तत् कञ्चिद् रचयाम्य् आशु प्रपञ्चं प्रज्ञया नवम् । येनायं भूपतिर् भर्ता रमते मयि मानदः
इति सञ्चिन्त्य चूडाला कुम्भवेषधरा पतिम् । प्राह काननगुल्मस्था कोकिलं कोकिला यथा
चैत्रमासस्य शुक्ले ऽयं प्रतिपद्दिवसस् सुहृत् । अद्यास्थानं महारम्भं स्वर्गे भवति वै हरेः
सन्निधानं मया तत्र कर्तव्यं पितुर् अग्रतः । यथास्थिता हि नियतिर् न सन्त्याज्या कदाचन
प्रतिपालयितव्यं मे त्वयेहाद्य वनावनौ । क्रीडता ध्यानपुष्पाभ्यां समुद्वेगम् अगच्छता
आगच्छामि दिनान्ते ऽद्य निर्विकल्पं नभस्तलात् । स्वर्गाद् अतितराम् एव त्वत्सङ्गो मम तुष्टये
इत्य् उक्त्वा मञ्जरीं कुम्भो ददौ मित्राय कौसुमीम् । प्रीतये स्वाम् इव प्रीतिं कान्तां नन्दनवृक्षजाम्
आगन्तव्यं त्वया शीघ्रम् एवं वदति भूपतौ । पुप्लुवे च वनाद् व्योम शरन्मुग्धपयोदवत्
पुष्पजालं जहौ व्योम व्रजन् कुसुमदामजम् । विसारि वनवातेन हिमं हैम इवाम्बुदः
शिखिध्वजो व्रजन्तं तं ददर्शादर्शनं गतम् । उन्निद्रो ऽब्दं यथा बर्ही सत्प्रीतिर् हि सुदुस्त्यजा
शिखिध्वजदृशाम् अन्ते व्योम्नि कुम्भवपुर् जहौ । सानावर्तेव वारिश्रीर् मुग्धा स्वं रूपम् आययौ
प्राप मञ्जरिताकारकल्पवृक्षोपमं पुरम् । स्फुरत्पताकम् आत्मीयं स्वर्गरम्यं दिवः पथा
अन्तःपुरम् अदृश्यैव विवेश ललनाकुलम् । मधुमासमहालक्ष्मीर् लसल्लतम् इव द्रुमम्
राजकार्याण्य् अशेषाणि तत्र सम्पाद्य सत्वरम् । शिखिध्वजवनं गन्तुं पुनर् आपुप्लुवे नभः
उल्लङ्घ्य गगनाध्वानं समं दिनकरांशुभिः । शिखिध्वजवनं शैले ददर्श गगने स्थिता
तं दृष्ट्वा कुम्भरूपं तत् पुनर् जग्राह सत्वरम् । शिखिध्वजस्य पुरतः पपात च खपुष्पवत्
तत्र म्लानद्युति मुखं चकाराखिन्नमानसम् । इन्दुं सनीहारम् इव यामा खिन्नम् इवाम्बुजम्
तं दृष्ट्वा तादृगाकारं समुत्तस्थौ शिखिध्वजः । बभूव खिन्नचेताश् च समुवाचेदम् आदृतः
देवपुत्र नमस् ते ऽस्तु विमना इव लक्ष्यसे । कुम्भस् त्वं त्यज संरम्भम् इदम् आसनम् आस्यताम्
सन्तो विदितवेद्या ये ते हि हर्षविषादजाम् । नाश्रयन्ति स्थितिं स्वस्थाः पद्मा इव जलार्द्रताम्
तेन स्मोपविशेत्य् उक्ते कुम्भ आहासने विशन् । गिरा विषण्णया शीर्णवंशस्वनसमानया
यावद्देहम् अवस्थासु समचित्ततयैव ये । कर्मेन्द्रियैर् न तिष्ठन्ति न ते तत्त्वधियश् शठाः
ये ह्य् अतत्त्वविदो मूढा राजन् बालतयैव ते । अवस्थाभ्यः पलायन्ते गृहीताभ्यस् स्वभावतः
यावत्तिलं यथा तैलं यावद्देहं दशा तथा । यो न देहदशाम् एति स च्छिनत्त्य् असिनाम्बरम्
एष देहदशादुःखपरिहारो ह्य् अनुत्तमः । यत् साम्यं चेतसो योगान् न तु कर्मेन्द्रियस्थितेः
यावद्देहं यथाचारं दशास्व् अङ्ग विजानता । कर्मेन्द्रियैर् हि स्थातव्यं न तु बुद्धीन्द्रियैः क्वचित्
परमेष्ठिप्रभृतयस् सर्व एवोदिताशयाः । देहावस्थासु तिष्ठन्ति नियतेर् एष निश्चयः
अज्ञतत्त्वज्ञभूतादि दृश्यजातम् इदं हि यत् । तत् सर्वम् एव नियतिं धावत्य् अम्बु यथाम्बुधिम्
तज्ज्ञा बुद्ध्यादिसाम्येन पाण्यादिचलनेन च । नियतिं यापयन्तीमां यावद्देहम् अखण्डिताः
अज्ञास् तु सर्वक्षोभेण सुखदुःखदशाहताः । नियतिं यापयन्त्य् अङ्ग देहलक्षैर् विखण्डिताः