घटादिषु प्रणष्टेषु यथाकाशम् अखण्डितम् । तथा देहेषु नष्टेषु देही नित्यम् अलोपकः
शुद्धचिन्मात्र आत्मायम् आकाशाद् अप्य् अणोर् अणुः । स्वानुभूत्यंशमात्रं हि खवद् राम न नश्यति
न जायते न म्रियते क्वचित् किञ्चित् कदाचन । जगद्विवर्तरूपेण केवलं ब्रह्म जृम्भते
सर्वम् एकम् इदं शान्तम् आदिमध्यान्तवर्जितम् । भावाभावविनिर्मुक्तम् इति मत्वा सुखी भव
सर्वापदां निलयम् अध्रुवम् अस्वतन्त्रम् आसन्नपातम् अविवेकम् असारम् अज्ञम् । बोधाद् अहङ्कृतिपदं सकलं विमुच्य शेषे सुबद्धपद उत्तमतां प्रयासि
परस्माद् ब्रह्मणः पूर्वं मनः प्रथमम् उत्थितम् । मननात्मकम् आभोगि तत्स्थम् एव स्थितिं गतम्
पुष्पकोश इवामोदो महोर्मिर् इव सागरे । रश्मिजालम् इवादित्ये मनो ब्रह्मणि राघव
तस्यादृश्यात्मतत्त्वस्य विस्मृत्यैव गतं स्थितिम् । नान्ययुक्त्या गतं राम जातं रज्जुभुजङ्गवत्
आदित्यव्यतिरेकेण यो भावयति राघव । रश्मिजालम् इदं ह्य् एतत् तस्यान्यद् इव भास्वतः
कनकव्यतिरेकेण केयूरं येन भावितम् । केयूरम् एव तत् तस्य न तस्य कनकं हि तत्
सलिलव्यतिरेकेण तरङ्गो येन भावितः । तरङ्गबुद्धिर् एवैका स्थिता तस्य न वारिधीः
सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते । अम्बुसामान्यसम्बुद्धिर् निर्विकल्पस् स उच्यते
कनकाव्यतिरेकेण केयूरं येन भाव्यते । कनकैकमहाबुद्धिर् निर्विकल्पस् स उच्यते
पावकव्यतिरेकेण ज्वालाली येन भाव्यते । तस्याग्निबुद्धिर् गलति ज्वालाधीर् एव तिष्ठति
ज्वालाजालेन लोलेन रञ्जिता सा तथा स्थितिः । ताम् एवास्थां समाधत्ते तद्गता व्याकुला मतिः
पावकाव्यतिरेकेण ज्वालाली येन भाव्यते । तस्याग्निबुद्धिर् एवास्ति निर्विकल्पस् स उच्यते
यो निर्विकल्पस् स महान् स सङ्क्षीणमना मुनिः । प्राप्तव्यं तेन सम्प्राप्तं नासौ मज्जति वस्तुषु
नानाताम् अखिलां त्यक्त्वा शुद्धचिन्मात्रकोटरे । संवेदनविनिर्मुक्तं संवित्त्यंशो भवानघ
स्वयम् आत्मात्मनैवाशु शक्तिं सङ्कल्पनामिकाम् । यदा करोति स्फुरितां स्पन्दशक्तिम् इवानिलः
तदा पृथग् इवाभासं सङ्कल्पकलनामयम् । मनो भवति विश्वात्म भावयत्य् आकृतिं स्वयम्
तत् सङ्कल्पात्मकं चेतो यथेदम् अखिलं जगत् । सङ्कल्पयति सङ्कल्पि तथैव भवति क्षणात्
कीटत्वम् अब्जजत्वं च मेरुत्वम् अणुतां तथा । मनो यातम् अहङ्कारबुद्धिचित्तादिनामकम्
स्वसङ्कल्पाद् विरिञ्चित्वम् एत्य चेतो जगत्स्थितिम् । तनोति तस्यां तदनु नानातां गच्छति स्वयम्
सङ्कल्पमयम् एवेदं जगद् आभोगि दृश्यते । न सत्यं न च मिथ्यैव स्वप्नजालम् इवोत्थितम्
जन्तोर् यथा मनोराज्यं विविधारम्भभासुरम् । ब्राह्मं तथेदं विततं मनोराज्यं विजृम्भते
यथा न वितथस् स्वप्नः प्रतिभासान् न चापि सन् । तथा ब्राह्मं मनोराज्यं जगन् नासन् न सन् मुने
मिथ्यावभासमात्रं हि यद् इदं घनतां गतम् । यथाभूतार्थभावित्वात् तद् एतत् प्रविलीयते
परमार्थेन दृष्टं चेत् तद् इदं नैव किञ्चन । दृष्टं त्व् अपरमार्थेन प्रयाति शतशाखताम्
लहर्यूर्मितरङ्गाम्बुकलनार्हं परिस्फुरन् । यथाम्बुधिर् वपुर् धत्ते स्वभावेन तथा विभुः
कुर्वन् कर्मसहस्राणि कर्ता चित्स्पन्दनाद् ऋते । नापूर्वं कुरुते किञ्चित् कश्चिद् भेदम् अतस् त्यज