संसृतौ भवितव्यानाम् अहो नु विषमा गतिः । अहम् अप्य् अन्यवद् दैवाद् यूनाम् आमिषतां गतः
कष्टं मदपहारेण कलहो जायते ऽधुना । दिवि देवकुमाराणां कामाकुलधियाम् इह
गुरुदेवद्विजातीनां लज्जापरवशात्मना । कथम् अग्रे मया सम्यक् स्थातव्यं यामिनीस्त्रिया
इत्य् उक्त्वा क्षणम् एकं स तूष्णीं स्थित्वा मुनेस् सुतः । धैर्यम् आलम्ब्य कुम्भो ऽत्र पुनर् आह रघूद्वह
किम् अज्ञ इव शोचामि किं मम क्षतम् आत्मनः । यथागतम् अयं देहो मत्तो ऽन्यो ऽनुभविष्यति
परिदेवनया को ऽर्थो देवपुत्र तवैतया । यद् आयाति तद् आयातु देहस्यात्मा न लिप्यते
कानिचिद् यानि दुःखानि सुखानि विहितानि वा । तानि सर्वाणि देहस्य देहिनो न तु कानिचित्
यदि त्वम् अपि कार्याणाम् अखेदार्हो ऽपि खिद्यसि । तद् अन्येषाम् उपायस् स्यात् क इवागमभूषण
खेदे ऽखेदोचितं वाच्यम् इति किं च त्वम् उक्तवान् । इदानीं समताम् एत्य तिष्ठाखिन्नो यथास्थितः
ताव् एवमादिभिर् वाक्यैर् अन्योऽन्याश्वासनं स्वयम् । कृत्वा स्थितौ वने स्निग्धौ सुहृदौ खेदिनौ मिथः
अथार्कस् तस्य कुम्भस्य स्त्रीत्वम् उत्पादयन्न् इव । जगामास्तं जगद्दीपो दीपस् स्नेहक्षयाद् इव
व्यवहारभरैस् सार्धं पद्मास् सङ्कोचम् आययुः । मार्गाश् च पथिकैस् सार्धं पान्थस्त्रीहृदयानि च
दाशवद् विहगान् सर्वान् कुर्वद् एकत्र पुञ्जितान् । तारकारत्नजालाढ्यं भुवनं श्यामतां ययौ
खं हसन्न् इव ताराढ्यं विकासं कुमुदाकरः । ययाव् उन्नादचक्राह्वं भ्रमद्भ्रमरपेटकः
सुहृदौ ताव् अथोत्थाय सन्ध्याम् उद्यन्निशाकराम् । वन्दयित्वा तथा कृत्वा जप्यं गुल्मान्तरे स्थितौ
ततः कुम्भश् शनैस् तत्र स्त्रैणम् अभ्याहरन् वपुः । शिखिध्वजं पुरस्संस्थं प्रोवाच गलदक्षरम्
पतामीव स्फुरामीव द्रवामीवाङ्गयष्टिभिः । लज्जयेव च हे राजन् मन्ये स्त्रीत्वं व्रजाम्य् अहम्
पश्येमे परिवर्धन्ते राजन् मम शिरोरुहाः । प्रस्फुरत्तारकामाला दिनान्ते तिमिरा इव
पश्येमौ मम जायेते प्रोन्मुखाव् उरसि स्तनौ । कोरकाव् इव पद्मिन्या वसन्ते गगनोन्मुखौ
आगुल्फम् एव लम्बानि सम्पद्यन्ते ऽम्बराणि मे । देहाद् एव सखे पश्य स्त्रिया इव शनैश् शनैः
भूषणान्य् उरुरत्नानि माल्यानि विविधानि च । पश्येमान्य् अङ्ग जायन्ते स्वाङ्गेभ्यो वृक्षपुष्पवत्
पश्यायं स्वयम् एवोद्यच्चन्द्रांशुभरसुन्दरः । मूर्ध्नि पट्टांशुको जातो नीहारो ऽद्राव् इवाङ्ग मे
सर्वाणि कान्तालिङ्गानि जातानि मम मानद । हा धिक् कष्टं विषादो मे किं करोम्य् अङ्गनास्म्य् अहम्
हा धिक् कष्टम् अहो साधो स्थित एवाहम् अङ्गना । संविदानुभवाम्य् अन्तर् नितम्बं जघनान्वितम्
विपिने कुम्भ इत्य् उक्त्वा तूष्णीं खिन्नो बभूव ह । राजापि च तम् आलोक्य तथैवासीद् विषण्णधीः
मुहूर्तमात्रेणोवाच शिखिध्वज इदं वचः । कष्टं सो ऽयं महासत्त्वस् सम्पन्नो वरवर्णिनी
साधो विदितवेद्यस् त्वं जानासि नियतेर् गतिम् । अवश्यभाविन्य् अर्थे ऽस्मिन् मा खिन्नहृदयो भव
आपतन्ति दशास् तात सुधियां देहमात्रके । न चेतस्य् अधियां त्व् एताश् चित्तं यान्ति सदेहकम्
एवम् अस्त्व् अनुतिष्ठामि यामिनीस्त्रीत्वम् आत्मनः । न खेदम् अनुगच्छामि नियतिः केन लङ्घ्यते
इति निर्णीय तौ खेदं तं नीत्वा तनुतां मिथः । एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण ताम्