उत्पद्यते यो जगति स एव किल वर्धते । स एव मोक्षम् आप्नोति स्वर्गं वा नरकं च वा
अतस् ते स्ववबोधार्थं तत् तावत् कथयाम्य् अहम् । उत्पत्तिं संसृताव् एति पूर्वम् एव हि यो यथा
इदं प्रकरणार्थं त्वं सङ्क्षेपाच् छृणु राघव । ततः प्रकथयिष्यामि विस्तरं ते यथेप्सितम्
यद् इदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् । तत् सुषुप्त इव स्वप्नः कल्पान्ते प्रविनश्यति
ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् । अनाख्यम् अनभिव्यक्तं यत् किञ्चिद् अवशिष्यते
ऋतम् आत्मा परं ब्रह्म सत्यम् इत्यादिका बुधैः । कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः
स तथाभूत एवात्मा स्वयम् अन्य इवोल्लसन् । जीवताम् उपयातीव भाविनामकदर्थनाम्
ततस् स जीवशब्दार्थकलनाकुलतां गतः । मनो भवति मौनात्मा मननान् मन्थरीभवत्
मनस् सम्पद्यते तेन महतः परमात्मनः । सुस्थिराद् अस्थिराकारस् तरङ्ग इव वारिधेः
तत् स्वयं स्वैरम् एवाशु सङ्कल्पयति नित्यशः । तेनेयम् इन्द्रजालश्रीर् विततेव वितन्यते
यथा कटकशब्दार्थः पृथक्त्वार्हो ऽस्ति कानके । न नाम कटके तद्वज् जगच्छब्दार्थता परे
ब्रह्मण्य् एवास्त्य् अनन्यात्म यथास्थितम् इदं जगत् । न जगच्छब्दकार्थो ऽस्ति हेम्नीव कटकादिता
असतैवासती तापनद्येव लहरी चला । मनसैवेन्द्रजालश्रीर् जागती प्रवितन्यते
अविद्या संसृतिर् बन्धो माया मोहो महत् तमः । कल्पितानीति नामानि यस्यास् सकलवेदिभिः
बन्धस्य तावद् रूपं त्वं कथ्यमानम् इदं शृणु । ततस् स्वरूपं मोक्षस्य ज्ञास्यसीन्दुसमानन
द्रष्टुर् दृश्यत्वसत्ताङ्ग बन्ध इत्य् अभिधीयते । द्रष्टा दृश्यवशाद् बद्धो दृश्याभावाद् विमुच्यते
जगत् त्वम् अहम् इत्यादिसर्गात्मा दृश्यम् उच्यते । यावद् एतत् सम्भवति तावन् मोक्षो न विद्यते
नेदं नेदम् इति व्यर्थैः प्रलापैर् नोपशाम्यति । सङ्कल्पजनकैर् दृश्यव्याधिः प्रत्युत वर्धते
न च तर्कभरक्षोदैर् न तीर्थनियमादिभिः । सतो दृश्यस्य जगतो यस्माद् एते विचारकाः
जगद् दृश्यं तु यद्य् अस्ति न शाम्यत्य् एव तत् क्वचित् । नासतो विद्यते भावो नाभावो विद्यते सतः
अचेत्यचित्स्वरूपात्मा यत्र यत्रैष तिष्ठति । तत्र तत्रास्य दृश्यश्रीस् समुदेत्य् अप्य् अणूदरे
तस्माद् अस्ति जगद् दृश्यं तत् प्रमृष्टम् इदं मया । त्यक्तं तपोध्यानजपैर् इति काञ्चिकतृप्तिवत्
यदि नाम जगद् दृश्यम् अस्ति तत् प्रतिबिम्बति । परमाणूदरे ऽप्य् अस्मिंश् चिदादर्शे न संशयः
यत्र तत्र स्थितं राम यथादर्शे प्रबिम्बति । अद्रिद्यूर्वीनदीशादि चिदादर्शे तथैव हि
ततस् तत्र पुनर् दुःखं जरा मरणजन्मनी । भावाभावग्रहोत्सर्गास् स्थूलसूक्ष्मचलाचलाः
इदं प्रमार्जितं दृश्यं मया नात्राहम् आस्थितः । एतद् एवाक्षयं बीजं समाधौ संसृतिस्मृतेः
सति त्व् अस्मिञ् जगद्दृश्ये निर्विकल्पसमाधिना । न चाक्षयसुषुप्तत्वं तुर्यं वाप्य् उपपद्यते
व्युत्थाने हि समाधीनां सुषुप्तान्त इवाखिलम् । जगद्दुःखम् इदं भाति यथास्थितम् अखण्डितम्
प्राप्तं भवति हे राम तत् किं नाम समाधिभिः । भूयो ऽनर्थनिपाते हि क्षणसाम्ये ऽपि किं सुखम्
यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् । तद् अक्षयसुषुप्ताभं तन् मन्ये नामलं पदम्