एवं दुरुत्तराद् अस्मात् संसारकुहराद् अहम् । उत्तारितो यया बुद्ध्या सा हि केनोपमीयते
अरुन्धती शची गौरी गायत्री श्रीस् सरस्वती । समस्ताः पेलवायन्ते तन्व्यास् सत्त्वगुणश्रिया
धीश्रीकान्तिक्षमामैत्रीकरुणाद्यासु सुन्दरि । कान्तास्व् आकारकान्तासु प्रथमैवासि लक्ष्यसे
परेणाध्यवसायेन त्वयाहम् अवबोधितः । केन प्रत्युपकारेण तुलाम् एष्यन्ति मे गुणाः
मोहाद् अनादिगहनाद् अनन्तविषमाद् अपि । पतिम् अध्यवसायिन्यस् तारयन्ति कुलस्त्रियः
शास्त्रार्थगुरुमन्त्रादि न तथोत्तारणक्षमम् । यथैतास् स्नेहशालिन्यो भर्तॄणां कुलयोषितः
सखा भ्राता सुहृद् भृत्यो गुरुर् मन्त्रो धनं सुखम् । शास्त्रम् आयतनं दास्यस् सर्वं भर्तुः कुलस्त्रियः
सर्वदा सर्वयत्नेन पूजनीयाः कुलाङ्गनाः । लोकद्वयसुखं सम्यक् सर्वं तासु प्रतिष्ठितम्
निरिच्छायाः प्रयातायाः पारं संसारवारिधेः । कथम् अस्योपकारस्य करिष्ये ते प्रतिक्रियाम्
मन्ये कुलाङ्गनालोको लोके सर्वस् त्वयाधुना । नारीसौजन्यचर्चासु व्यपदेश्यो भविष्यति
त्वां निर्मितवतो धातुर् गुणजालातिशायिनीम् । मन्ये प्रकुपिता नूनम् अरुन्धत्यादिकास् स्त्रियः
सतीत्वरूपसौजन्यगुणरत्नसमुद्गिके । एहि मे त्वद्गुणोत्कस्य पुनर् आलिङ्गनं कुरु
इत्य् उक्त्वा मृगशावाक्षीं चूडालां स शिखिध्वजः । आलिलिङ्ग पुनर् गाढं नकुलो नकुलीम् इव
देव शुष्कक्रियाजालपरे त्वय्य् आकुलात्मनि । तथाभूवं भृशम् अहं त्वदर्थं दुःखिता किल
तेन त्वदवबोधात्मा स्वार्थ एवोपपादितः । मया तद् अत्र किं देवः करोति मयि शंसनम्
त्वया यथा वरारोहे स्वार्थस् सम्पादितश् शुभः । तथेदानीं सतां सर्वास् साधयन्तु कुलस्त्रियः
बुद्ध्यंशैकान्तविश्रान्तजगज्जालक देव हे । अद्य तं प्राक्तनं कच्चिन् मोहं समनुपश्यसि
इदं करोमि नेदं तु प्राप्नोमीदम् इतस् त्व् इति । अन्तर् हससि तां कच्चिद् आशापेलवतां धियः
तास् तुच्छतृष्णाकलनास् तास् सङ्कल्पकुकल्पनाः । त्वयि नाद्यावलोक्यन्ते देव व्योम्नीव पर्वताः
कस् त्वम् अद्याङ्गसम्पन्नः किंनिष्ठो ऽसि किम् ईहसे । कथं पश्यसि पाश्चात्यं देहावस्थाक्रमं प्रभो
सुमनःपूर्णनीलाब्जमालासारविलोकने । यस्य त्वम् एव तज्ज्ञासि तद् एवाहम् उपस्थितः
निरीहो ऽस्मि निरंशो ऽस्मि नभस्स्वच्छो ऽस्मि निस्स्पृहः । शान्ताहमर्थरूपो ऽस्मि चिरायाहम् अहं स्थितः
तां दशाम् उपयातो ऽस्मि यतश् चण्पकवर्णिनि । प्रतिभान्ति महान्तो ऽपि शोच्या हरिजिनादयः
नकिञ्चिन्मात्रचिन्मात्रनिष्ठो ऽस्मि स्वस्थ आस्थितः । भ्रमेणालं विमुक्तो ऽस्मि संसारेणालिलोचने
न तुष्टो ऽस्मि न खिन्नो ऽस्मि नायम् अस्मि न चेतरत् । न स्थूलो ऽस्मि न सूक्ष्मो ऽस्मि सर्वम् अस्मि च सुन्दरि
तेजोबिम्बात् प्रयातेन भित्ताव् अपतितेन च । क्षयातिशयमुक्तेन प्रकाशेनास्मि वै समः
शान्तो ऽस्मि साम्यम् एवास्मि स्वच्छो ऽस्मि विगतामयः । परिनिर्वाण एवास्मि सद् अस्म्य् अतिसतीव्रते
यत् तद् अस्ति तद् एवास्मि वक्तुं शक्नोमि नेतरत् । तरङ्गतरलापाङ्गे गुरुस् त्वं मे नमो ऽस्तु ते
प्रसादेन विशालाक्ष्यास् तीर्णो ऽस्मि भवसागरात् । पुनर् मलं न गृह्णामि शतध्मातसुवर्णवत्
स्वस्थश् शान्तो मृदुर् दान्तो वीतरागो निरंशधीः । सर्वातीतस् सर्वगश् च खम् इवायम् अहं स्थितः