वस्तुतो नास्त्य् अहङ्कारः पुत्र मिथ्याभ्रमो ह्य् असौ । असन् सन्न् इव सम्पन्नो बालवेतालवच् छठः
यथा रज्ज्वां भुजङ्गत्वं मराव् अम्बुमतिर् यथा । मिथ्यावभासात् स्फुरति तथा मिथ्याप्य् अहङ्कृतिः
असद् एव यथा द्वित्वं मोहाद् इन्दोर् विलोक्यते । तथा स्फुरत्य् अहङ्कारो नसत्यो नाम सत्यवत्
एकम् आद्यन्तरहितं चिन्मात्रम् अमलं ततम् । खाद् अप्य् अतितराम् अच्छं विद्यते सर्ववेदनम्
सर्वत्र सर्वदा सर्वप्रकारं सर्वजन्तुषु । तद् एवैकं कचत्य् अम्बु विलोलास्व् इव वीचिषु
अत्र को ऽयम् अहम्भावः कुतो वा कथम् उत्थितः । क्वाब्धेर् जातो रजोराशिः क्वानलाद् उत्थितम् जलम्
अयं सो ऽहम् इति व्यर्थं प्रत्ययं त्यज पुत्रक । तुच्छं परिमिताकारं दिक्कालविवशीकृतम्
दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् । सर्वार्थमयम् एकार्थं चिन्मात्रम् अमलं भवान्
फलकुसुमदलानां सर्वदिक्संस्थितानां रस इव जगतां त्वं संस्थितस् सर्वदैव । विमलतरचिदात्मा नित्यम् एवात्यनन्तः क इव किल तवाहंनिश्चयो भावमूर्ते
इति प्राप्य परं योगम् उपदेशम् अनुत्तमम् । जीवन्मुक्तो बभूवासौ ततो देवगुरोस् सुतः
निर्भावो निरहङ्कारश् छिन्नग्रन्थिः प्रशान्तधीः । कचो यथा स्थितो राम तथा तिष्ठाविकारवान्
अहङ्कारम् असद् विद्धि मैनम् आश्रय मा त्यज । असतश् शशशृङ्गस्य किल त्यागग्रहौ कुतः
असम्भवत्य् अहङ्कारे क्व ते मरणजन्मनी । नभःक्षेत्रतया व्युप्तं केन सङ्गृह्यते फलम्
निरंशं शान्तसङ्कल्पं सर्वभावात्मकं ततम् । परमाद् अप्य् अणोस् सूक्ष्मं चिन्मात्रं त्वं निरामयम्
यथाम्भसस् तरङ्गादि यथा हेम्नो ऽङ्गदादि वा । तद् एवातद् इवाभासं तथाहम्भावनं चितः
अबोधेन जगत् सर्वं मायामयम् इव स्थितम् । बोधेन सकलं ब्रह्मरूपं सम्पद्यते ऽनघ
द्वित्वैकत्वमती त्यक्त्वा शेषस्थस् सुखितो भव । मा दुःखितो भव व्यर्थं त्वं मिथ्यापुरुषो यथा
मायेयम् अतिदुष्पारा सांसारी सारतां गता । शरदा मिहिकेवाशु बोधेनायाति तानवम्
परमाम् आगतो ऽस्म्य् अन्तस् तृप्तिं ज्ञानामृतेन ते । अवग्रहभयाक्रान्तस् स्वासारेणेव चातकः
अमृतेनेव सिक्तो ऽहम् अन्तर् गच्छामि शीतताम् । उपरीव समस्तानां तिष्ठाम्य् अतुलसम्पदाम्
न तृप्तिम् अधिगच्छामि वचसां वदतस् तव । ऐन्दवीनां मरीचीनां चकोरस् तृषितो यथा
तृप्तो ऽपि भूयः पृच्छामि त्वां प्रश्नम् इमम् ईश्वर । को नाम तृप्तो ऽप्य् अग्रस्थं न पिबत्य् अमृतासवम्
किम् उच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम् । वस्त्व् अवस्तूकृतजगद्वस्तुजातं वदाशु मे
मिथ्यापुरुषबोधाय शृणु राघव शोभनाम् । इमाम् आख्यायिकां हासजननीं मदुदीरिताम्
अस्ति कश्चिन् महाबाहो मायायन्त्रमयः पुमान् । बालपेलवधीर् मूढो गूढो मौर्ख्येण केवलम्
स एकान्ते क्वचिज् जातश् शून्ये तत्रैव तिष्ठति । केशोण्डुकम् इव व्योम्नि मृगतृष्णेव वा मरौ
तस्माद् अन्यन् न तत्रास्ति यद् अस्ति च स एव तत् । यच् चान्यत् तत् सदाभासं न स पश्यति दुर्मतिः
सङ्कल्पस् तस्य सञ्जातस् तत्र वृद्धिम् उपेयुषः । खस्याहं खम् अहं खं मे खं रक्षामीति निश्चलः
खं स्थापयित्वा रक्षामि वस्त्व् इष्टं रक्ष्यम् आदरात् । इति सञ्चिन्तयन् व्योमरक्षार्थम् सो ऽकरोद् गृहम्
तस्य कोशे बबन्धास्थां रक्षितं खं मयेत्य् असौ । गृहाकाशेन सन्तुष्टस् स्थितस् स रघुनन्दन