तैस् तैस् तत्र कथालापैर् इन्दाव् अभ्युदिते तथा । ताव् आसां चक्रतुः कान्तौ दम्पती तु मुहूर्तकम्
अथोत्थाय ज्वलद्रत्नदीपां काञ्चनकन्दराम् । स्वयं पूर्वोपरचितां गुप्तां विविशतुः प्रियौ
नवं ददृशतुस् तत्र तल्पं कुसुमकल्पितम् । परितो व्याप्तम् उत्फुल्लैर् हेमपङ्कजराशिभिः
मन्दारादिभिर् अन्यैश् च पुष्पैर् म्लानिविवर्जितैः । उच्चकैः पुंप्रमाणेन निर्मितं कुसुमैस् समैः
दीर्घेन्दुबिम्बप्रतिमं तुषारस्थलशीतलम् । क्षीरोदजलधाराभं ज्योत्स्नासम्पिण्डपाण्डुरम्
प्रतिबिम्बम् अनन्तस्य रत्नभित्ताव् इव स्थितम् । सुगन्धम् उन्नतं कान्तं विशरारुतयोज्झितम्
मिथुनं पुष्पराशौ तत् पपात धवलामले । तस्मिन् समसमाभोगे क्षीरोदे मन्दरो यथा
तैस् तैस् ततः प्रणतिपेशलवाग्विलासैस् तत्कालकार्यसुभगैः प्रणयोपचारैः । सत्कान्तयोर् नवनवेन तयोस् सुखेन दीर्घा मुहूर्त इव सा रजनी जगाम
अथ सूर्यांशुरङ्गेण रञ्जिते भुवनोदरे । शिखिध्वजाङ्गना भूयो मदनी कुम्भतां ययौ
एवं महेन्द्रदर्यां ताव् उभौ कुम्भशिखिध्वजौ । स्वयं विवाहिताव् इष्टौ सम्पन्नौ नवदम्पती
विलेसतुर् विचित्रासु प्रत्यहं वनराजिषु । प्रपक्वफलभारासु पुष्पपल्लविनीषु च
दिवा प्रियतरे मित्रे यामिन्याम् इष्टदम्पती । प्रभादीपाव् इव श्लिष्टौ न वियुक्तौ बभूवतुः
रेमाते वनकुञ्जेषु गुहासु च महीभृताम् । तमालसालषण्डेषु मन्दारगहनेषु च
सह्यदर्दुरकैलासमहेन्द्रमलयेषु च । गन्धमादनविन्ध्याद्रिलोकालोकतटेषु च
दिनैस् त्रिभिस् त्रिभिर् गत्वा निद्रां गतवति प्रिये । चूडाला राजकार्याणि कृत्वा स्वान्य् आययौ पुनः
तौ दिवा सुहृदौ रात्रौ दम्पती कुम्भभूमिपौ । नानाकुसुमसंवीतौ तस्थतुर् मुदितौ मिथः
मासम् एकं महेन्द्राद्रिसानौ सरलसङ्कुले । रत्नकुड्ये गुहागेहे पूजितौ सुरकिन्नरैः
हस्तलभ्योदितेन्दौ च मन्दारवनमालिते । एवं शुक्तिमतः पृष्ठे पक्षं पक्षं लतागृहे
मासद्वयम् ऋक्षवतो गिरेर् दक्षिणतस् तटे । पारिजातवने देवपुष्पस्तबकमण्डपे
जम्बूषण्डतले मेरोः पादे जम्बूनदीतटे । जाम्बूनदमये मासं जम्बूफलरसावनौ
दशोत्तरकुरूणां च मण्डले दिवसानि तौ । कैलासस्योत्तरस्थेषु सप्तविंशतिवासरान्
एवम् अन्येषु देशेषु विचित्रेषु महीभृताम् । स्थितवन्तौ महाभागौ सुहृदौ स्निग्धदम्पती
ततो यातेषु मासेषु शनैः कतिपयेषु सा । चूडाला चिन्तयाम् आस देवपुत्रकरूपिणी
सुरोपभोगभारेण परीक्षे ऽहं शिखिध्वजम् । मा कदाचन चेतो ऽस्य भोगेषु रतिम् एष्यति
इति सञ्चिन्त्य चूडाला मायया स्वामिनो वने । आगतं दर्शयाम् आस ससुराप्सरसं हरिम्
इन्द्रम् अभ्यागतं दृष्ट्वा परिवारसमन्वितम् । यथावत् पूजयाम् आस वनसंस्थश् शिखिध्वजः
आत्मनः किं कृता दूराद् अभ्यागमकदर्थना । देवराज प्रसादान् मे यथावद् वक्तुम् अर्हसि
इमे वयम् इहानीतास् त्वद्गुणातिशयेन खात् । हृदि लग्नेन सूत्रेण खगा दूरगता इव
उत्तिष्ठ स्वर्गम् आगच्छ तत्र सर्वे त्वदुन्मुखाः । त्वद्गुणश्रवणाश्चर्यास् स्थिता देवगणाङ्गनाः
इमे रथा इदं यानम् अयम् उच्चैश्श्रवा हयः । अयम् ऐरावणो नागो यथाभिमतम् आश्रय