न तृप्तिम् अधिगच्छामि वचसां वदतस् तव । ऐन्दवीनां मरीचीनां चकोरस् तृषितो यथा
तृप्तो ऽपि भूयः पृच्छामि त्वां प्रश्नम् इमम् ईश्वर । को नाम तृप्तो ऽप्य् अग्रस्थं न पिबत्य् अमृतासवम्
किम् उच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम् । वस्त्व् अवस्तूकृतजगद्वस्तुजातं वदाशु मे
मिथ्यापुरुषबोधाय शृणु राघव शोभनाम् । इमाम् आख्यायिकां हासजननीं मदुदीरिताम्
अस्ति कश्चिन् महाबाहो मायायन्त्रमयः पुमान् । बालपेलवधीर् मूढो गूढो मौर्ख्येण केवलम्
स एकान्ते क्वचिज् जातश् शून्ये तत्रैव तिष्ठति । केशोण्डुकम् इव व्योम्नि मृगतृष्णेव वा मरौ
तस्माद् अन्यन् न तत्रास्ति यद् अस्ति च स एव तत् । यच् चान्यत् तत् सदाभासं न स पश्यति दुर्मतिः
सङ्कल्पस् तस्य सञ्जातस् तत्र वृद्धिम् उपेयुषः । खस्याहं खम् अहं खं मे खं रक्षामीति निश्चलः
खं स्थापयित्वा रक्षामि वस्त्व् इष्टं रक्ष्यम् आदरात् । इति सञ्चिन्तयन् व्योमरक्षार्थम् सो ऽकरोद् गृहम्
तस्य कोशे बबन्धास्थां रक्षितं खं मयेत्य् असौ । गृहाकाशेन सन्तुष्टस् स्थितस् स रघुनन्दन
अथ कालेन तत् तस्य गृहं नाशम् उपाययौ । ऋत्वन्तरेणर्तुर् इव वातेनेव तरङ्गकः
हा गृहाकाश नष्टं त्वं हा क्व यातम् असि क्षणात् । हा हा भग्नम् असि स्वच्छम् इत्य् अथैतच् छुशोच सः
इति शोकं चिरं कृत्वा पुनस् तत्रैव दुर्मतिः । कूपं चक्रे खरक्षार्थं कूपाकाशपरो ऽभवत्
ततो नाशं स कालेन नीतः कूपो ऽपि तस्य वै । कूपाकाशमहाशोकविधुरो ऽसौ ततो ऽभवत्
कूपाकाशप्रलापान्ते कुम्भं तत्रैव सो ऽकरोत् । कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिम् आययौ
कुम्भो ऽपि तस्य कालेन नाशं नीतो रघूद्वह । याम् एव दिशम् आदत्ते दुर्भगस् सापि नश्यति
कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः । कुण्डं तत्रैव तेनासौ कुण्डाकाशपरो ऽभवत्
कुण्डम् अप्य् अस्य कालेन कानने नाशम् आययौ । तेजसेव तमस् तेन कुण्डाकशां शुशोच सः
कुण्डकाकाशशोकान्ते खरक्षार्थं चकार सः । चतुश्शालं महाशालं तदाकाशपरो ऽभवत्
तद् अप्य् अस्य जहाराशु कालः कवलितप्रजः । जीर्णं पर्णं यथा वातस् स तच्छोकपरो ऽभवत्
चतुश्शालखशोकान्ते खरक्षार्थं चकार ह । कुसूलम् अम्बुदाकारं तदाकाशपरस् स्थितः
तद् अप्य् अस्य जहाराशु कालो वात इवाम्बुदम् । कुसूलाकाशशोकेन तेनासौ पर्यतप्यत
एवं गृहचतुश्शालकुम्भकुण्डकुसूलकैः । तस्यापर्यवसानात्मा कालो ऽयम् अतिवर्तते
एवं स्थितस् स शठधीर् गगनं गुहायां गृह्णन् गृहे न गगनेन किलात्मबुद्ध्या । दुःखान्तरं घनतरं घनदुःखजालाद् आयाति याति च गतेर् गतिम् अङ्ग मूढः
मिथ्यानरप्रसङ्गेन किं मायापुरुषः प्रभो । कथितो ऽयं त्वया व्योमरक्षणं च किम् उच्यते
शृणु राम यथाभूतम् एतत् प्रकटयामि ते । मिथ्यापुरुषवृत्तान्तकथनं कथयाधुना
मायायन्त्रमयः प्रोक्तो यः पुमान् रघुनन्दन । एनं तं त्वम् अहङ्कारं विद्धि शून्याम्बरोत्थितम्
यस्मिन्न् आकाशकोणे ऽस्मिन् साधो जगद् इदं स्थितम् । तद् अनन्तम् असच् छून्यं सर्गादौ भवति स्वयम्
अन्तस्स्थितसुदुर्लक्ष्यब्रह्मव्योम्नो ऽथ शब्दखात् । तस्माद् उदेत्य् अहङ्कारः पूर्वं स्पन्द इवानिलात्
वृद्धिं यातस् स गगने कल्पयत्य् आत्मतां शठः । अनात्मात्माभिमानेन तेनासौ यतते ततः