मिथुनैकसखी यामा कुमुदोत्करहासिनी । प्रालेयजालप्रकरं विकिरन्ती समाययौ
रत्नदीपान् बहून् सम्यक् कुम्भस् सानाव् अयोजयत् । ज्योतींषीन्द्वर्कयुक्तानि पद्मोद्भव इवाम्बरात्
भूषयाम् आस राजानं स्त्रीत्वं गच्छन् निशामुखे । चन्दनागुरुकर्पूरपूरैर् मृगजकुङ्कुमैः
हारकेयूरकटकैस् तथा कल्पलतांशुकैः । स्रग्दामैर् अवतंसैश् च माल्यैश् च विविधोम्भितैः
तथा कल्पलतागुच्छैर् मन्दारैः पारिजातकैः । सन्तानैर् बहुरत्नैश् च मौलिना चेन्दुरूपिणा
एतावताथ कालेन वधूत्वं कुम्भ आययौ । घनस्तनतटाक्रान्तो बभूवाशु विलासवान्
इदं सञ्चिन्तयाम् आस सम्पन्नो ऽयम् अहं वधूः । कामायात्मा मयादेयः कार्यं कालोचितं किल
इयम् अस्मि वधूः कान्ता भर्तायं मे पुरस् स्थितः । गृहाण काम माम् एहि कालो ऽयं तव हृच्छय
इति सञ्चिन्त्य भर्तारम् अग्रस्थम् अभिमण्डितम् । उदयन्तम् इवादित्यं रतिः कामम् इवाह सा
अहं मदनिका नाम भार्यास्मि तव मानद । पतये ते प्रणामो ऽयं सस्नेहं क्रियते मया
इत्य् उक्त्वा सानवद्याङ्गी लज्जावनमितानना । लोलालकेन शिरसा प्रणनाम नयात् पतिम्
उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः । क्रमेणाग्निं च सञ्ज्वाल्य मत्पाणिग्रहणं कुरु
राजसे ऽतितरां नाथ मां करोषि स्मरातुराम् । रतेर् विवाहे मदनम् अभिभूयाधितिष्ठसि
इन्दोर् इवांशुजालानि राजन् माल्यानि भान्ति ते । मेरुगङ्गाप्रवाहाभां धत्ते हारस् तवोरसि
मन्दारकुसुमप्रोतैः कुन्तलैर् नृप राजसे । कनकाब्जम् इवालोलैर् भृङ्गैः केसरधूसरैः
रत्नांशुजालैः कुसुमैश् श्रिया स्थैर्येण तेजसा । उन्नत्या च विभो मेरुम् अभिभूयावतिष्ठसे
एवमादि वदन्तौ तौ भविष्यन्नवदम्पती । प्रच्छन्नपूर्वदाम्पत्यौ मिथस् तुष्टौ बभूवतुः
महाराज्ञीं मदनिकां महाराजश् शिखिध्वजः । काञ्चनामलपर्यङ्के नियोज्याभूषयत् स्वयम्
अवतंसैस् तथा माल्यैर् मणिमुक्ताविभूषणैः । वस्त्रैर् विलेपनैः पुष्पैर् उचितस्थानयोजितैः
सा बभौ भूषिता तन्वी मदनी मददायिनी । गिरिजेव विवाहोत्का कामकान्तेव कामिनी
महाराजो महाराज्ञीं भूषयित्वेदम् आह ताम् । राजसे मृगशावाक्षि लक्ष्मीर् इव नवोत्थिता
शक्रेण सह यच् छच्या यल् लक्ष्म्या हरिणा सह । यद् गौर्याश् शम्भुना सार्धं तत् ते भवतु मङ्गलम्
पद्मकन्दाङ्कुररदा लोलनीलोत्पलेक्षणा । आमोदसुभगाकारा त्वं स्थिता पद्मिनीसमा
सुरक्तपल्लवकरा स्तबकस्तनधारिणी । त्वम् एव फलदा मन्ये कामकल्पतरोर् लता
हिमशीतावदाताङ्गी ज्योत्स्नाप्रसरहासिनी । पूर्णेन्दुश्रीर् इवोद्युक्ता दृष्टैवाह्लादयस्य् अलम्
तद् उत्तिष्ठ वरारोहे वेदीं वैवाहिकीं स्वयम् । रत्नपुष्पलताजालै रचयावो यथाक्रमम्
इत्य् उक्त्वा दम्पती कान्तौ रचयाम् आसतुस् तदा । वेदीम् आत्मविवाहाय महेन्द्रमणिकन्दरे
मुक्ताजालैस् सझाङ्कारैः पुष्पोत्तंसैस् सषट्पदैः । रत्नमाल्यैस् सटाङ्कारैर् वैजयन्तीपटैश् चलैः
कल्पवृक्षलतासूत्रैः कल्पस्तबकमण्डलैः । कल्पपादपपट्टैश् च कल्पद्रुमफलोत्करैः
देवदारुलताजालैः काण्डप्रतिसराङ्कितैः । मुक्ताकुसुमलाजानां प्रकरैस् तारकोपमैः