अथ कालेन तत् तस्य गृहं नाशम् उपाययौ । ऋत्वन्तरेणर्तुर् इव वातेनेव तरङ्गकः
हा गृहाकाश नष्टं त्वं हा क्व यातम् असि क्षणात् । हा हा भग्नम् असि स्वच्छम् इत्य् अथैतच् छुशोच सः
इति शोकं चिरं कृत्वा पुनस् तत्रैव दुर्मतिः । कूपं चक्रे खरक्षार्थं कूपाकाशपरो ऽभवत्
ततो नाशं स कालेन नीतः कूपो ऽपि तस्य वै । कूपाकाशमहाशोकविधुरो ऽसौ ततो ऽभवत्
कूपाकाशप्रलापान्ते कुम्भं तत्रैव सो ऽकरोत् । कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिम् आययौ
कुम्भो ऽपि तस्य कालेन नाशं नीतो रघूद्वह । याम् एव दिशम् आदत्ते दुर्भगस् सापि नश्यति
कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः । कुण्डं तत्रैव तेनासौ कुण्डाकाशपरो ऽभवत्
कुण्डम् अप्य् अस्य कालेन कानने नाशम् आययौ । तेजसेव तमस् तेन कुण्डाकशां शुशोच सः
कुण्डकाकाशशोकान्ते खरक्षार्थं चकार सः । चतुश्शालं महाशालं तदाकाशपरो ऽभवत्
तद् अप्य् अस्य जहाराशु कालः कवलितप्रजः । जीर्णं पर्णं यथा वातस् स तच्छोकपरो ऽभवत्
चतुश्शालखशोकान्ते खरक्षार्थं चकार ह । कुसूलम् अम्बुदाकारं तदाकाशपरस् स्थितः
तद् अप्य् अस्य जहाराशु कालो वात इवाम्बुदम् । कुसूलाकाशशोकेन तेनासौ पर्यतप्यत
एवं गृहचतुश्शालकुम्भकुण्डकुसूलकैः । तस्यापर्यवसानात्मा कालो ऽयम् अतिवर्तते
एवं स्थितस् स शठधीर् गगनं गुहायां गृह्णन् गृहे न गगनेन किलात्मबुद्ध्या । दुःखान्तरं घनतरं घनदुःखजालाद् आयाति याति च गतेर् गतिम् अङ्ग मूढः
मिथ्यानरप्रसङ्गेन किं मायापुरुषः प्रभो । कथितो ऽयं त्वया व्योमरक्षणं च किम् उच्यते
शृणु राम यथाभूतम् एतत् प्रकटयामि ते । मिथ्यापुरुषवृत्तान्तकथनं कथयाधुना
मायायन्त्रमयः प्रोक्तो यः पुमान् रघुनन्दन । एनं तं त्वम् अहङ्कारं विद्धि शून्याम्बरोत्थितम्
यस्मिन्न् आकाशकोणे ऽस्मिन् साधो जगद् इदं स्थितम् । तद् अनन्तम् असच् छून्यं सर्गादौ भवति स्वयम्
अन्तस्स्थितसुदुर्लक्ष्यब्रह्मव्योम्नो ऽथ शब्दखात् । तस्माद् उदेत्य् अहङ्कारः पूर्वं स्पन्द इवानिलात्
वृद्धिं यातस् स गगने कल्पयत्य् आत्मतां शठः । अनात्मात्माभिमानेन तेनासौ यतते ततः
अनात्मात्मैकरक्षार्थं देहान् नानाविधान् असौ । भूयो भूयो ऽपि निर्नष्टान् दृष्ट्वेदं कुरुते जगत्
स एव मायापुरुषो मिथ्यापुरुष एव सः । असन्न् एवोदितो व्यर्थम् अहङ्कारो ऽपि मायया
गृहकुण्डचतुश्शालकुम्भादीन् देहकान् असौ । कृत्वा रक्षित आत्मेति याति तद्व्योम्नि भावनाम्
अहङ्कारस्य तस्यास्य नामानीमानि राघव । शृणु यैर् जगदारम्भविभ्रमैर् मोहम् एत्य् असौ
जीवो बुद्धिर् मनश् चित्तं माया प्रकृतिर् इत्य् अपि । सङ्कल्पः कलना कालः कला चेत्य् अपि विश्रुतैः
एवमाद्यैस् तथान्यैश् च नामभिर् बहुतां गतैः । सहस्ररूपो ऽहङ्कारः कल्पितार्थैर् विजृम्भते
भूताकाशे तते शून्ये जगन्निर्मितिभिश् चिरम् । सुखदुःखान्य् अनुभवन् मिथ्यैव पुरुषस् स्थितः
यथैष मिथ्यापुरुषो रक्षन् व्योमात्मशङ्कया । घटाकाशादिषु श्लिष्टम् एवं मा क्लेशवान् भव
आकाशाद् अपि विस्तीर्णश् शुद्धस् सूक्ष्मश् शिवश् शुभः । य आत्मा स कथं केन रक्ष्यते गृह्यते तथा
हृदयाकाशमात्रस्य घटाकाशसमस्थितेः । व्यर्थं भूतानि शोचन्ति नष्ट आत्मेति सङ्क्षये