चतुर्दिक्कं चतुर्भिश् च नारिकेलमहाफलैः । पूर्णकुम्भतया गाङ्गवारिपूरैः प्रकल्पितैः
ज्वलयाम् आसतुस् तस्यां मध्ये चन्दनदारुभिः । ज्वलनं ज्वलितज्वालं दक्षिणस्थप्रदक्षिणम्
पूर्वाभिमुखम् अग्नेस् ताव् अग्रे पल्लवविष्टरे । नियोज्य दम्पती कान्तौ तयोर् विविशतुस् स्वयम्
स हुत्वा तिललाजादि पावकाय शिखिध्वजः । उत्थायोत्थाप्य कान्तां च पाणिभ्यां स्वयम् आददे
अन्योऽन्यं शोभमानौ ताव् अन्याव् इव नवौ शिवौ । चक्रतुर् दम्पती तस्य पावकस्य प्रदक्षिणम्
स्वदायं ज्ञानसर्वस्वं हृदयं प्रेम चाचलम् । ददतुस् तौ मिथो मान्यौ स्मितकान्तमुखश्रियौ
प्रदक्षिणत्रयं कृत्वा लाजान् सन्त्यज्य वह्नये । मद्भार्याम् अम्बराद् दृष्ट्वा करौ तत्यजतुः क्रमात्
स्मयमानमुखौ कान्तौ चन्द्राव् इव नवोदितौ । पूर्वोपरचिते पुष्पतल्पे विविशतुर् नवे
एतस्मिन्न् अन्तरे चन्द्रश् चतुर्भागं नभस्तलात् । शनैर् आक्रमयाम् आस शोभां द्रष्टुम् इवैतयोः
तस्मिन् सानौ लताच्छिद्रैर् द्रष्टुं दृष्टीर् इवाभितः । लोलैस् सञ्चारयाम् आस करान् इन्दुर् वराङ्गने
तैस् तैस् तत्र कथालापैर् इन्दाव् अभ्युदिते तथा । ताव् आसां चक्रतुः कान्तौ दम्पती तु मुहूर्तकम्
अथोत्थाय ज्वलद्रत्नदीपां काञ्चनकन्दराम् । स्वयं पूर्वोपरचितां गुप्तां विविशतुः प्रियौ
नवं ददृशतुस् तत्र तल्पं कुसुमकल्पितम् । परितो व्याप्तम् उत्फुल्लैर् हेमपङ्कजराशिभिः
मन्दारादिभिर् अन्यैश् च पुष्पैर् म्लानिविवर्जितैः । उच्चकैः पुंप्रमाणेन निर्मितं कुसुमैस् समैः
दीर्घेन्दुबिम्बप्रतिमं तुषारस्थलशीतलम् । क्षीरोदजलधाराभं ज्योत्स्नासम्पिण्डपाण्डुरम्
प्रतिबिम्बम् अनन्तस्य रत्नभित्ताव् इव स्थितम् । सुगन्धम् उन्नतं कान्तं विशरारुतयोज्झितम्
मिथुनं पुष्पराशौ तत् पपात धवलामले । तस्मिन् समसमाभोगे क्षीरोदे मन्दरो यथा
तैस् तैस् ततः प्रणतिपेशलवाग्विलासैस् तत्कालकार्यसुभगैः प्रणयोपचारैः । सत्कान्तयोर् नवनवेन तयोस् सुखेन दीर्घा मुहूर्त इव सा रजनी जगाम
अथ सूर्यांशुरङ्गेण रञ्जिते भुवनोदरे । शिखिध्वजाङ्गना भूयो मदनी कुम्भतां ययौ
एवं महेन्द्रदर्यां ताव् उभौ कुम्भशिखिध्वजौ । स्वयं विवाहिताव् इष्टौ सम्पन्नौ नवदम्पती
विलेसतुर् विचित्रासु प्रत्यहं वनराजिषु । प्रपक्वफलभारासु पुष्पपल्लविनीषु च
दिवा प्रियतरे मित्रे यामिन्याम् इष्टदम्पती । प्रभादीपाव् इव श्लिष्टौ न वियुक्तौ बभूवतुः
रेमाते वनकुञ्जेषु गुहासु च महीभृताम् । तमालसालषण्डेषु मन्दारगहनेषु च
सह्यदर्दुरकैलासमहेन्द्रमलयेषु च । गन्धमादनविन्ध्याद्रिलोकालोकतटेषु च
दिनैस् त्रिभिस् त्रिभिर् गत्वा निद्रां गतवति प्रिये । चूडाला राजकार्याणि कृत्वा स्वान्य् आययौ पुनः
तौ दिवा सुहृदौ रात्रौ दम्पती कुम्भभूमिपौ । नानाकुसुमसंवीतौ तस्थतुर् मुदितौ मिथः
मासम् एकं महेन्द्राद्रिसानौ सरलसङ्कुले । रत्नकुड्ये गुहागेहे पूजितौ सुरकिन्नरैः
हस्तलभ्योदितेन्दौ च मन्दारवनमालिते । एवं शुक्तिमतः पृष्ठे पक्षं पक्षं लतागृहे
मासद्वयम् ऋक्षवतो गिरेर् दक्षिणतस् तटे । पारिजातवने देवपुष्पस्तबकमण्डपे
जम्बूषण्डतले मेरोः पादे जम्बूनदीतटे । जाम्बूनदमये मासं जम्बूफलरसावनौ