मनस्य् अनीहिते शान्ते तैर् बुद्धीन्द्रियकर्मभिः । नेह कैश्चित् कृतैर् अर्थो नाकृतैर् अप्य् अभावनात्
मनस्य् अनीहिते शान्ते न प्रवर्तन्त एव ते । कर्मेन्द्रियाणि कर्मादाव् असञ्चारितयन्त्रवत्
मनोयन्त्रस्य चलने कारणं वेदनं विदुः । प्राणाली दारुमेषस्य रज्जुर् अन्तर्गता यथा
रूपालोकमनस्कारपदार्थाद्याकुलं जगत् । विद्यते वेदनस्यान्तर् वाते ऽन्तस् स्पन्दनं यथा
सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् । भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम्
द्रष्टैव दृश्यताभासं स्वं रूपं धारयन् स्थितः । स्वं यथा तत्र यद् रूपं प्रविभाति तथैव तत्
सर्वम् आत्मा यथा तत्र सङ्कल्पत्वम् इवागतः । तिष्ठत्य् आशु तथा तत्र तद्रूप इव राजते
सर्वात्मकतया द्रष्टुर् दृश्यत्वम् इव युज्यते । द्रष्टृत्वं द्रष्ट्रसद्भावे दृश्यस्य त्व् अस्ति नासतः
अकारणकम् एवातो ब्रह्मकल्पम् इदं स्थितम् । प्रत्यक्षम् एव निर्मातृ तस्यांशास् त्व् अनुपाधयः
स्वयत्नमात्रेतररूपको यस् तद्दैवशब्दार्थम् अपास्य दूरे । शूरेण साधो पदम् उत्तमं तत् स्वपौरुषेणैव हि लभ्यते ऽन्तः
विचारयाचार्यपरम्पराणां मतेन सत्येन सितेन तावत् । यावद् विशुद्धां स्वयम् एव बुद्धाम् अनन्तरूपां परताम् उपैषि
आर्यसङ्गमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद् बलात् । ततो महापुरुषता महापुरुषलक्षणैः
यो यो येन गुणेनेह पुरुषः प्रविराजते । शिक्षेत तं तम् एवाशु तस्माद् बुद्धिविवृद्धये
महापुरुषता त्व् एषा शमादिगुणशालिनी । सम्यग्ज्ञानं विना राम सिद्धिम् एति न कस्यचित्
ज्ञानाच् छमादयो यान्ति वृद्धिं सत्पुरुषक्रमात् । श्लाघनीयाः फलेनान्तर् वृष्टेर् इव नवाङ्कुराः
शमादिभ्यो गुणेभ्यश् च वर्धते ज्ञानम् उत्तमम् । अन्नात्मकेभ्यो यज्ञेभ्यश् शालिवृष्टिर् इवोत्तमा
गुणाश् शमादयो ज्ञानाच् छमादिभ्यस् तथा ज्ञता । परस्परं विवर्धेते एते ऽब्दसरसी यथा
ज्ञानं सत्पुरुषाचाराज् ज्ञानात् सत्पुरुषक्रमः । परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ । एको ऽपि नैतयोस् तावत् पुरुषस्येह सिध्यति
यथा कलमरक्षिण्या गीत्या वितततारया । खगोत्सादेन सहितो गीतानन्दः प्रसाध्यते
ज्ञानसत्पुरुषेहाभ्याम् अकर्त्रा कर्तृरूपिणा । तथा पुंसा निरिच्छेन समम् आसाद्यते पदम्
सदाचारक्रमः प्रोक्तो मयैष रघुनन्दन । तथोपवेश्यते सम्यग् अयं ज्ञानक्रमो ऽधुना
इदं यशस्यम् आयुष्यं पुरुषार्थफलप्रदम् । तज्ज्ञाद् आप्तात्मशास्त्रार्थाच् छ्रोतव्यं किल धीमता
श्रुत्वा तु बुद्धिनैर्मल्याद् बलाद् यास्यसि सत्पदम् । यथा कतकसंश्लेषात् प्रसादम् अवशं पयः
विदितवेद्यम् इदं हि मनो मुने विवशम् एव हि याति परं पदम् । यद् अवबुद्धम् अखण्डितम् उत्तमं तदवबोधदशां न जहाति हि
वाग्भाभिर् ब्रह्मविद् ब्रह्म भाति स्वप्न इवात्मनि । यद् इदं तत् स्वशब्दार्थैर् यो यद् वेत्ति स वेत्तु तत्
न्यायेनानेन सर्वस्मिन् सर्गे ब्रह्माम्बरे सति । किम् इदं कस्य वक्षीति चोद्यचञ्चुर् निराकृतः
अहं तावद् यथाज्ञानं यथावस्तु यथाक्रमम् । यथास्वभावं वच्मीदं तत् सर्वं श्रूयतां बुधाः
स्वप्नवत् पश्यति जगच् चिन्नभो देहविन्मयम् । स्वप्नसंसारदृष्टान्ता इहैवान्तस् समन्विताः
मुमुक्षुव्यवहारोक्तिमयात् प्रकरणाद् अनु । अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते
बन्धो ऽयं दृश्यसद्भावो दृश्याभावे न बन्धनम् । न सम्भवति दृश्यं तु यथेदं तच् छृणु क्रमात्