अहो बत वयं धन्याः पुनः प्राप्तो मुनेस् सुतः । इत्य् एवोदाहरन् राजा कुम्भाय कुसुमं ददौ
दिष्ट्या स्थितास् स्मो भगवंस् तव चेतसि पावने । के नाम न महासत्त्वाः प्रसादेष्व् अङ्ग हि स्थिराः
अस्मत्पवित्रीकरणम् एकम् आगमकारणम् । तव पापापहं ब्रूहि द्वितीयं कतरद् भवेत्
यतः प्रभृति यातो ऽस्मि त्वत्सकाशाद् अरिन्दम । ततः प्रभृति चेतो मे त्वयैवेह समं स्थितम्
न रमे स्वर्गरङ्गेषु देवोद्यानेषु चानघ । मेरुमन्दरकूटेषु कैलासकुहरेषु च
त्वत्सङ्गम् एव वाञ्छामि सुभगाचारपेशलम् । अमृतस्यन्दसङ्काशं मधुमासम् इव द्रुमः
तस्माद् एवेह तिष्ठामि समीपे तव साम्प्रतम् । अभीष्टं यद् यद् एवाङ्ग रम्याणां धुरि तत् स्थितम्
त्वादृशो बन्धुर् आप्तश् च सुहृन् मित्रं सखा तथा । विश्वास्यश् चैव शिष्यश् च मन्ये जगति नास्ति मे
अहो नु फलितं पुण्यपादपैर् नः कुलाचले । यद् भवान् अप्य् असङ्गो ऽपि वाञ्छत्य् अस्मत्समागमम्
इदं वनम् इमे वृक्षा भृत्यो ऽयम् अहम् आदृतः । रोचते चेन् न ते स्वर्गस् तद् इह स्थीयतां प्रभो
भवद्वितीर्णया योगयुक्त्या विश्रान्तवान् अहम् । यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः
ताम् एव स्वस्थितिं स्वच्छाम् अवलम्ब्य प्रकाशिनीम् । विहरेह यथाकामं स्वर्गे भूमितले ऽथ वा
परे पदे महानन्दे कच्चिद् विश्रान्तवान् असि । इदं भेदमयं दुःखं कच्चित् सन्त्यक्तवान् असि
कच्चिद् आपातरम्येभ्यस् सङ्कल्पेभ्यो रतिर् भृशम् । निर्मूलतां गता राजन्न् ओघतीरलतेव ते
हेयादेयदशातीतं शान्तं समसमस्थिति । यथाप्राप्तेष्व् अनुद्वेगि कच्चित् तव मनस् स्थितम्
त्वत्प्रसादेन भगवन् दृष्टा दृश्यातिगा गतिः । प्राप्तस् संसारसीमान्तो लब्धो लब्धव्यनिश्चयः
चिरायातिचिरेणैव विश्रान्तास् स्मो निरामयाः । लब्धं लब्धव्यम् अखिलं तृप्तास् स्मश् चिरम् अक्षताः
नोपदेष्टव्यम् अस्माकं किञ्चिद् अप्य् उपयुज्यते । सर्वत्रैवातितृप्तास् स्मस् संस्थितास् स्मो गतज्वरम्
ज्ञातम् अज्ञातम् अप्राप्तं सम्प्राप्तं त्यक्तम् आश्रितम् । त्वत्त्वं परत्वं मत्त्वं मे खस्येवास्ति न किञ्चन
निस्संसृतिर् विगतमोहभयाभिरामो नित्योदितस् समसमाशयसर्वसोम्यः । सर्वात्मकस् सकलसङ्कलनाविमुक्त आकाशकोशविशदश् शमम् आस्थितो ऽस्मि
इत्य् अध्यात्मविचित्राभिः कथाभिस् तौ परस्परम् । आसतां वेद्यवेत्तारौ मुहूर्तत्रितयं वने
तत उत्थाय कस्मिंश्चित् स्नातौ सरससारसे । सरोवरे वने चैव विहृतौ नन्दनोपमे
तेनाचारेण ताभिश् च कथाभिस् तौ वनेचरौ । नीतवन्तौ दिनान्य् अष्टौ तासु काननवीथिषु
अथ कुम्भ उवाचान्यद् वनं यावो गिराव् इति । तद् ॐ इति नृपो मत्वा ताव् उभौ प्रविचेरतुः
वनान्य् अनेकरूपाणि जङ्गलानि तटानि च । सरांसि गुल्मजालानि शृङ्गाणि गहनानि च
नदीर् देशांस् तथा ग्रामान् नगराणि पुराणि च । मरून् घोरान् गिरीन् कुञ्जांस् तीर्थान्य् आयतनानि च
समम् एव समस्नेहौ समवेषौ स्थिताव् उभौ । समसत्तौ समोत्साहौ सस्नतुस् तस्थतुस् तथा
आनर्चतुः पितॄन् देवान् बुभुजाते च राघव । समं तल्पे च शिश्याते समबुद्धी बभूवतुः
तमालवनषण्डेषु मन्दारगहनेषु च । दम्पती स्निग्धहृदयौ सुहृदौ तौ विरेजतुः
इदं ग्राह्यम् इदं नेति विकल्पकलना मनः । न जहार तयो राम वात्येव विबुधाचलम्