.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. । भार्या भर्तारम् एकान्ते स्वराज्ये ऽभिषिषेच सा
सङ्कल्पोपनते सैंहे स्वभिषिक्तं सुविष्टरे । स्थितं प्रोवाच तन्वी सा चूडाला देवरूपिणी
केवलं मौनम् उत्सृज्य तेजश् शान्तम् इदं प्रभो । अष्टानां लोकपालानां तेजांस्य् आहर्तुम् अर्हसि
चूडालयेति स प्रोक्तो वने राजा शिखिध्वजः । वदन्न् एवं करोमीति महाराजत्वम् आययौ
अथ प्रतीहारपदे तिष्ठन्तीम् आह मानिनीम् । महादेवीपदे राज्ञि त्वां करोम्य् अभिषेकिनीम्
इत्य् उक्त्वासन आस्थाप्य महादेवीपदे तदा । अभिषिक्तां नृपः कृत्वा मेघवाग् आह तां प्रियाम्
प्रिये कमलपत्त्राक्षि क्षणात् सङ्कल्पसम्भवम् । महाविभवम् उद्दामं सैन्यम् आहर्तुम् अर्हसि
इति कान्तवचश् श्रुत्वा चूडाला वरवर्णिनी । सैन्यं सङ्कल्पयाम् आस प्रावृड्घनम् इवोद्भटम्
सैन्यं ददृशतुस् तत् तौ वाजिवारणसङ्कुलम् । पताकापूरिताकाशनीरन्ध्रीकृतकाननम्
तूर्यारवध्वनच्छैलगुहं गहनकोटरम् । मत्तसामन्तवलितं विद्रवद्वनवारणम्
उद्यन्नादमहासिंहविदारकरणोद्भटम् । वनेभमदनिष्ष्यन्दगन्धोद्गर्जज्जयद्विपम्
विमानरथसङ्घट्टचक्रचीत्कारपीवरम् । मौलिरत्नघनोद्द्योतभग्नधूलितमःपटम्
तत्र गन्धद्विपवरे कृतपार्थिवमन्दिरे । रक्षिते दृप्तसामन्तैर् आरूढौ नृपदम्पती
ततश् शिखिध्वजो राजा महिष्या समम् इष्टया । पदातिरथसम्बाधं कर्षन्न् अतिबलो बलम्
चचालाचलचालिन्या सेनया रभसेनया । भिनन्त्या तरसा शैलान् वात्ययेवाशु तोयदान्
तस्मान् महेन्द्रशैलेन्द्राच् चलितस् स महीपतिः । पथि पश्यन् गिरीन् देशान् नदीर् ग्रामान् सजङ्गलान्
दर्शयंश् च प्रियायास् तम् आत्मवृत्तान्तसञ्चयम् । प्रापाल्पेनैव कालेन स्वां पुरीं स्वर्गशोभनाम्
तत्र ते तस्य सामन्तास् तदागमनम् आदृताः । विविदुर् जयशब्देन निर्जग्मुश् चोदिताशयाः
एकतां सम्प्रयातेन तारतूर्यनिनादिना । बलद्वयेन तेनासौ विवेश नगरं नृपः
लाजपुष्पाञ्जलिव्रातैर् आवृष्टः पौरयोषिताम् । वणिङ्मार्गगतो ऽपश्यत् पुरं परमभूषितम्
पताकाध्वजसम्बाधं मुक्ताजालमनोरमम् । नृत्तगीतपरस्त्रीकं स्वर्गं भूमाव् इव च्युतम्
प्रविश्याथ गृहं तैस् तैस् संयुतं नृपमङ्गलैः । सम्यक् सम्मानयाम् आस प्रणतं प्रकृतिव्रजम्
पुरोत्सवं भृशं कृत्वा दिनसप्तकम् उत्तमम् । अकरोद् राजकार्याणि मानितान्तःपुरो नृपः
दशवर्षसहस्राणि राज्यं कृत्वा महीतले । सह चूडालया राजा विरतो देहधारणात्
देहम् उत्सृज्य निर्वाणम् अस्नेह इव दीपकः । अपुनर्जन्मने राम जगामेति महामतिः
दशवर्षसहस्राणि समदृष्टितया तया । राज्यं तथानुशिष्यासौ निर्वाणपदम् आप्तवान्
विगतभयविषादो मानमात्सर्यमुक्तः प्रकृतसहजकर्मा सक्तनीरागबुद्धिः । इति स सुसमदृष्टिर् मृत्युम् आर्यो ऽथ जित्वा दशशिशिरसहस्राण्य् एकराज्यं चकार
भुक्त्वा भोगान् अनन्तान् भुवि सकलमही पालचूडामणित्वे स्थित्वा वै दीर्घकालं परम् अमृतपदं प्राप्तवांस् तद् यथैषः । एवं रामागतं त्वं प्रकृतम् अनुसरन् कार्यजातं विशोकस् तिष्ठोत्तिष्ठ स्वयत्नात् प्रसभम् अनुभवन् भोगमोक्षाग्र्यलक्ष्मीम्
एतत् ते सर्वम् आख्यातं शिखिध्वजकथानकम् । अनेन गच्छ मार्गेण न कदाचन खिद्यसे
एतां दृष्टिम् अवष्टभ्य राघवाघविघातिनीम् । नित्यं नीरागया बुद्ध्या तिष्ठावष्टब्धतत्पदः