भवद्वितीर्णया योगयुक्त्या विश्रान्तवान् अहम् । यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः
ताम् एव स्वस्थितिं स्वच्छाम् अवलम्ब्य प्रकाशिनीम् । विहरेह यथाकामं स्वर्गे भूमितले ऽथ वा
परे पदे महानन्दे कच्चिद् विश्रान्तवान् असि । इदं भेदमयं दुःखं कच्चित् सन्त्यक्तवान् असि
कच्चिद् आपातरम्येभ्यस् सङ्कल्पेभ्यो रतिर् भृशम् । निर्मूलतां गता राजन्न् ओघतीरलतेव ते
हेयादेयदशातीतं शान्तं समसमस्थिति । यथाप्राप्तेष्व् अनुद्वेगि कच्चित् तव मनस् स्थितम्
त्वत्प्रसादेन भगवन् दृष्टा दृश्यातिगा गतिः । प्राप्तस् संसारसीमान्तो लब्धो लब्धव्यनिश्चयः
चिरायातिचिरेणैव विश्रान्तास् स्मो निरामयाः । लब्धं लब्धव्यम् अखिलं तृप्तास् स्मश् चिरम् अक्षताः
नोपदेष्टव्यम् अस्माकं किञ्चिद् अप्य् उपयुज्यते । सर्वत्रैवातितृप्तास् स्मस् संस्थितास् स्मो गतज्वरम्
ज्ञातम् अज्ञातम् अप्राप्तं सम्प्राप्तं त्यक्तम् आश्रितम् । त्वत्त्वं परत्वं मत्त्वं मे खस्येवास्ति न किञ्चन
निस्संसृतिर् विगतमोहभयाभिरामो नित्योदितस् समसमाशयसर्वसोम्यः । सर्वात्मकस् सकलसङ्कलनाविमुक्त आकाशकोशविशदश् शमम् आस्थितो ऽस्मि
इत्य् अध्यात्मविचित्राभिः कथाभिस् तौ परस्परम् । आसतां वेद्यवेत्तारौ मुहूर्तत्रितयं वने
तत उत्थाय कस्मिंश्चित् स्नातौ सरससारसे । सरोवरे वने चैव विहृतौ नन्दनोपमे
तेनाचारेण ताभिश् च कथाभिस् तौ वनेचरौ । नीतवन्तौ दिनान्य् अष्टौ तासु काननवीथिषु
अथ कुम्भ उवाचान्यद् वनं यावो गिराव् इति । तद् ॐ इति नृपो मत्वा ताव् उभौ प्रविचेरतुः
वनान्य् अनेकरूपाणि जङ्गलानि तटानि च । सरांसि गुल्मजालानि शृङ्गाणि गहनानि च
नदीर् देशांस् तथा ग्रामान् नगराणि पुराणि च । मरून् घोरान् गिरीन् कुञ्जांस् तीर्थान्य् आयतनानि च
समम् एव समस्नेहौ समवेषौ स्थिताव् उभौ । समसत्तौ समोत्साहौ सस्नतुस् तस्थतुस् तथा
आनर्चतुः पितॄन् देवान् बुभुजाते च राघव । समं तल्पे च शिश्याते समबुद्धी बभूवतुः
तमालवनषण्डेषु मन्दारगहनेषु च । दम्पती स्निग्धहृदयौ सुहृदौ तौ विरेजतुः
इदं ग्राह्यम् इदं नेति विकल्पकलना मनः । न जहार तयो राम वात्येव विबुधाचलम्
विचेरतुस् तौ सुहृदौ क्वचिद् धूलिविधूसरौ । क्वचिच् चन्दनदिग्धाङ्गौ क्वचिद् भस्मानुरञ्जितौ
क्वचिद् दिव्याम्बरधरौ चीराम्बरधरौ क्वचित् । क्वचित् पल्लवसञ्छन्नौ क्वचित् कुसुममण्डितौ
दिनैः कतिपयैर् एव गतचित्ततया तया । सत्त्वोदात्ततया चैव राजा कुम्भवद् आबभौ
अथ तं सुरगर्भाभं चूडाला सा शिखिध्वजम् । दृष्ट्वा शोभाम् उपगतं चिन्तयाम् आस मानिनी
अयं पतिर् अनिन्द्यात्मा तथेमा वनभूमयः । इयं स्थितिर् अनायासा यो न कामी स वञ्चितः
जीवन्मुक्तधियां भोगे यथाप्राप्तम् अतिष्ठताम् । एकग्रहात्मिका तुच्छा मूढतैवोदिता भवेत्
निजः पतिर् अनिन्द्यात्मा निराधित्वं नवं वयः । गृहाणि पुष्पजालानि सा हता या न कामिनी
वनपुष्पलतागेहे स्वायत्ते भर्तरि प्रिये । रमते या न निर्दुःखा सा हतैव दुरङ्गना
वश्यं विवाहितं कान्तं पतिम् आसाद्य निर्जने । स्त्री सती या न रमते तां धिग् अस्तु दुरङ्गनाम्
समुज्झता यथाप्राप्तम् अपि वेद्यविदा सता । अनिन्द्यं स्वम् उदारार्थं किं तज्ज्ञेन कृतं भवेत्