अद्य पक्वकषायस् त्वम् अद्यैवाज्ञानसङ्क्षयी । अद्यैव सोपदेश्यस् त्वम् अद्यैवासि प्रबुद्धवान्
शुभाशुभानां सर्वेषां कर्मणाम् अद्य सङ्क्षयः । सत्सङ्गव्यपदेशेन तव निष्पत्तिम् आगतः
यावद् अस्य दिनस्यैष पूर्वो भागो महीपते । तावच् चेतो ह्य् अहम् इति तवाज्ञानं बभूव ह
इदानीं मद्वचोबोधाच् चेतसि क्षयम् आगते । हृदयात् सम्परित्यक्ते सम्प्रबुद्धो ऽसि भूपते
हृदि यावन् मनस्सत्ता तावद् अज्ञानसंस्थितिः । चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत्
द्वित्वैकत्वदृशौ चित्तं तद् एवाज्ञानम् उच्यते । एतयोर् यो लयो दृष्ट्योस् तज् ज्ञानं सा परा गतिः
प्रबुद्धो ऽसि विमुक्तो ऽसि त्यक्तं चित्तं त्वया नृप । सद् एव सत्तयात्तं हि त्वया त्यक्तम् असत् पदम्
वीतशोको निरायासो निस्सङ्गो नित्यम् आत्मवान् । महोदयो मुनिर् मौनी खरूपस् तिष्ठ निर्मलः
एवं हि भगवञ् जन्तोर् मूर्खस्यैवास्ति चित्तभूः । न प्रबुद्धस्य तज्ज्ञस्य चित्तम् अस्ति किल प्रभो
जीवन्मुक्तास् त एते हि विहरन्ति कथं वद । अविद्यमानमनसो युष्मदाद्यास् तथा नराः
इति मे कथयाशेषम् अन्यैश् च वचनांशुभिः । हार्दं तमो मे निपुणम् एवम्प्रायैः प्रमार्जय
यथा वदसि धर्मज्ञ तत् तथैव हि नान्यथा । चित्तं हि जीवन्मुक्तानां नास्त्य् अङ्कुर इवाश्मनाम्
पुनर्जननयोग्या या वासना घनवासना । सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते
यया वासनया तज्ज्ञा विहरन्तीह कर्मसु । तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम्
जीवन्मुक्ता महात्मानस् सत्त्वस्थास् संयतेन्द्रियाः । विहरन्ति गतासङ्गं न चित्तस्थाः कदाचन
मूढं चित्तं चित्तम् आहुः प्रबुद्धं सत्त्वम् उच्यते । अप्रबुद्धा हि चित्तस्थास् सत्त्वस्था हि महाधियः
भूयः प्रजायते चित्तं सत्त्वं भूयो न जायते । अप्रबुद्धस्य बन्धो ऽस्ति न प्रबुद्धस्य भूपते
सत्त्ववान् असि सञ्जातो महात्यागी स्थितो भवान् । अशेषेण त्वया त्यक्तं चित्तम् अद्येति वेद्म्य् अहम्
समस्तवासनामुक्तो राजन् राजेव राजसे । आकाशसाम्यम् आयातं मन्ये तव मुने मनः
शमं प्राप्तो ऽसि परमं शुद्धस् समसमस्थितिः । मन्दराहननोन्मुक्तो यथा क्षीरमहार्णवः
परित्यक्ता त्वया राज्याद् वासना तपसस् तथा । काननाच् च शरीराच् च शुभाशुभफलाद् अपि
निरीहो विगतासङ्गस् त्यक्तचित्तो विवासनः । सम्पन्नस् त्वं महाबाहो महात्यागिपदं गतः
अयं स हि महात्यागस् सर्वं यत्र समुज्झितम् । स्वर्गापवर्गचित्तादि तपोदानफलाद्य् अपि
प्रबुद्धयेद्धया साधो धिया परमबोधया । तपो नाम कियन्मात्रदुःखक्षयकरं भवेत्
क्षयातिशयनिर्मुक्तं यत् सुखं समतामयम् । तत् सत् तद् वस्तु तत् किञ्चिन् न तु स्वर्गादि भङ्गुरम्
भावाभावतुलारूढस् स्थिताधिव्याधिवेधितः । स्वर्गो नाम किमानन्दस् सो ऽपि सन्देहम् आस्थितः
अप्राप्तस्वार्थसंसिद्धेः क्रियाकाण्डश् शुभो भवेत् । येन नासादितं हेम रीतिं किं स परित्यजेत्
चूडालादिसमासङ्गाद् भवेज् ज्ञत्वं सुखेन ते । तत् किमर्थम् अनर्थे ऽस्मिन् निमग्नस् त्वं तपोमये
आश्रमादिविकल्पांशसाध्यस्यास्य कुकर्मणः । आद्यन्तौ पश्य सुमते मध्य एव रमस्व मा
यत एते समायाता यस्मिन् परिणमन्ति च । तपोरूपा विकल्पांशास् तत्र बद्धपदो भव