वयम् आद्यन्तमध्येषु कीदृशास् तरले वद । मोहम् एकं परित्यज्य तिष्ठामः कथम् एव वा
वयम् आद्यन्तमध्येषु राजानो राजसत्तम । मोहम् एकं परित्यज्य तिष्ठामः पुनर् एव ते
स्व एव नगरे राजा भव त्वं स्वासने स्थितः । ललामभूता कान्तानां महिषी ते भवाम्य् अहम्
सनृपा मत्तवास्तव्या नृत्यन्नववराङ्गना । सपताका ध्वनत्तूर्या पुष्पप्रकरिणी पुरी
लसद्वल्ल्या समञ्जर्या रणत्षट्पदया समा । मधुमासवनावल्या चिराद् भवतु नः प्रभो
इति चूडालया प्रोक्ते विहस्य स शिखिध्वजः । प्रोवाच मधुरं वाक्यम् अक्षुब्धं विगतत्वरम्
एवं चेत् तद् विशालाक्षि स्वायत्ता नस् त्रिविष्टपे । सिद्धभोगभुवस् तासु निवसामो न किं प्रिये
न राजन् मम भोगेषु वाञ्छा न च विभूतिषु । स्वभावस्य वशाद् एव यथाप्राप्ते रमे नृप
न सुखाय मम स्वर्गो न राज्यं नापि नाकिता । यथास्थितम् अविक्षुब्धं तिष्ठामि स्वस्थचेष्टिता
इदं सुखम् इदं नेति मनने क्षयम् आगते । समम् एव पदे शान्ते तिष्ठामीह यथासुखम्
युक्तम् उक्तं विशालाक्षि त्वयैतत् समया धिया । को वार्थः किल राज्यस्य ग्रहे त्यागे ऽपि वा भवेत्
सुखदुःखदशाचिन्तां त्यक्त्वा विगतमत्सरम् । यथासंस्थानम् एवेमौ तिष्ठावस् स्वस्थतां गतौ
इति तत्र कथालापकथनेन तयोर् द्वयोः । कान्तयोश् चिरदम्पत्योर् वासरस् तनुतां ययौ
अथोत्थाय दिनाचारं यथाप्राप्तम् अनिन्दितौ । सोत्कण्ठाव् अप्य् अनुत्कण्ठौ चक्रतुः कार्यकोविदौ । स्वर्गसिद्धिम् अनादृत्य तस्थतुः पूर्णचेतसौ
एकस्मिन्न् एव शयने तैस् तैः प्रणयचेष्टितैः । सा व्यतीयाय रजनी तयोर् जीवद्विमुक्तयोः
तद् भोगमोक्षसुखम् उत्तमयोस् तयोस् स्वम् आचेततोः प्रणयवाक्यविलासगर्भम् । उत्कण्ठितं प्रणयिनोर् घनतां नयन्ती दीर्घा मुहूर्तवद् असौ रजनी जगाम
ततस् समुदिते सूर्ये वितमस्य् अम्बरे स्थिते । समुद्गकाद् इव जगन्मणाव् अस्मिन् विनिर्गते
विकसत्य् अरुणोपान्ते चक्षुषीवाम्बुजाकरे । आचारेष्व् इव लोकेषु प्रसृतेष्व् अर्करश्मिषु
दम्पती तौ समुत्थाय कृतसन्ध्याक्रमौ स्थितौ । पत्त्रासने मृदुस्निग्धे कान्तौ काञ्चनकन्दरे
अथोत्थायात्र चूडाला रत्नकुम्भं करस्थितम् । .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ..
.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. । भार्या भर्तारम् एकान्ते स्वराज्ये ऽभिषिषेच सा
सङ्कल्पोपनते सैंहे स्वभिषिक्तं सुविष्टरे । स्थितं प्रोवाच तन्वी सा चूडाला देवरूपिणी
केवलं मौनम् उत्सृज्य तेजश् शान्तम् इदं प्रभो । अष्टानां लोकपालानां तेजांस्य् आहर्तुम् अर्हसि
चूडालयेति स प्रोक्तो वने राजा शिखिध्वजः । वदन्न् एवं करोमीति महाराजत्वम् आययौ
अथ प्रतीहारपदे तिष्ठन्तीम् आह मानिनीम् । महादेवीपदे राज्ञि त्वां करोम्य् अभिषेकिनीम्
इत्य् उक्त्वासन आस्थाप्य महादेवीपदे तदा । अभिषिक्तां नृपः कृत्वा मेघवाग् आह तां प्रियाम्
प्रिये कमलपत्त्राक्षि क्षणात् सङ्कल्पसम्भवम् । महाविभवम् उद्दामं सैन्यम् आहर्तुम् अर्हसि
इति कान्तवचश् श्रुत्वा चूडाला वरवर्णिनी । सैन्यं सङ्कल्पयाम् आस प्रावृड्घनम् इवोद्भटम्
सैन्यं ददृशतुस् तत् तौ वाजिवारणसङ्कुलम् । पताकापूरिताकाशनीरन्ध्रीकृतकाननम्
तूर्यारवध्वनच्छैलगुहं गहनकोटरम् । मत्तसामन्तवलितं विद्रवद्वनवारणम्