तद् देववृन्दम् अखिलं त्रिदशेशयुक्तं तत्र क्षणाद् अलम् अदृश्यम् अभूद् विलीनम् । कल्लोलजालम् इव वारिनिधौ प्रशान्तवाते स्फुरन्मकरफेनफणीन्द्रशब्दम्
तां मायां शमम् आनीय चूडाला समचिन्तयत् । दिष्ट्या भोगेच्छया नायं ह्रियते वसुधाधिपः
शान्तस् समसमाभोग एव शक्रसमागमे । असम्भ्रमम् अहेलं च कृतवान् व्यवहारिताम्
भूय एव प्रपञ्चेन विमृशाम्य् एनम् आदरात् । रागद्वेषप्रधानेन केनचिद् बुद्धिहारिणा
इति सञ्चिन्त्य सा रात्राव् इन्दाव् अभ्युदिते वने । गृहीतमण्डना नूनं कान्ता मदनिका सती
वाते वहति पुष्पाढ्ये मदिरामोदमांसले । सन्ध्याजप्यपरे नद्यास् तीरसंस्थे शिखिध्वजे
सन्तानकलतागेहं नीरन्ध्रं पुष्पगुच्छकैः । शुद्धान्तं वनदेवीनां प्रविवेश मदान्विता
तत्र सङ्कल्पिते पुष्पशयने माल्यमालिता । कण्ठे सङ्कल्पितं कान्तं शिड्गम् आदाय संस्थिता
आगत्यान्विष्य कुञ्जान् स प्रददर्श शिखिध्वजः । लतागेहे मदनिकाकण्ठे शिड्गं मनोहरम्
कुन्तलावलितस्कन्धं समालब्धं च चन्दनैः । शयनावृत्तिविक्षेपपर्याकुलितशेखरम्
हेमाभे द्विगुणाकारे बालाबाहूपधानके । मग्नैकश्रवणापाङ्गकपोलतलकुन्तलम्
मिथुनं तद् ददर्शाथ मिथः प्रहसिताननम् । अन्योऽन्यवदनासक्तं छन्नं कल्पलतांशुकैः
आलोलमाल्यशयनं मदनातुरम् आकुलम् । अङ्गरागच्छलेनात्मरागम् अन्योऽन्यम् अर्पयत्
रत्युन्मुखं घनानन्दम् उद्दाममदमन्मथम् । परस्पराहतं पुष्पैर् वक्षोभ्यां पीडितस्तनम्
तद् आलोक्याविकारेण चेतसा स तुतोष च । अहो सुखं स्थितौ शिड्गाव् इत्य् आह स शिखिध्वजः
तिष्ठथो ऽङ्ग यथाकामं सुखं शिड्गौ यथास्थितम् । विघ्नं मा कुरुथः प्रीताव् इत्य् उक्त्वा निर्जगाम सः
ततो मुहूर्तमात्रेण प्रपञ्चं स्वम् उपेक्ष्य सा । निर्ययौ दर्शयन्ती स्वं रतियुद्धाकुलं वपुः
उपविष्टं ददर्शैनं नृपं हेमशिलातले । समाधिसंस्थम् एकान्ते मनाग्विकसितेक्षणम्
तं प्रदेशम् उपागत्य लज्जावनमितानना । तूष्णीम् आसित् क्षणं खिन्ना म्लाना मदनिकाङ्गना
क्षणाच् छिखिध्वजो ध्यानाद् विरतस् ताम् उवाच ह । प्रसन्नमधुरं वाक्यम् इदम् अक्षुब्धया धिया
तन्वि किं शीघ्रम् एव त्वं विघ्नितानन्दम् आगता । आनन्दायैव भूतानि यतन्ते यानि कानिचित्
भूयस् तोषय तं गच्छ कान्तं प्रणयवृत्तिभिः । परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये
अहम् एतेन चार्थेन नोद्वेगं यामि मानिनि । यद् यद् इष्टतमं लोके तद् तद् देयं विजानता
अहं कुम्भश् च तन्वङ्गि वीतरागाव् इह स्थितौ । दुर्वासश्शापजा बाला त्वं यद् इच्छसि तत् कुरु
एवम् एष महाभाग स्त्रीपुम्भावो हि चञ्चलः । कामो ह्य् अष्टगुणस् स्त्रीणां न कोपं कर्तुम् अर्हसि
अबलाहम् अनेनास्मि क्रान्ता गहनकानने । त्वयि सन्ध्याजपपरे किं करोमि वराकिका
अबला वाक्यमात्रेण तावन् नरनिरोधनम् । करोति यावच् छिड्गेन नाङ्गे स्वे विनिवेशिता
स्त्रियास् सुन्दर यातायाः परपुंसाङ्गसङ्गमम् । मन्युर् निषेध आक्रन्दस् सतीत्वं किं करिष्यति
अबला स्त्री तथा बाला मूढाहम् अपराधिनी । क्षन्तुम् अर्हसि मां नाथ क्षमावन्तो हि साधवः
मन्युर् मम न बाले ऽन्तर् विद्यते ख इव द्रुमः । केवलं साधुनिन्द्यत्वान् नेच्छामि त्वाम् अहम् वधूम्