पताकाध्वजसम्बाधं मुक्ताजालमनोरमम् । नृत्तगीतपरस्त्रीकं स्वर्गं भूमाव् इव च्युतम्
प्रविश्याथ गृहं तैस् तैस् संयुतं नृपमङ्गलैः । सम्यक् सम्मानयाम् आस प्रणतं प्रकृतिव्रजम्
पुरोत्सवं भृशं कृत्वा दिनसप्तकम् उत्तमम् । अकरोद् राजकार्याणि मानितान्तःपुरो नृपः
दशवर्षसहस्राणि राज्यं कृत्वा महीतले । सह चूडालया राजा विरतो देहधारणात्
देहम् उत्सृज्य निर्वाणम् अस्नेह इव दीपकः । अपुनर्जन्मने राम जगामेति महामतिः
दशवर्षसहस्राणि समदृष्टितया तया । राज्यं तथानुशिष्यासौ निर्वाणपदम् आप्तवान्
विगतभयविषादो मानमात्सर्यमुक्तः प्रकृतसहजकर्मा सक्तनीरागबुद्धिः । इति स सुसमदृष्टिर् मृत्युम् आर्यो ऽथ जित्वा दशशिशिरसहस्राण्य् एकराज्यं चकार
भुक्त्वा भोगान् अनन्तान् भुवि सकलमही पालचूडामणित्वे स्थित्वा वै दीर्घकालं परम् अमृतपदं प्राप्तवांस् तद् यथैषः । एवं रामागतं त्वं प्रकृतम् अनुसरन् कार्यजातं विशोकस् तिष्ठोत्तिष्ठ स्वयत्नात् प्रसभम् अनुभवन् भोगमोक्षाग्र्यलक्ष्मीम्
एतत् ते सर्वम् आख्यातं शिखिध्वजकथानकम् । अनेन गच्छ मार्गेण न कदाचन खिद्यसे
एतां दृष्टिम् अवष्टभ्य राघवाघविघातिनीम् । नित्यं नीरागया बुद्ध्या तिष्ठावष्टब्धतत्पदः
यथा शिखिध्वजो राज्यं कृतवान् एवम् ईदृशः । राम व्यवहरन् राज्ये भोगमोक्षमयो भव
शिखिध्वजक्रमेणैव यथा बोधम् अवाप्तवान् । कचो बृहस्पतेः पुत्रस् तथा बुध्यस्व राघव
बृहस्पतेर् भगवतः पुत्रो ऽसौ भगवान् कचः । यथा प्रबुद्धो भगवन् समासेन तथा वद
शृणु राजन् कथं श्रीमाञ् शिखिध्वजवद् एव सः । प्रबोधं परमं यातो देवदैशिकजः कचः
बालभावात् समुत्तीर्णस् संसारोत्तरणोन्मुखः । कचः पदपदार्थज्ञो बृहस्पतिम् अभाषत
भगवन् सर्वधर्मज्ञ कथं संसृतिपञ्जरात् । अस्मान् निर्गम्यते ब्रूहि जन्तुना जीवतन्तुना
अनर्थमकरागाराद् अस्मात् संसारसागरात् । उत्तीर्यते निरुद्वेगं सर्वत्यागेन पुत्रक
इत्य् आकर्ण्य कचो वाक्यं पितुः परमपावनम् । सर्वम् एव परित्यज्य जगामैकान्तकाननम्
बृहस्पतेस् तद्गमनं नोद्वेगाय बभूव ह । संयोगे च वियोगे च महान्तो हि समाशयाः
अथ वर्षेषु यातेषु त्रिषु पञ्चसु चानघ । पुनः प्राप महारण्ये कस्मिंश्चित् पितरं कचः
परिपूज्याभिवन्द्यैनं समालिङ्गितपुत्रकम् । अपृच्छद् वाक्पतिं भूयस् स कचः क्लान्तया गिरा
अद्येदम् अष्टमं वर्षं सर्वत्यागः कृतो मया । तथापि तात विश्रान्तिं नाधिगच्छाम्य् अनिन्दिताम्
एवम् आर्तमनस्य् अस्मिन् कचे वदति कानने । सर्वम् एव त्यजेत्य् उक्त्वा वाक्पतिर् दिवम् उद्ययौ
गते तस्मिन् कचो देहाद् वल्कलाद्य् अप्य् अशेषतः । तत्याजाम्बुदवर्षादि शरदीव नभस्तलम्
उवासैको दिगन्तेषु शान्तश् शून्यवपुश् श्वसन् । गतेन्द्वभ्रार्कतारेण शरद्व्योम्ना समोपमः
पुनर् वर्षत्रयेणैष कस्मिंश्चित् काननान्तरे । दूयमानमनाः प्राप तम् एव पितरं गुरुम्
कृतपूजाक्रमो भक्त्या समालिङ्गितपुत्रकम् । अपृच्छत् तम् असौ भूयः खेदगद्गदया गिरा
तात सर्वं परित्यक्तं कन्थावेणुलताद्य् अपि । तथापि नास्ति विश्रान्तिस् स्वपदे किं करोम्य् अहम्
चित्तं सर्वम् इति प्राहुस् तत् त्यक्त्वा पुत्र राजसे । चित्तत्यागं विदुस् सर्वत्यागं त्यागविदो जनाः
इत्य् उक्त्वा वाक्पतिः पुत्रं पुप्लुवे तरसा नभः । अन्वियेष कचश् चित्तं परित्यक्तुम् अखिन्नधीः