हेमाभे द्विगुणाकारे बालाबाहूपधानके । मग्नैकश्रवणापाङ्गकपोलतलकुन्तलम्
मिथुनं तद् ददर्शाथ मिथः प्रहसिताननम् । अन्योऽन्यवदनासक्तं छन्नं कल्पलतांशुकैः
आलोलमाल्यशयनं मदनातुरम् आकुलम् । अङ्गरागच्छलेनात्मरागम् अन्योऽन्यम् अर्पयत्
रत्युन्मुखं घनानन्दम् उद्दाममदमन्मथम् । परस्पराहतं पुष्पैर् वक्षोभ्यां पीडितस्तनम्
तद् आलोक्याविकारेण चेतसा स तुतोष च । अहो सुखं स्थितौ शिड्गाव् इत्य् आह स शिखिध्वजः
तिष्ठथो ऽङ्ग यथाकामं सुखं शिड्गौ यथास्थितम् । विघ्नं मा कुरुथः प्रीताव् इत्य् उक्त्वा निर्जगाम सः
ततो मुहूर्तमात्रेण प्रपञ्चं स्वम् उपेक्ष्य सा । निर्ययौ दर्शयन्ती स्वं रतियुद्धाकुलं वपुः
उपविष्टं ददर्शैनं नृपं हेमशिलातले । समाधिसंस्थम् एकान्ते मनाग्विकसितेक्षणम्
तं प्रदेशम् उपागत्य लज्जावनमितानना । तूष्णीम् आसित् क्षणं खिन्ना म्लाना मदनिकाङ्गना
क्षणाच् छिखिध्वजो ध्यानाद् विरतस् ताम् उवाच ह । प्रसन्नमधुरं वाक्यम् इदम् अक्षुब्धया धिया
तन्वि किं शीघ्रम् एव त्वं विघ्नितानन्दम् आगता । आनन्दायैव भूतानि यतन्ते यानि कानिचित्
भूयस् तोषय तं गच्छ कान्तं प्रणयवृत्तिभिः । परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये
अहम् एतेन चार्थेन नोद्वेगं यामि मानिनि । यद् यद् इष्टतमं लोके तद् तद् देयं विजानता
अहं कुम्भश् च तन्वङ्गि वीतरागाव् इह स्थितौ । दुर्वासश्शापजा बाला त्वं यद् इच्छसि तत् कुरु
एवम् एष महाभाग स्त्रीपुम्भावो हि चञ्चलः । कामो ह्य् अष्टगुणस् स्त्रीणां न कोपं कर्तुम् अर्हसि
अबलाहम् अनेनास्मि क्रान्ता गहनकानने । त्वयि सन्ध्याजपपरे किं करोमि वराकिका
अबला वाक्यमात्रेण तावन् नरनिरोधनम् । करोति यावच् छिड्गेन नाङ्गे स्वे विनिवेशिता
स्त्रियास् सुन्दर यातायाः परपुंसाङ्गसङ्गमम् । मन्युर् निषेध आक्रन्दस् सतीत्वं किं करिष्यति
अबला स्त्री तथा बाला मूढाहम् अपराधिनी । क्षन्तुम् अर्हसि मां नाथ क्षमावन्तो हि साधवः
मन्युर् मम न बाले ऽन्तर् विद्यते ख इव द्रुमः । केवलं साधुनिन्द्यत्वान् नेच्छामि त्वाम् अहम् वधूम्
सुहृत्त्वेन वनान्तेषु पूर्ववत् समम् अङ्गने । वीतरागतया नित्यं तपसैव रमावहे
एवं समतया तत्र स्थिते तस्मिञ् शिखिध्वजे । चूडाला चिन्तयाम् आस तत्सत्येनोदिताशया
अहो बत परं साम्यं भगवान् अयम् आगतः । वीतरागभयक्रोधो जीवन्मुक्तो ऽवतिष्ठति
नैनं हरन्ति भोगाशा न महत्यो ऽपि सिद्धयः । न सुखानि न दुःखानि नापदो न च सम्पदः
चिन्तितास् सकला एव प्रयान्त्य् एनम् अनिन्दिताः । मन्ये महर्द्धयः कान्ता नारायणम् इवापरम्
आत्मवृत्तान्तम् अखिलं तद् एनं स्मारयाम्य् अहम् । कुम्भरूपम् इदं त्यक्त्वा चूडालैव भवाम्य् अहम्
इति सञ्चिन्त्य चूडाला चूडालावपुर् अक्षतम् । दर्शयाम् आस तत्राशु त्यक्त्वा मदनिकावपुः
तस्मान् मदनिकादेहाच् चूडाला निर्गतेव सा । बभाव् इन्द्वमला मुक्ता निर्गतेव समुद्गकात्
तां ददर्शानवद्याङ्गीं पुरः प्रणयपेशलाम् । कान्तो मदनिकाम् एव चूडालां दयितां स्थिताम्
समुदिताम् इव माधवपद्मिनीम् उपगताम् इव भूमितलाच् छ्रियम् । प्रकटिताम् इव रत्नसमुद्गकात् परिददर्श निजां दयितां नृपः