अथ तां दयितां दृष्ट्वा विस्मयोत्फुल्ललोचनः । शिखिध्वज उवाचेदम् आश्चर्याकुलया गिरा
का त्वम् उत्पलपत्त्राक्षि कुतः प्राप्तासि सुन्दरि । किमीहासि कियत्कालं किमर्थम् इह तिष्ठसि
अङ्गेन व्यवहारेण स्मितेनानुनयेन च । मम जाया विलासेन चूडालेवोपलक्ष्यसे
एवम् एव प्रभो विद्धि चूडालास्मि न संशयः । अकृत्रिमेन देहेन लब्धो ऽस्य् अद्य मया स्वयम्
कुम्भादिदेहनिर्माणस् त्वां बोधयितुम् एष मे । प्रपञ्चश् शतशाखत्वम् इह यातो वनान्तरे
यदा राज्यं परित्यज्य मोहेन तपसे वनम् । त्वम् अगास् तत्प्रभृत्य् एव त्वद्बोधायाहम् उद्यता
अनेन कुम्भदेहेन मयैवं त्वं विबोधितः । मायया न तु कुम्भादि किञ्चित् सत्यं महीपते
बुद्धो विदितवेद्यस् त्वं ध्यानेनैतद् अखण्डितम् । सर्वं पश्यसि तत्त्वज्ञ ध्यानेनाश्व् अवलोकय
अथ चूडालयेत्य् उक्ते बद्ध्वा परिकरं नृपः । आत्मोदन्तम् अशेषेण ध्यानेनालम् अवैक्षत
आ स्वराज्यपरित्यागाच् चूडालादर्शनावधिम् । सर्वं मुहूर्तध्यानेन स्वात्मोदन्तं ददर्श सः
आ राज्यसम्परित्यागाद् वर्तमानक्षणक्रमम् । सर्वम् आलोक्य भूपालो विरराम समाधितः
समाधिविरतो हर्षविकासिनयनाम्बुजः । विसार्य तरसा बाहू पुलकोज्ज्वलतां गतः
गलदङ्गं लसत्स्नेहम् उद्यद्बाष्पं स्फुरत्स्पृहम् । आलिलिङ्ग चिरं कान्तां नकुलो नकुलीम् इव
तयोर् आलिङ्गने तस्मिंस् तत्र भावो बभूव यः । न स वासुकिजिह्वाभिर् वक्तुं वर्षैर् हि शक्यते
चित्रस्थाव् इव पङ्केन कृताव् इव गलत्तनू । शैलाद् इव समुत्कीर्णौ श्लिष्टाव् आस्तां चिरं प्रियौ
मुहूर्तेन गलद्घर्मजालौ पुलकपीवरौ । बाहू विश्लथताम् ईषन् निन्यतुस् तौ शनैः प्रियौ
अमृतापूर्णहृदयं संशून्यहृदयोपमम् । उन्मुक्तभुजम् आस्तां ताव् अलक्ष्यस्थितलोचनम्
घनानन्दः क्षणं स्थित्वा तूष्णीं प्रणयपेशलम् । कान्ताचिबुकसंलग्नकरः प्रोवाच भूपतिः
अहो नु मधुरस् स्निग्धः कान्तश् च कुलयोषिताम् । पुण्यश् चरितनिष्ष्यन्दस् स्वादवान् अमृताद् अपि
कियत्प्रमाणं तन्वङ्गि त्वया बालेन्दुमुग्धया । अनुभूतश् चिरं क्लेशो भर्तुर् अर्थेन दारुणः
एवं दुरुत्तराद् अस्मात् संसारकुहराद् अहम् । उत्तारितो यया बुद्ध्या सा हि केनोपमीयते
अरुन्धती शची गौरी गायत्री श्रीस् सरस्वती । समस्ताः पेलवायन्ते तन्व्यास् सत्त्वगुणश्रिया
धीश्रीकान्तिक्षमामैत्रीकरुणाद्यासु सुन्दरि । कान्तास्व् आकारकान्तासु प्रथमैवासि लक्ष्यसे
परेणाध्यवसायेन त्वयाहम् अवबोधितः । केन प्रत्युपकारेण तुलाम् एष्यन्ति मे गुणाः
मोहाद् अनादिगहनाद् अनन्तविषमाद् अपि । पतिम् अध्यवसायिन्यस् तारयन्ति कुलस्त्रियः
शास्त्रार्थगुरुमन्त्रादि न तथोत्तारणक्षमम् । यथैतास् स्नेहशालिन्यो भर्तॄणां कुलयोषितः
सखा भ्राता सुहृद् भृत्यो गुरुर् मन्त्रो धनं सुखम् । शास्त्रम् आयतनं दास्यस् सर्वं भर्तुः कुलस्त्रियः
सर्वदा सर्वयत्नेन पूजनीयाः कुलाङ्गनाः । लोकद्वयसुखं सम्यक् सर्वं तासु प्रतिष्ठितम्
निरिच्छायाः प्रयातायाः पारं संसारवारिधेः । कथम् अस्योपकारस्य करिष्ये ते प्रतिक्रियाम्
मन्ये कुलाङ्गनालोको लोके सर्वस् त्वयाधुना । नारीसौजन्यचर्चासु व्यपदेश्यो भविष्यति