इत्थं सुखेषु ननु दुःखदशासु चेत्थं स्थातव्यम् इत्य् अधिगतं यद् इहाङ्ग जीवैः । तज्ज्ञाज्ञभूतनिचयस् स्फुरितस् तद् एव दुर्लङ्घ्य एष नियतो नियतेर् विलासः
एवं स्थिते महाभाग कथम् उद्वेगम् ईदृशम् । लब्धवान् असि देवो ऽपि स्वर्गाद् अपि सुखास्पदात्
शृणु कार्यम् इदं चित्रं मदीयं वसुधाधिप । कथयामि तवाशेषं स्वर्गे यद् वृत्तम् अद्य मे
सुहृद्य् आवेदितं दुःखं परम् आयाति तानवम् । घनं जडं कृष्णम् अपि मुक्तवृष्टिर् इवाम्बुदः
सुहृदा पृच्छता साधु चेतो याति प्रसन्नताम् । स्निह्यतोपगतेनाशु कतकेन जलं यथा
अहं तावद् इतो यातो भवते पुष्पमञ्जरीम् । दत्त्वा गगनम् उल्लङ्घ्य सम्प्राप्तश् च त्रिविष्टपम्
तत्र पित्रा सहेन्द्रस्य सभास्थाने यथाक्रमम् । स्थित्वोत्थाय तथोत्थानकाले पित्रा विसर्जितः
इहागन्तुम् अहं स्वर्गं त्यक्त्वा सम्प्राप्तवान् नभः । दिवाकरहयैस् सार्धं वहाम्य् अनिलवर्त्मनि
अथैकत्र गतो भानुर् एकेनान्येन वर्त्मना । आगच्छाम्य् अहम् आकाशसागरात् पतिताकृतिः
अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना । अपश्यं मुनिम् आयान्तम् अहं दुर्वाससं जवात्
पयोधरपटच्छन्नं विद्युद्वलयभूषितम् । अभिसारिकया तुल्यं धाराधौताङ्गसञ्चयम्
स्थितं सुमेघच्छायायां श्यामायां वसुधातले । वेगेनाभिसरन्तं तं तपोलक्ष्मीम् इव प्रियाम्
तस्य कृत्वा नमस्कारम् उक्तं च वहता मया । मुने नीलाब्दवस्त्रस् त्वम् अभिसारिकया समः
इत्य् आकर्ण्य चुकोपासौ मयि मानद मानहा । विस्फार्य रक्ते नयने प्राह गम्भीरनिस्स्वनम्
पौत्रो ऽस्मि पद्मजस्येति गर्वितस् त्वं किम् ईदृशः । भव्या हि नतिम् आयान्ति गुणैर् वृक्षाः फलैर् इव
वेश्याभिसारिकारूपो भवान् इत्य् अशुभं वचः । मयि वक्षि दुराचार मूढ देवकुमारक
स्तनकेशवती कान्ता हावभावविकारिणी । गच्छानेन दुरुक्तेन रात्रौ वेश्या भविष्यसि
इति श्रुत्वाशुभं वाक्यम् उज्झितं जर्जरद्विजात् । विमृष्यामि मनाग् यावत् तावद् अन्तर्हितो मुनिः
इत्य् उद्विग्नमनास् साधो सम्प्राप्तो ऽस्मि नभस्तलात् । एतत् ते कथितं सर्वं सम्पन्नो ऽस्मि निशाङ्गना
अतिवाह्यं दिनान्तेषु स्त्रीत्वम् एतन् मया कथम् । योनिस्तनवता रात्रौ वक्तव्यं किं मया पितुः
संसृतौ भवितव्यानाम् अहो नु विषमा गतिः । अहम् अप्य् अन्यवद् दैवाद् यूनाम् आमिषतां गतः
कष्टं मदपहारेण कलहो जायते ऽधुना । दिवि देवकुमाराणां कामाकुलधियाम् इह
गुरुदेवद्विजातीनां लज्जापरवशात्मना । कथम् अग्रे मया सम्यक् स्थातव्यं यामिनीस्त्रिया
इत्य् उक्त्वा क्षणम् एकं स तूष्णीं स्थित्वा मुनेस् सुतः । धैर्यम् आलम्ब्य कुम्भो ऽत्र पुनर् आह रघूद्वह
किम् अज्ञ इव शोचामि किं मम क्षतम् आत्मनः । यथागतम् अयं देहो मत्तो ऽन्यो ऽनुभविष्यति
परिदेवनया को ऽर्थो देवपुत्र तवैतया । यद् आयाति तद् आयातु देहस्यात्मा न लिप्यते
कानिचिद् यानि दुःखानि सुखानि विहितानि वा । तानि सर्वाणि देहस्य देहिनो न तु कानिचित्
यदि त्वम् अपि कार्याणाम् अखेदार्हो ऽपि खिद्यसि । तद् अन्येषाम् उपायस् स्यात् क इवागमभूषण
खेदे ऽखेदोचितं वाच्यम् इति किं च त्वम् उक्तवान् । इदानीं समताम् एत्य तिष्ठाखिन्नो यथास्थितः
ताव् एवमादिभिर् वाक्यैर् अन्योऽन्याश्वासनं स्वयम् । कृत्वा स्थितौ वने स्निग्धौ सुहृदौ खेदिनौ मिथः