अभिमानविकल्पांशैर् अज्ञो ज्ञप्तिं विकल्पयन् । बोधं मलिनयत्य् अन्तर् मुखं सर्प इवामलम्
सर्वप्रमाणसत्तानां पदम् अब्धिर् अपाम् इव । प्रमाणम् एकम् एवेह प्रत्यक्षं राम तच् छृणु
सर्वार्थसारम् अध्यक्षं वेदनं विदुर् उत्तमाः । नूनं तत् प्रति यत् सिद्धं प्रत्यक्षं तद् उदाहृतम्
अनुभूतेर् वेदनस्य प्रतिपत्तेर् यथास्थितम् । प्रत्यक्षम् इति नामेह कृतं जीवस् स एव च
स एव संवित् स पुनर् अहन्ताप्रत्ययात्मकः । स ययोदेति संवित्त्या सा पदार्थ इति स्मृता
स सङ्कल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः । जगत्तया स्फुरत्य् अम्बु तरङ्गादितया यथा
प्राग् अकारणम् एवाशु सर्गादौ सर्गलीलया । स्फुरित्वा कारणीभूतं प्रत्यक्षं स्वयम् आत्मनि
कारणत्वं विचारो ऽस्य जीवस्यासद् अपि स्थितम् । सद् इवास्यां जगद्रूपसम्पत्तौ व्यक्तिम् आगतम्
स्वयम् एव विचारस् तु सनञर्थं स्वकं वपुः । नाशयित्वा करोत्य् आशु प्रत्यक्षं परमं पदम्
विचारयन् विचारो ऽपि नात्मानम् अधिगच्छति । यदा तदा निरुल्लेखं परम् एवावशिष्यते
मनस्य् अनीहिते शान्ते तैर् बुद्धीन्द्रियकर्मभिः । नेह कैश्चित् कृतैर् अर्थो नाकृतैर् अप्य् अभावनात्
मनस्य् अनीहिते शान्ते न प्रवर्तन्त एव ते । कर्मेन्द्रियाणि कर्मादाव् असञ्चारितयन्त्रवत्
मनोयन्त्रस्य चलने कारणं वेदनं विदुः । प्राणाली दारुमेषस्य रज्जुर् अन्तर्गता यथा
रूपालोकमनस्कारपदार्थाद्याकुलं जगत् । विद्यते वेदनस्यान्तर् वाते ऽन्तस् स्पन्दनं यथा
सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् । भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम्
द्रष्टैव दृश्यताभासं स्वं रूपं धारयन् स्थितः । स्वं यथा तत्र यद् रूपं प्रविभाति तथैव तत्
सर्वम् आत्मा यथा तत्र सङ्कल्पत्वम् इवागतः । तिष्ठत्य् आशु तथा तत्र तद्रूप इव राजते
सर्वात्मकतया द्रष्टुर् दृश्यत्वम् इव युज्यते । द्रष्टृत्वं द्रष्ट्रसद्भावे दृश्यस्य त्व् अस्ति नासतः
अकारणकम् एवातो ब्रह्मकल्पम् इदं स्थितम् । प्रत्यक्षम् एव निर्मातृ तस्यांशास् त्व् अनुपाधयः
स्वयत्नमात्रेतररूपको यस् तद्दैवशब्दार्थम् अपास्य दूरे । शूरेण साधो पदम् उत्तमं तत् स्वपौरुषेणैव हि लभ्यते ऽन्तः
विचारयाचार्यपरम्पराणां मतेन सत्येन सितेन तावत् । यावद् विशुद्धां स्वयम् एव बुद्धाम् अनन्तरूपां परताम् उपैषि
आर्यसङ्गमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद् बलात् । ततो महापुरुषता महापुरुषलक्षणैः
यो यो येन गुणेनेह पुरुषः प्रविराजते । शिक्षेत तं तम् एवाशु तस्माद् बुद्धिविवृद्धये
महापुरुषता त्व् एषा शमादिगुणशालिनी । सम्यग्ज्ञानं विना राम सिद्धिम् एति न कस्यचित्
ज्ञानाच् छमादयो यान्ति वृद्धिं सत्पुरुषक्रमात् । श्लाघनीयाः फलेनान्तर् वृष्टेर् इव नवाङ्कुराः
शमादिभ्यो गुणेभ्यश् च वर्धते ज्ञानम् उत्तमम् । अन्नात्मकेभ्यो यज्ञेभ्यश् शालिवृष्टिर् इवोत्तमा
गुणाश् शमादयो ज्ञानाच् छमादिभ्यस् तथा ज्ञता । परस्परं विवर्धेते एते ऽब्दसरसी यथा
ज्ञानं सत्पुरुषाचाराज् ज्ञानात् सत्पुरुषक्रमः । परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ । एको ऽपि नैतयोस् तावत् पुरुषस्येह सिध्यति
यथा कलमरक्षिण्या गीत्या वितततारया । खगोत्सादेन सहितो गीतानन्दः प्रसाध्यते
ज्ञानसत्पुरुषेहाभ्याम् अकर्त्रा कर्तृरूपिणा । तथा पुंसा निरिच्छेन समम् आसाद्यते पदम्