पश्यञ् छृण्वन् स्पृशञ् जिघ्रन् वदन् व्यवहरन् स्वपन् । नापूर्वं कुरुते किञ्चित् सत्यम् इत्य् एव भावय
यद् यत् करोषि तत् तत्त्वं चिन्मात्रम् अमलं ततम् । ब्रह्म प्रबृंहिताकारं तस्माद् अन्यन् न विद्यते
पदार्थजाते सर्वस्मिन् संवित्सारतया स्थिते । संविद् एवेदम् अखिलं जगन् नान्यास्ति कल्पना
संवित्स्फुरणमात्रे ऽस्मिञ् जगज्जालकनामनि । इदम् अन्यद् इदं चान्यद् इति मिथ्याग्रहः कुतः
सम्भवाद् अखिलाकारेणैकस्या एव संविदः । संवेद्यम् अपि नास्त्य् एव बन्धमोक्षाव् अतः कुतः
मोक्षो ऽयम् एष खलु बन्ध इति प्रसह्य चिन्ता निरस्य सकला विकलाभिमानः । मौनी वशी विगतमानमदो महात्मा कुर्वन् स्वकार्यम् अनहङ्कृतिर् एव तिष्ठ
महाकर्ता महाभोक्ता महात्यागी भवानघ । सर्वाश् शङ्काः परित्यज्य धैर्यम् आलम्ब्य शाश्वतम्
किम् उच्यते महाकर्ता महात्यागी किम् उच्यते । किम् उच्यते महाभोक्ता सम्यक् कथय मे प्रभो
एतद् व्रतत्रयं राम पुरा चन्द्रार्धमौलिना । भृङ्गीशायोत्तमं प्रोक्तं येनासौ विज्वरस् स्थितः
सुमेरोर् उत्तरे शृङ्गे पूर्वं शशिकलाधरः । अतिष्ठद् अग्निसङ्काशे समग्रपरिवारवान्
तम् अपृच्छन् महातेजा ज्ञानजिज्ञासया स्वतः । भृङ्गीशः प्रणतो राम बद्धाञ्जलिर् उमापतिम्
भगवन् देवदेवेश सर्वज्ञ परमेश्वर । यद् अहं परिपृच्छामि कृपया तद् वदाशु मे
संसाररचनां नाथ तरङ्गतरलाम् इमाम् । अवलोक्य विमुह्यामि तत्त्वविश्रान्तिवर्जितः
कम् अन्तर्निश्चयं कान्तम् उररीकृत्य सुस्थिरम् । अस्मिञ् जगज्जीर्णगृहे तिष्ठामि विगतज्वरम्
सर्वाश् शङ्काः परित्यज्य धैर्यम् आलम्ब्य शाश्वतम् । महात्यागी महाकर्ता महाभोक्ता भवानघ
किम् उच्यते महात्यागी महाभोक्ता किम् उच्यते । किम् उच्यते महाकर्ता सम्यक् कथय मे प्रभो
धर्माधर्मोदयापायशङ्काविरहिताशयः । यः करोति यथाप्राप्तं महाकर्ता स उच्यते
रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले । यः करोत्य् अनपेक्ष्यैव महाकर्ता स उच्यते
मौनवान् निरहम्भावो निर्मानो मुक्तमत्सरः । यः करोति गतोद्वेगं महाकर्ता स उचते
शुभाशुभेषु कार्येषु धर्माधर्मकुशङ्कया । मतिर् न लिप्यते यस्य महाकर्ता स उच्यते
सर्वत्र विगतस्नेहो यस् साक्षिवद् अवस्थितः । निरिच्छं वर्तते कार्ये महाकर्ता स उच्यते
उद्वेगानन्दरहितस् समया स्वच्छयेच्छया । न शोचते यो नोदेति महाकर्ता स उच्यते
यः कार्यकाले मतिमान् असंसक्तमना मुनिः । कार्यानुरूपवृत्तिस्थो महाकर्ता स उच्यते
स्वभावेनैव यस्यान्तस् समतां न जहाति धीः । शुभाशुभं ह्य् आचरतो महाकर्ता स उच्यते
जन्मस्थितिविनाशेषु सोदयास्तमयेष्व् अलम् । समम् एव मनो यस्य महाकर्ता स उच्यते
न किञ्चन द्वेष्टि च यो न किं च स्तौति यस् स्वयम् । भुङ्क्ते च प्रकृतं सर्वं महाभोक्ता स उच्यते
नादत्ते ऽप्य् आददानस् सन् नाचरत्य् आचरन्न् अपि । भुञ्जानो ऽपि न यो भुङ्क्ते महाभोक्ता स उच्यते
साक्षिवत् सकलं लोकव्यवहारम् अखिन्नधीः । यः पश्यत्य् अपयातेच्छं महाभोक्ता स उच्यते
सुखैर् दुःखैः क्रियायोगैर् भावाभावैर् भ्रमप्रदैः । यस्य नोत्क्रामति मतिर् महाभोक्ता स उच्यते
जरामरणम् आपच् च राज्यं दारिद्र्यम् एव च । रम्यम् एवेति यो वेत्ति महाभोक्ता स उच्यते