सुमनःपूर्णनीलाब्जमालासारविलोकने । यस्य त्वम् एव तज्ज्ञासि तद् एवाहम् उपस्थितः
निरीहो ऽस्मि निरंशो ऽस्मि नभस्स्वच्छो ऽस्मि निस्स्पृहः । शान्ताहमर्थरूपो ऽस्मि चिरायाहम् अहं स्थितः
तां दशाम् उपयातो ऽस्मि यतश् चण्पकवर्णिनि । प्रतिभान्ति महान्तो ऽपि शोच्या हरिजिनादयः
नकिञ्चिन्मात्रचिन्मात्रनिष्ठो ऽस्मि स्वस्थ आस्थितः । भ्रमेणालं विमुक्तो ऽस्मि संसारेणालिलोचने
न तुष्टो ऽस्मि न खिन्नो ऽस्मि नायम् अस्मि न चेतरत् । न स्थूलो ऽस्मि न सूक्ष्मो ऽस्मि सर्वम् अस्मि च सुन्दरि
तेजोबिम्बात् प्रयातेन भित्ताव् अपतितेन च । क्षयातिशयमुक्तेन प्रकाशेनास्मि वै समः
शान्तो ऽस्मि साम्यम् एवास्मि स्वच्छो ऽस्मि विगतामयः । परिनिर्वाण एवास्मि सद् अस्म्य् अतिसतीव्रते
यत् तद् अस्ति तद् एवास्मि वक्तुं शक्नोमि नेतरत् । तरङ्गतरलापाङ्गे गुरुस् त्वं मे नमो ऽस्तु ते
प्रसादेन विशालाक्ष्यास् तीर्णो ऽस्मि भवसागरात् । पुनर् मलं न गृह्णामि शतध्मातसुवर्णवत्
स्वस्थश् शान्तो मृदुर् दान्तो वीतरागो निरंशधीः । सर्वातीतस् सर्वगश् च खम् इवायम् अहं स्थितः
एवं स्थिते महासत्त्व प्राणेश हृदयप्रिय । किम् इदानीं प्रभो ब्रूहि रोचते ते महामते
प्रतिषेधं न जानामि न जानाम्य् अभिवाञ्छनम् । यद् आचरसि तन्वि त्वं कदाचिद् वेद्मि तन् न वा
मन्मनो नाशकलनां तथा स्थितिकलां प्रिये । न काञ्चिद् अनुसन्धातुं जानात्य् अम्बरसुव्रतम्
यद् एव किञ्चिज् जानासि तद् एव कुरु सुन्दरि । तद् एव धारयिष्यामि प्रतिबिम्बं यथा मणिः
चेतसा विगतेच्छेन यथाप्राप्तम् अनिन्दिते । न स्तौमि न च निन्दामि यद् इच्छसि तद् आचर
यद्य् एवं तन् महाभाग समाकर्णय मन्मतम् । आकर्ण्य जीवन्मुक्तात्मंस् तद् एवाहर्तुम् अर्हसि
सर्वत्रैक्यावबोधेन मौर्ख्यक्षयभुवाधुना । निरिच्छास् तावद् आकाशविशदास् संस्थिता वयम्
यादृग् एषणम् अस्माकम् तादृग् एतद् अनेषणम् । एषणानेषणे भेदश् चिन्मात्रोल्लसने हि कः
तस्माद् आद्यन्तमध्येषु ये वयं पुरुषोत्तम । मौर्ख्यम् एव परित्यज्य त एवेमे स्थिता इह
साम्प्रतं प्रकृतेनेमं कालं नीत्वा क्रमेण वै । विदेहतां प्रयास्यामः प्रभो कालेन केनचित्
वयम् आद्यन्तमध्येषु कीदृशास् तरले वद । मोहम् एकं परित्यज्य तिष्ठामः कथम् एव वा
वयम् आद्यन्तमध्येषु राजानो राजसत्तम । मोहम् एकं परित्यज्य तिष्ठामः पुनर् एव ते
स्व एव नगरे राजा भव त्वं स्वासने स्थितः । ललामभूता कान्तानां महिषी ते भवाम्य् अहम्
सनृपा मत्तवास्तव्या नृत्यन्नववराङ्गना । सपताका ध्वनत्तूर्या पुष्पप्रकरिणी पुरी
लसद्वल्ल्या समञ्जर्या रणत्षट्पदया समा । मधुमासवनावल्या चिराद् भवतु नः प्रभो
इति चूडालया प्रोक्ते विहस्य स शिखिध्वजः । प्रोवाच मधुरं वाक्यम् अक्षुब्धं विगतत्वरम्
एवं चेत् तद् विशालाक्षि स्वायत्ता नस् त्रिविष्टपे । सिद्धभोगभुवस् तासु निवसामो न किं प्रिये
न राजन् मम भोगेषु वाञ्छा न च विभूतिषु । स्वभावस्य वशाद् एव यथाप्राप्ते रमे नृप
न सुखाय मम स्वर्गो न राज्यं नापि नाकिता । यथास्थितम् अविक्षुब्धं तिष्ठामि स्वस्थचेष्टिता
इदं सुखम् इदं नेति मनने क्षयम् आगते । समम् एव पदे शान्ते तिष्ठामीह यथासुखम्