इति ते कथितं सर्वं शिखिध्वज महीपते । यथेदम् उत्थितं सर्वं यथा च प्रविलीयते
एतच् छ्रुत्वा च बुद्ध्वा च मत्वा च मुनिनायक । यथेच्छसि तथा तिष्ठ दृष्टस्पष्टपदः पदे
स्वर्गं गच्छाम्य् अहं तत्र काले ऽस्मिन् नारदो मुनिः । ब्रह्मलोकात् समायातो भवत्य् अमरसंसदम्
न मां पश्यति चेत् तत्र तत् कोपम् उपगच्छति । नोद्वेजनीया भव्येन गुरवो हि कदाचन
त्यक्तसङ्कल्पलेखेन न किञ्चिद् अभिवाञ्छता । त्वयात्मन्य् एव वस्तव्यं दृष्टिर् एषैव पावनी
इति यावत् प्रतिवचः पुष्पहस्तश् शिखिध्वजः । प्रणामाय ददात्य् एष तावद् अन्तर्धिम् आययौ
प्रतिभासगतं वस्तु यथैवाग्रे न दृश्यते । न दृष्टवांस् तथा कुम्भम् अग्रे राजा शिखिध्वजः
गते कुम्भे महीपालः परं विस्मयम् आययौ । तद् एव चिन्तयंश् चित्रं चित्रार्पित इवाभवत्
इति सञ्चिन्तयाम् आस चित्रं विलसितं विधेः । यत् कुम्भव्यपदेशेन बोधितो ऽस्मि चिराद् अयम्
क्व नारदसुतः कुम्भः क्वाहं नाम शिखिध्वजः । केवलं कालयुक्त्यैवम् अहं सम्प्रतिबोधितः
अहो नु सम्यक् कथितं देवपुत्रेण युक्तिमत् । अहो नु सम्प्रबुद्धो ऽस्मि मोहनिद्राकुलश् चिरात्
क्वाहम् आसं विनिर्मग्नः क्रियाजालकुकर्दमे । इदं कार्यम् इदं नेति मिथ्याविभ्रमम् आचरन्
अहो नु शीतला शुद्धा शान्तेयं पदवी निजा । रसायनद्रवाकारा सत्त्वं शीतयतीव मे
शाम्यामि परिनिर्वामि सुखम् आसे च केवलम् । चिन्मात्रम् अपि नेच्छामि संस्थितो ऽस्मि यथास्थितम्
एवं सञ्चिन्तयन् राजा एवंनिर्वासनाशयः । शैलाद् इव समुत्कीर्णो मौनम् एवाथ तस्थिवान्
तस्मिन्न् एव ततो मौनी निस्सङ्कल्पे निरामये । प्रतिष्ठां निश्चलां प्राप्य स तस्थौ गिरिशृङ्गवत्
स तत्र संशान्तभयो महात्मा चिरेण विश्रान्तिम् इतस् समात्मा । चिरेण सम्प्राप्तनिजामलात्मा योगेन सुष्वाप तदा चिदात्मा
निर्विकल्पसमाधानात् काष्ठकुड्योपमस् स्थितः । एवं शिखिध्वजो राम चूडालाम् अधुना शृणु
शिखिध्वजं तं भर्तारं कुम्भवेषेन तेन सा । प्रबोध्यान्तर्धिम् आगत्य ततार तरसा नभः
देवपुत्राकृतिं व्योम्नि जहौ मायाविनिर्मिताम् । विदग्धमुग्धम् आकारं स्त्रैणं जग्राह सुन्दरम्
नभसा स्वपुरं प्राप्य विवेशान्तःपुरं क्षणात् । दृश्या बभूव लोकस्य नृपकर्म चकार सा
वासरत्रितयेनापि पुनर् अम्बरम् एत्य सा । बभूव कुम्भो योगेन शिखिध्वजवनं ययौ
तथा तत्रैव तं भूपम् अपश्यद् वनभूमिगा । निर्विकल्पसमाधिस्थं समुत्कीर्णम् इव द्रुमात्
अहो नु खलु भो दिष्ट्या विश्रान्तो ऽयम् इहात्मनि । स्थितस् स्वस्थस् समश् शान्त इत्य् उवाच पुरः प्रभोः
तद् एनं तावद् एतस्माद् बोधयामि परात् पदात् । इदानीम् एव किं देहत्यागम् एष करोति वै
कञ्चित् कालं स्फुरित्वेह राज्येन विपिनेन वा । समम् एव गमिष्यावस् त्यक्तदेहाव् इमौ शमम्
तद् यावद् एषो विचलं परिणामं न गच्छति । अनेनाभ्यासयोगेन तावद् आबोधयाम्य् अहम्
इति सञ्चिन्त्य चूडाला सिंहनादं चकार सा । भूयो भूयः प्रभोर् अग्रे वनेचरभयप्रदम्
न चचाल शिलेवाद्रौ यदा नादेन तेन सः । भूयो भूयः कृतेनापि तदा सा तं व्यचालयत्
चालितः पातितो ऽप्य् एष यदा न बुबुधे नृपः । तदा सञ्चिन्तयाम् आस चूडाला कुम्भरूपिणी