भूषणान्य् उरुरत्नानि माल्यानि विविधानि च । पश्येमान्य् अङ्ग जायन्ते स्वाङ्गेभ्यो वृक्षपुष्पवत्
पश्यायं स्वयम् एवोद्यच्चन्द्रांशुभरसुन्दरः । मूर्ध्नि पट्टांशुको जातो नीहारो ऽद्राव् इवाङ्ग मे
सर्वाणि कान्तालिङ्गानि जातानि मम मानद । हा धिक् कष्टं विषादो मे किं करोम्य् अङ्गनास्म्य् अहम्
हा धिक् कष्टम् अहो साधो स्थित एवाहम् अङ्गना । संविदानुभवाम्य् अन्तर् नितम्बं जघनान्वितम्
विपिने कुम्भ इत्य् उक्त्वा तूष्णीं खिन्नो बभूव ह । राजापि च तम् आलोक्य तथैवासीद् विषण्णधीः
मुहूर्तमात्रेणोवाच शिखिध्वज इदं वचः । कष्टं सो ऽयं महासत्त्वस् सम्पन्नो वरवर्णिनी
साधो विदितवेद्यस् त्वं जानासि नियतेर् गतिम् । अवश्यभाविन्य् अर्थे ऽस्मिन् मा खिन्नहृदयो भव
आपतन्ति दशास् तात सुधियां देहमात्रके । न चेतस्य् अधियां त्व् एताश् चित्तं यान्ति सदेहकम्
एवम् अस्त्व् अनुतिष्ठामि यामिनीस्त्रीत्वम् आत्मनः । न खेदम् अनुगच्छामि नियतिः केन लङ्घ्यते
इति निर्णीय तौ खेदं तं नीत्वा तनुतां मिथः । एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण ताम्
अथ प्रभाते तत् स्वैरं वपुर् उत्सृज्य यौवतम् । बभूव कुम्भः कुम्भाभकुचप्रोज्झितमूर्तिमान्
इति सा राजमहिषी चूडाला वरवर्णिनी । कुम्भत्वम् आस्थिता भर्तुः पश्चात् स्त्रीत्वम् उपागता
विजहार वनान्तेषु कुमारी धर्मिणी निशि । कुम्भरूपधरा चाह्नि भर्त्रा मित्रेण संयुता
कैलासमन्दरसुमेरुमहेन्द्रसह्यसानुष्व् अविस्खलितयोगगमागमा सा । सार्धं प्रियेण सुहृदा विभुना यथेच्छं स्रग्दामहारवलिता विजहार नारी
ततः कतिपयेष्व् एव दिवसेषु गतेषु सा । इदं प्रोवाच भर्तारं कुम्भरूपधरा सती
राजन् राजीवपत्त्राक्ष ममेदं वचनं शृणु । निशायां प्रत्यहं तावत् स्थित एवाहम् अङ्गना
तद् इच्छाम्य् अङ्गनाधर्मं निपुणीकर्तुम् ईदृशम् । भर्त्रे कस्मैचिद् आत्मानं विवाहेन ददाम्य् अहम्
तद् भवान् एव मे भर्ता रोचते भुवनत्रये । गृहाण मां विवाहेन भार्यात्वे निशि सर्वदा
अयत्नोपनतं साधो प्रियेण सुहृदा सह । स्त्रीसुखं भोक्तुम् इच्छामि मा मे विघ्नकरो भव
क्रमप्रवृत्तम् आ सृष्टेस् सुखसाध्यं मनोरमम् । प्रकृतं कुर्वतः कार्यं दोषः क इव जायते
इच्छानिच्छादृशोर् ऐक्यात् समत्वात् सर्ववस्तुषु । वयं न सेच्छा नानिच्छाः कुर्वस् तेनैतद् ईप्सितम्
कृतेनानेन कार्येण न शुभं नाशुभं सखे । पश्यामि तन् महाबुद्धे यथेच्छसि तथा कुरु
समतां सम्प्रयातेन चेतसेदं जगत्त्रयम् । खरूपम् एव पश्यामि यथेच्छसि तथाचर
यद्य् एवं तन् महीपाल लग्नम् अद्यैव शोभनम् । राकेयं श्रावणस्यास्य ह्यस् सर्वं गणितं मया
रात्राव् अद्योदिते चन्द्रे परिपूर्णकलामले । जन्यत्रं नौ महाबाहो द्वयोर् एव भविष्यति
महेन्द्राद्रिशिरश्शृङ्गसानाव् अस्मिन् मनोरमे । रत्नदीपप्रकाशाढ्यमणिमन्दिरमण्डिते
पुष्पभारानतोत्तुङ्गवृक्षजन्यविराजिते । वनपुष्पलतालास्यनारीनृत्तमनोहरे
निशि व्योमगतास् तारा भर्त्रा पूर्णेन्दुना सह । आवयोः परिपश्यन्तु कर्णान्तागतलोचनाः
उत्तिष्ठात्मविवाहार्थं कुर्वः काननकोटरात् । राजंश् चन्दनपुष्पादिसम्भारं रत्नसंयुतम्
इत्य् उक्त्वा कुम्भ उत्थाय सह तेन महीभृता । कुसुमावचयं चक्रे तथा रत्नादिसञ्चयम्