पादुकागुलिकाखड्गरसादीदम् अथापि च । गृहीत्वा सिद्धमार्गेण स्वीकुरु स्वर्गमण्डलम्
आकल्पं वैबुधा भोगास् त्वया विबुधसद्मनि । जीवन्मुक्तेन भोक्तव्यास् तेन त्वाम् अहम् आगतः
विमानयन्ति सम्प्राप्तां न तिरस्करणैश् श्रियम् । नाभिवाञ्छन्ति चाप्राप्तां त्वादृशास् साधुसाधवः
अविघ्नम् आगतेनाद्य सुखं विहरता त्वया । स्वर्गः पवित्रतां यातु हरिणेव जगत्त्रयम्
स्वर्गं स्वर्गसमाचारं वेद्मि देवादिनायक । किं तु सर्वत्र मे स्वर्गो नियतो न तु कुत्रचित्
सर्वत्रैव हि तुष्यामि सर्वत्रैव रमे प्रभो । अवाञ्छनत्वान् मनसस् सर्वत्रानन्दवान् अहम्
नियतं किञ्चिद् एकत्र स्थितं स्वर्गकम् ईदृशम् । शक्र गन्तुं न जानामि नाज्ञातं च करोम्य् अहम्
साधो विदितवेद्यानां परिपूर्णधियां सताम् । सज्जनाचरितं युक्तं मन्ये भोगोपसेवनम्
देवेशे प्रोक्तवत्य् एवं तूष्णीम् एव स्थिते नृपे । किम् एवं नोपयाम्य् एव त्वाम् इति प्रोक्तवान् हरिः
बाढम् इत्य् एव कालेन वदतीषच् छिखिध्वजे । कल्याणं ते ऽस्तु कुम्भेति वदन्न् अन्तर्धिम् आययौ
तद् देववृन्दम् अखिलं त्रिदशेशयुक्तं तत्र क्षणाद् अलम् अदृश्यम् अभूद् विलीनम् । कल्लोलजालम् इव वारिनिधौ प्रशान्तवाते स्फुरन्मकरफेनफणीन्द्रशब्दम्
तां मायां शमम् आनीय चूडाला समचिन्तयत् । दिष्ट्या भोगेच्छया नायं ह्रियते वसुधाधिपः
शान्तस् समसमाभोग एव शक्रसमागमे । असम्भ्रमम् अहेलं च कृतवान् व्यवहारिताम्
भूय एव प्रपञ्चेन विमृशाम्य् एनम् आदरात् । रागद्वेषप्रधानेन केनचिद् बुद्धिहारिणा
इति सञ्चिन्त्य सा रात्राव् इन्दाव् अभ्युदिते वने । गृहीतमण्डना नूनं कान्ता मदनिका सती
वाते वहति पुष्पाढ्ये मदिरामोदमांसले । सन्ध्याजप्यपरे नद्यास् तीरसंस्थे शिखिध्वजे
सन्तानकलतागेहं नीरन्ध्रं पुष्पगुच्छकैः । शुद्धान्तं वनदेवीनां प्रविवेश मदान्विता
तत्र सङ्कल्पिते पुष्पशयने माल्यमालिता । कण्ठे सङ्कल्पितं कान्तं शिड्गम् आदाय संस्थिता
आगत्यान्विष्य कुञ्जान् स प्रददर्श शिखिध्वजः । लतागेहे मदनिकाकण्ठे शिड्गं मनोहरम्
कुन्तलावलितस्कन्धं समालब्धं च चन्दनैः । शयनावृत्तिविक्षेपपर्याकुलितशेखरम्
हेमाभे द्विगुणाकारे बालाबाहूपधानके । मग्नैकश्रवणापाङ्गकपोलतलकुन्तलम्
मिथुनं तद् ददर्शाथ मिथः प्रहसिताननम् । अन्योऽन्यवदनासक्तं छन्नं कल्पलतांशुकैः
आलोलमाल्यशयनं मदनातुरम् आकुलम् । अङ्गरागच्छलेनात्मरागम् अन्योऽन्यम् अर्पयत्
रत्युन्मुखं घनानन्दम् उद्दाममदमन्मथम् । परस्पराहतं पुष्पैर् वक्षोभ्यां पीडितस्तनम्
तद् आलोक्याविकारेण चेतसा स तुतोष च । अहो सुखं स्थितौ शिड्गाव् इत्य् आह स शिखिध्वजः
तिष्ठथो ऽङ्ग यथाकामं सुखं शिड्गौ यथास्थितम् । विघ्नं मा कुरुथः प्रीताव् इत्य् उक्त्वा निर्जगाम सः
ततो मुहूर्तमात्रेण प्रपञ्चं स्वम् उपेक्ष्य सा । निर्ययौ दर्शयन्ती स्वं रतियुद्धाकुलं वपुः
उपविष्टं ददर्शैनं नृपं हेमशिलातले । समाधिसंस्थम् एकान्ते मनाग्विकसितेक्षणम्
तं प्रदेशम् उपागत्य लज्जावनमितानना । तूष्णीम् आसित् क्षणं खिन्ना म्लाना मदनिकाङ्गना
क्षणाच् छिखिध्वजो ध्यानाद् विरतस् ताम् उवाच ह । प्रसन्नमधुरं वाक्यम् इदम् अक्षुब्धया धिया