यथा शिखिध्वजो राज्यं कृतवान् एवम् ईदृशः । राम व्यवहरन् राज्ये भोगमोक्षमयो भव
शिखिध्वजक्रमेणैव यथा बोधम् अवाप्तवान् । कचो बृहस्पतेः पुत्रस् तथा बुध्यस्व राघव
बृहस्पतेर् भगवतः पुत्रो ऽसौ भगवान् कचः । यथा प्रबुद्धो भगवन् समासेन तथा वद
शृणु राजन् कथं श्रीमाञ् शिखिध्वजवद् एव सः । प्रबोधं परमं यातो देवदैशिकजः कचः
बालभावात् समुत्तीर्णस् संसारोत्तरणोन्मुखः । कचः पदपदार्थज्ञो बृहस्पतिम् अभाषत
भगवन् सर्वधर्मज्ञ कथं संसृतिपञ्जरात् । अस्मान् निर्गम्यते ब्रूहि जन्तुना जीवतन्तुना
अनर्थमकरागाराद् अस्मात् संसारसागरात् । उत्तीर्यते निरुद्वेगं सर्वत्यागेन पुत्रक
इत्य् आकर्ण्य कचो वाक्यं पितुः परमपावनम् । सर्वम् एव परित्यज्य जगामैकान्तकाननम्
बृहस्पतेस् तद्गमनं नोद्वेगाय बभूव ह । संयोगे च वियोगे च महान्तो हि समाशयाः
अथ वर्षेषु यातेषु त्रिषु पञ्चसु चानघ । पुनः प्राप महारण्ये कस्मिंश्चित् पितरं कचः
परिपूज्याभिवन्द्यैनं समालिङ्गितपुत्रकम् । अपृच्छद् वाक्पतिं भूयस् स कचः क्लान्तया गिरा
अद्येदम् अष्टमं वर्षं सर्वत्यागः कृतो मया । तथापि तात विश्रान्तिं नाधिगच्छाम्य् अनिन्दिताम्
एवम् आर्तमनस्य् अस्मिन् कचे वदति कानने । सर्वम् एव त्यजेत्य् उक्त्वा वाक्पतिर् दिवम् उद्ययौ
गते तस्मिन् कचो देहाद् वल्कलाद्य् अप्य् अशेषतः । तत्याजाम्बुदवर्षादि शरदीव नभस्तलम्
उवासैको दिगन्तेषु शान्तश् शून्यवपुश् श्वसन् । गतेन्द्वभ्रार्कतारेण शरद्व्योम्ना समोपमः
पुनर् वर्षत्रयेणैष कस्मिंश्चित् काननान्तरे । दूयमानमनाः प्राप तम् एव पितरं गुरुम्
कृतपूजाक्रमो भक्त्या समालिङ्गितपुत्रकम् । अपृच्छत् तम् असौ भूयः खेदगद्गदया गिरा
तात सर्वं परित्यक्तं कन्थावेणुलताद्य् अपि । तथापि नास्ति विश्रान्तिस् स्वपदे किं करोम्य् अहम्
चित्तं सर्वम् इति प्राहुस् तत् त्यक्त्वा पुत्र राजसे । चित्तत्यागं विदुस् सर्वत्यागं त्यागविदो जनाः
इत्य् उक्त्वा वाक्पतिः पुत्रं पुप्लुवे तरसा नभः । अन्वियेष कचश् चित्तं परित्यक्तुम् अखिन्नधीः
चिन्तयन्न् अप्य् असौ चित्तं यदा वेद न कानने । तदा सञ्चिन्तयाम् आस धियेदम् अविषण्णया
पदार्थवृन्दं देहादि न सर्वम् इति कथ्यते । तद् एतत् किं क्व वा व्यर्थं निरागस्कं त्यजाम्य् अहम्
पितुस् सकाशं गच्छामि ज्ञातुं चित्तमहारिपुम् । ज्ञात्वा च तत् त्यजाम्य् आशु ततस् तिष्ठामि विज्वरम्
इति सञ्चिन्त्य स कच उत्ततार त्रिविष्टपम् । वाक्पतिं प्राप्य सस्नेहं ववन्दे प्रणनाम च
पप्रच्छ चैनम् एकान्ते किं चित्तं भगवन् मम । स्वरूपं ब्रूहि चित्तस्य येनैतत् सन्त्यजाम्य् अहम्
चित्तं निजम् अहङ्कारं विदुश् चित्तविदो जनाः । अन्तर् यो ऽयम् अहम्भावो जन्तोस् तच् चित्तम् उच्यते
मन्ये ऽस्य दुष्करस् त्यागो न सिद्धिम् उपगच्छति । कथम् एष किल त्यक्तुं युज्यते योगिनां वर
अपि पुष्पावदलनाद् अपि लोचनमीलनात् । सुकरो ऽहङ्कृतित्यागो न क्लेशो ऽत्र मनाग् अपि
त्रयस्त्रिंशन्महाकोटीप्रमाणस्य महामते । गुरो गीर्वाणवृन्दस्य कथम् एतद् वदाशु मे
यथैतद् एव तनय तथा शृणु वदामि ते । अज्ञानमात्रसंसिद्धं वस्तु ज्ञानेन नश्यति