस्य महाकर्ता स उच्यते
सर्वत्र विगतस्नेहो यस् साक्षिवद् अवस्थितः । निरिच्छं वर्तते कार्ये महाकर्ता स उच्यते
उद्वेगानन्दरहितस् समया स्वच्छयेच्छया । न शोचते यो नोदेति महाकर्ता स उच्यते
यः कार्यकाले मतिमान् असंसक्तमना मुनिः । कार्यानुरूपवृत्तिस्थो महाकर्ता स उच्यते
स्वभावेनैव यस्यान्तस् समतां न जहाति धीः । शुभाशुभं ह्य् आचरतो महाकर्ता स उच्यते
जन्मस्थितिविनाशेषु सोदयास्तमयेष्व् अलम् । समम् एव मनो यस्य महाकर्ता स उच्यते
न किञ्चन द्वेष्टि च यो न किं च स्तौति यस् स्वयम् । भुङ्क्ते च प्रकृतं सर्वं महाभोक्ता स उच्यते
नादत्ते ऽप्य् आददानस् सन् नाचरत्य् आचरन्न् अपि । भुञ्जानो ऽपि न यो भुङ्क्ते महाभोक्ता स उच्यते
साक्षिवत् सकलं लोकव्यवहारम् अखिन्नधीः । यः पश्यत्य् अपयातेच्छं महाभोक्ता स उच्यते
सुखैर् दुःखैः क्रियायोगैर् भावाभावैर् भ्रमप्रदैः । यस्य नोत्क्रामति मतिर् महाभोक्ता स उच्यते
जरामरणम् आपच् च राज्यं दारिद्र्यम् एव च । रम्यम् एवेति यो वेत्ति महाभोक्ता स उच्यते
महान्ति सुखदुःखानि यः पयांसीव सागरः । समस् समुपगृह्णाति महाभोक्ता स उच्यते
अहिंसा समता तुष्टिश् चन्द्रबिम्बाद् इवांशवः । नापयान्त्य् अनिशं यस्मान् महाभोक्ता स उच्यते
कट्व् अम्ब्लं लवणं तिक्तम् अमृष्टं मृष्टम् उत्तमम् । अधमं यो ऽत्ति साम्येन महाभोक्ता स उच्यते
सरसं नीरसं चैव सुरतं विरतं तथा । यः पश्यति समस् सोम्यो महाभोक्ता स उच्यते
क्षारे खण्डप्रकारे च शुभे वाप्य् अशुभे तथा । समता सुस्थिता यस्य महाभोक्ता स उच्यते
इदं भोज्यम् अभोज्यं चेत्य् एवं त्यक्त्वा विकल्पितम् । गताभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते
आपदं सम्पदं मोहम् आनन्दम् अवरं वरम् । यो भुङ्क्ते समया बुद्ध्या महाभोक्ता स उच्यते
धर्माधर्मौ सुखं दुःखं चिन्ता मरणजन्मनी । धिया येनेति सन्त्यक्तं महात्यागी स उच्यते
सर्वेच्छास् सकलाश् शङ्कास् सर्वेहास् सर्वनिश्चयाः । धिया येन परित्यक्ता महात्यागी स उच्यते
देहस्य मनसो बुद्धेर् इन्द्रियाणां जगत्स्थितेः । नूनं येनोज्झिता सत्ता महात्यागी स उच्यते