अहो परिणतस् साधुस् स्वपदे भगवान् अयम् । तद् एनं हि कया युक्त्या साम्प्रतं बोधयाम्य् अहम्
अथ वैनं महात्मानं किमर्थं बोधयाम्य् अहम् । विदेहं बोधम् आसाद्य तिष्ठत्व् एष यथासुखम्
अहम् अप्य् अङ्गनादेहम् इमं त्यक्त्वा परं पदम् । अपुनर्जननायैव गच्छामीह हि किं मम
इति सञ्चिन्त्य देहं स्वं त्यक्तुम् अभ्युद्यता सती । पुनस् सञ्चिन्तयाम् आस चूडाला सा महासती
आलोकयामि वै तावद् एनं देहं महीपतेः । यद्य् अस्य सत्त्वशेषो ऽस्ति बोधबीजं हृदन्तरे
तत् कालेनैष भगवान् सम्प्रबोधम् उपैष्यति । मूलकोशरसालीनं पुष्पजालं मधाव् इव
तदेह विहरञ् जीवन्मुक्त एको भवत्य् अयम् । मैको भवत्व् एष इति मन्ये गच्छामि नो शमम्
इति सञ्चिन्त्य चूडाला स्पर्शेन नयनेन च । पतिम् आलोक्य साशङ्कम् उवाच वरवर्णिनी
अस्त्य् एव सत्त्वशेषो ऽस्य हृदि सम्बोधकारणम् । कायो ऽयम् अगलद्रूपो नेमं देहं त्यजाम्य् अहम्
भृशं संशान्तचित्तस्य काष्ठलोष्टसमस्थितेः । सत्त्वशेषः कथं ब्रह्मञ् ज्ञायते ध्यानशालिनः
प्रबोधकारणं यस्य दुर्लक्ष्याणुवपुर् हृदि । विद्यते सत्त्वशेषो ऽन्तर् बीजे पुष्पफलं यथा
चित्तस्पन्दविमुक्तस्य तस्यास्पन्दितसच्चितः । द्वित्वैकत्वविहीनस्य समस्याचलसंस्थितेः
कायस् समसमाभोगो न ग्लायति न हृष्यति । नास्तम् एति न चोदेति समम् एवावतिष्ठते
द्वित्वैकत्वादियुक्तस्य यस्य प्रस्पन्दते मनः । तस्य देहो ऽन्यताम् एति नास्पन्दस्य कदाचन
चित्तस्पन्दो हि सर्वेषां कारणं जगतस् स्थितेः । राम भावविकाराणां कुसुमानां यथा मधुः
यस्मिन् प्रस्पन्दते देहे चित्तं स हि मुहुर् मुहुः । हर्षग्लपनसम्मोहवशम् एति रघूद्वह
चित्ते प्रशमम् आयाते कायो यस् सत्त्ववान् स्थितः । बाधते नाम्बरस्येव तस्य भावविकारभूः
वीच्यादि न यथोदेति समाया जलसन्ततेः । तथा न दृश्यते दोषस् समायास् सत्त्वसंस्थितेः
सत्त्वस्यानुपलम्भो ऽस्ति नान्यस् स्वोपशमाद् ऋते । यावद् भावि समं सत्त्वं कालाच् छाम्यति केवलम्
देहे यस्मिंस् तु नो चित्तं नापि सत्त्वं च विद्यते । स तापहिमवद् राम पञ्चत्वेन विलीयते
शिखिध्वजस्य देहो ऽसौ निश्चितं चेतसोज्झितः । सत्त्वांशेन च संयुक्तस् तेन न म्लानिभाजनम्
तं तथाभूतम् आलोक्य भर्तुर् देहं वराङ्गना । अनुज्झितवती देहं चिन्तयाम् आस सत्वरम्
चित्तत्त्वं सर्वगं शुद्धं प्रविश्याबोधयाम्य् अहम् । भविष्यद्बोधनं कान्तम् एष तत्र हि संस्थितः
न बोधयामि यद्य् एनं चिरात् तद् बुध्यते स्वयम् । किम् इहैकावतिष्ठे ऽहम् इत्य् एनं बोधयाम्य् अहम्
इति सञ्चिन्त्य चूडाला देहं कारणपञ्जरम् । सन्त्यज्य प्राप चित्तत्त्वे स्थितिम् आद्यन्तवर्जिते
तत्र सा चेतनस्पन्दं कृत्वा सत्त्ववतः प्रभोः । स्वं विवेश पुनर् देहं खान् नीडम् इव पक्षिणी
कुम्भाकृतिर् अथोत्थाय निविष्टा कुसुमस्थले । साम गातुं प्रवृत्ता सा भ्रमरीवृन्दसस्वना
तं सामस्वनम् आकर्ण्य चित् सत्त्वगुणशालिनः । बुबुधे भूपतेर् देहे वसन्त इव पद्मिनी
दृशं विकासयाम् आस तां तदार्क इवाब्जिनीम् । गृहीतसत्त्वसम्पत्तिश् शिखिध्वजमहीपतिः
अपश्यत् कुम्भम् अग्रस्थं सामगायनतत्परम् । परेण वपुषा युक्तं सामवेदम् इवापरम्