ततो मुहूर्तमात्रेण रत्नसानौ समे शुभे । समालम्भनपुष्पाढ्यास् ताभ्यां वै राशयः कृताः
हाराम्बरमणीन्द्रादिराशयस् ते विरेजिरे । सौभाग्यस्येव कामेन कोशाः कालेन सम्भृताः
तथा जन्यत्रसम्भारं कृत्वा काञ्चनकन्दरे । ययतुस् तौ महामित्रे स्नातुं मन्दाकिनीं नदीम्
तत्रैनं स्नपयाम् आस महाराजम् अथादरात् । गजकुम्भोपमस्कन्धं कुम्भो मङ्गलपूर्वकम्
भविष्यद्वनितारूपां भविष्यत्पतितां गतः । चूडालां स्नपयाम् आस कुम्भरूपधरां प्रियाम्
पूजयाम् आसतुस् स्नातौ तत्र देवान् पितॄन् मुनीन् । यथा क्रियाफले ऽनिच्छौ क्रियात्यागे तथैव तौ
नित्यं ज्ञानरसातृप्तौ व्यवस्थार्थं जगत्स्थितेः । चक्राते भोजनं भव्यौ ताव् अन्योऽन्यसमीरितौ
कल्पवृक्षदुगूलानि परिधाय सितानि तौ । फलानि भुक्त्वा जन्यत्रस्थानम् आययतुः क्रमात्
एतावतात्र कालेन तयोर् जन्यत्रसोत्कयोः । प्रियं कर्तुम् इवास्ताद्रौ झगित्य् एवाविशद् रविः
अथ सन्ध्याक्रमे वृत्ते कृते जप्याघमर्षणे । विवाहदर्शनायेव ताराजाले खम् आगते
मिथुनैकसखी यामा कुमुदोत्करहासिनी । प्रालेयजालप्रकरं विकिरन्ती समाययौ
रत्नदीपान् बहून् सम्यक् कुम्भस् सानाव् अयोजयत् । ज्योतींषीन्द्वर्कयुक्तानि पद्मोद्भव इवाम्बरात्
भूषयाम् आस राजानं स्त्रीत्वं गच्छन् निशामुखे । चन्दनागुरुकर्पूरपूरैर् मृगजकुङ्कुमैः
हारकेयूरकटकैस् तथा कल्पलतांशुकैः । स्रग्दामैर् अवतंसैश् च माल्यैश् च विविधोम्भितैः
तथा कल्पलतागुच्छैर् मन्दारैः पारिजातकैः । सन्तानैर् बहुरत्नैश् च मौलिना चेन्दुरूपिणा
एतावताथ कालेन वधूत्वं कुम्भ आययौ । घनस्तनतटाक्रान्तो बभूवाशु विलासवान्
इदं सञ्चिन्तयाम् आस सम्पन्नो ऽयम् अहं वधूः । कामायात्मा मयादेयः कार्यं कालोचितं किल
इयम् अस्मि वधूः कान्ता भर्तायं मे पुरस् स्थितः । गृहाण काम माम् एहि कालो ऽयं तव हृच्छय
इति सञ्चिन्त्य भर्तारम् अग्रस्थम् अभिमण्डितम् । उदयन्तम् इवादित्यं रतिः कामम् इवाह सा
अहं मदनिका नाम भार्यास्मि तव मानद । पतये ते प्रणामो ऽयं सस्नेहं क्रियते मया
इत्य् उक्त्वा सानवद्याङ्गी लज्जावनमितानना । लोलालकेन शिरसा प्रणनाम नयात् पतिम्
उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः । क्रमेणाग्निं च सञ्ज्वाल्य मत्पाणिग्रहणं कुरु
राजसे ऽतितरां नाथ मां करोषि स्मरातुराम् । रतेर् विवाहे मदनम् अभिभूयाधितिष्ठसि
इन्दोर् इवांशुजालानि राजन् माल्यानि भान्ति ते । मेरुगङ्गाप्रवाहाभां धत्ते हारस् तवोरसि
मन्दारकुसुमप्रोतैः कुन्तलैर् नृप राजसे । कनकाब्जम् इवालोलैर् भृङ्गैः केसरधूसरैः
रत्नांशुजालैः कुसुमैश् श्रिया स्थैर्येण तेजसा । उन्नत्या च विभो मेरुम् अभिभूयावतिष्ठसे
एवमादि वदन्तौ तौ भविष्यन्नवदम्पती । प्रच्छन्नपूर्वदाम्पत्यौ मिथस् तुष्टौ बभूवतुः
महाराज्ञीं मदनिकां महाराजश् शिखिध्वजः । काञ्चनामलपर्यङ्के नियोज्याभूषयत् स्वयम्
अवतंसैस् तथा माल्यैर् मणिमुक्ताविभूषणैः । वस्त्रैर् विलेपनैः पुष्पैर् उचितस्थानयोजितैः
सा बभौ भूषिता तन्वी मदनी मददायिनी । गिरिजेव विवाहोत्का कामकान्तेव कामिनी