चिद्व्योम्नो नभसो ऽप्य् अच्छात् सर्वे भावास् समुत्थिताः । तत्रैव च लयं यान्ति तत्रैवास्स्व रमस्व च
इदं कार्यम् इदं नेति सङ्कल्पा ब्रह्मबिन्दवः । बिन्दूञ् शिखिध्वज त्यक्त्वा पूर्णमेघं समाश्रय
इष्टं मे प्रार्थयस्वेति यथैव प्रार्थ्यते सखी । स्त्रिया तथैव न कथं दयितः प्रार्थ्यते स्वयम्
सङ्कल्परचितान् एतान् भावान् आपातभासुरान् । न गृह्णन्ति महात्मानः प्राज्ञा जलरवीन् इव
स्वर्गमोक्षादिफलदं यत् किञ्चित् समम् एव तत् । त्यक्त्वा समसमाभासो यो ऽस्य् असाव् एव वै भव
सन्तं सत्त्वेन नाशेन नश्यन्तं विगतस्पृहः । पदार्थौघम् इमं गृह्णंस् तिष्ठास्पन्दितचित्तभूः
अपरिस्पन्दचित्तस्य संसृतिर् नेह बाधते । पौरुषप्रभवा साधो विपन् नीतिमतो यथा
यानि यानीह दुःखानि प्रस्फुरन्ति जगत्त्रये । चेतश्चापलजान्य् एव तानि तानि महीपते
स्थिरं शान्तं गतस्पन्दं यस्य चित्तम् अचापलम् । स विभुस् स महानन्दी साम्राज्यस्य स भाजनम्
अथ चेतसि तत्त्वज्ञ स्पन्दास्पन्दौ तद् एकताम् । नीत्वा तिष्ठ यथाकामम् ऐक्यम् आगत्य शाश्वतम्
कथम् ऐक्यविधिं यातस् स्पन्दास्पन्दाव् इमौ विभो । सर्वसंशयविच्छेदकारिन्न् एतद् वदाशु मे
एकं वस्तु जगत् सर्वं चिन्मात्रं वार् इवाम्बुधिः । तद् एव स्पन्दते नो वा शुद्धं वारीव वीचिभिः
ब्रह्म चिन्मात्रम् अमलं सत्यम् इत्यादिनामभिः । यद् गीतं तद् इदं मूढः पश्यत्य् अङ्ग जगत्तया
निस्स्पन्द एव सर्वस्मिन् सर्गे तस्माद् धि संसृतिः । परिस्पन्दो हि वीच्यादिस् तद् अस्पन्दं समं परम्
चितस् स एव चेत् स्पन्दस् तथास्पन्दश् च भावितः । एकरूपतया नाम तत् तद् अप्य् अचलं शिवम्
सर्गश् चित्स्पन्दमात्रात्मा सम्यग्दृष्टो विलीयते । उदेत्य् असम्यग्दृष्टात्मा रज्ज्वां सर्पभ्रमो यथा
सस्पन्दा चिच् चिदभिधा निस्स्पन्दा त्व् इयम् आतता । तुर्यातीतपदारूढा वाचा वक्तुं न पार्यते
शास्त्रसज्जनसम्पर्कसन्तताभ्यासयोगतः । कालेनामलतां याते चेतसीन्दाव् इवोदिते
एतत् केवलम् आभातं स्वानुभूतिगिराततम् । कथ्यते स्वानुभूतेस् तु स्वयं स्वं रूपम् आत्मना
प्राप्तो ऽसि भावं स्वम् अनादिमध्यम् अत्रैव तिष्ठेष्टपदे निविष्टः । नीरूपनिर्भेदमहाचिदात्मा जातो ऽसि साधो खलु वीतशोकः
इति ते कथितं सर्वं शिखिध्वज महीपते । यथेदम् उत्थितं सर्वं यथा च प्रविलीयते
एतच् छ्रुत्वा च बुद्ध्वा च मत्वा च मुनिनायक । यथेच्छसि तथा तिष्ठ दृष्टस्पष्टपदः पदे
स्वर्गं गच्छाम्य् अहं तत्र काले ऽस्मिन् नारदो मुनिः । ब्रह्मलोकात् समायातो भवत्य् अमरसंसदम्
न मां पश्यति चेत् तत्र तत् कोपम् उपगच्छति । नोद्वेजनीया भव्येन गुरवो हि कदाचन
त्यक्तसङ्कल्पलेखेन न किञ्चिद् अभिवाञ्छता । त्वयात्मन्य् एव वस्तव्यं दृष्टिर् एषैव पावनी
इति यावत् प्रतिवचः पुष्पहस्तश् शिखिध्वजः । प्रणामाय ददात्य् एष तावद् अन्तर्धिम् आययौ
प्रतिभासगतं वस्तु यथैवाग्रे न दृश्यते । न दृष्टवांस् तथा कुम्भम् अग्रे राजा शिखिध्वजः
गते कुम्भे महीपालः परं विस्मयम् आययौ । तद् एव चिन्तयंश् चित्रं चित्रार्पित इवाभवत्
इति सञ्चिन्तयाम् आस चित्रं विलसितं विधेः । यत् कुम्भव्यपदेशेन बोधितो ऽस्मि चिराद् अयम्
क्व नारदसुतः कुम्भः क्वाहं नाम शिखिध्वजः । केवलं कालयुक्त्यैवम् अहं सम्प्रतिबोधितः