भगवंस् त्वत्प्रसादेन महाविभवभूषिता । महती पदवी दृष्टा सर्वस्योर्ध्वे स्थिता मया
सतां विदितवेद्यानाम् अहो बत महात्मनाम् । अपूर्वैकामृतमयस् सङ्गस् सारफलप्रदः
जन्मनापि मया लब्धं यन् नाम न महामृतम् । तद् अद्य त्वत्समासङ्गात् क्षणेनासादितं स्वयम्
अनन्तम् आद्यम् अमृतम् एतत् कमललोचन । कथं नासादितम् अभूद् एतद् आत्मपदं मया
मनस्य् उपशमं याते त्यक्तभोगैषणे स्थिते । कषायपाके निर्वृत्ते सर्वेन्द्रियगणस्य च
यान्ति चेतसि विश्रान्तिं विमला दैशिकोक्तयः । यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः
कषायाणाम् अनन्तानां सम्भृतानां शरीरके । स्ववासनास्वरूपाणाम् अद्य पाकस् तवोदितः
देहान् मलानि सर्वाणि कालेन कमलेक्षण । साधो वृक्षात् फलानीव पाकेन विगलन्त्य् अधः
वासनात्मसु यातेषु मलेषु विलयं सखे । यद् वक्ति गुरुर् अन्तस् तद् विशतीषुर् यथा बिले
कषायपाके सम्पन्ने त्वं मयाद्य विबोधितः । तेनाद्यैव तवाज्ञानक्षयो जातो महामते
अद्य पक्वकषायस् त्वम् अद्यैवाज्ञानसङ्क्षयी । अद्यैव सोपदेश्यस् त्वम् अद्यैवासि प्रबुद्धवान्
शुभाशुभानां सर्वेषां कर्मणाम् अद्य सङ्क्षयः । सत्सङ्गव्यपदेशेन तव निष्पत्तिम् आगतः
यावद् अस्य दिनस्यैष पूर्वो भागो महीपते । तावच् चेतो ह्य् अहम् इति तवाज्ञानं बभूव ह
इदानीं मद्वचोबोधाच् चेतसि क्षयम् आगते । हृदयात् सम्परित्यक्ते सम्प्रबुद्धो ऽसि भूपते
हृदि यावन् मनस्सत्ता तावद् अज्ञानसंस्थितिः । चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत्
द्वित्वैकत्वदृशौ चित्तं तद् एवाज्ञानम् उच्यते । एतयोर् यो लयो दृष्ट्योस् तज् ज्ञानं सा परा गतिः
प्रबुद्धो ऽसि विमुक्तो ऽसि त्यक्तं चित्तं त्वया नृप । सद् एव सत्तयात्तं हि त्वया त्यक्तम् असत् पदम्
वीतशोको निरायासो निस्सङ्गो नित्यम् आत्मवान् । महोदयो मुनिर् मौनी खरूपस् तिष्ठ निर्मलः
एवं हि भगवञ् जन्तोर् मूर्खस्यैवास्ति चित्तभूः । न प्रबुद्धस्य तज्ज्ञस्य चित्तम् अस्ति किल प्रभो
जीवन्मुक्तास् त एते हि विहरन्ति कथं वद । अविद्यमानमनसो युष्मदाद्यास् तथा नराः
इति मे कथयाशेषम् अन्यैश् च वचनांशुभिः । हार्दं तमो मे निपुणम् एवम्प्रायैः प्रमार्जय
यथा वदसि धर्मज्ञ तत् तथैव हि नान्यथा । चित्तं हि जीवन्मुक्तानां नास्त्य् अङ्कुर इवाश्मनाम्
पुनर्जननयोग्या या वासना घनवासना । सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते
यया वासनया तज्ज्ञा विहरन्तीह कर्मसु । तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम्
जीवन्मुक्ता महात्मानस् सत्त्वस्थास् संयतेन्द्रियाः । विहरन्ति गतासङ्गं न चित्तस्थाः कदाचन
मूढं चित्तं चित्तम् आहुः प्रबुद्धं सत्त्वम् उच्यते । अप्रबुद्धा हि चित्तस्थास् सत्त्वस्था हि महाधियः
भूयः प्रजायते चित्तं सत्त्वं भूयो न जायते । अप्रबुद्धस्य बन्धो ऽस्ति न प्रबुद्धस्य भूपते
सत्त्ववान् असि सञ्जातो महात्यागी स्थितो भवान् । अशेषेण त्वया त्यक्तं चित्तम् अद्येति वेद्म्य् अहम्
समस्तवासनामुक्तो राजन् राजेव राजसे । आकाशसाम्यम् आयातं मन्ये तव मुने मनः
शमं प्राप्तो ऽसि परमं शुद्धस् समसमस्थितिः । मन्दराहननोन्मुक्तो यथा क्षीरमहार्णवः