चित्तं मनो ऽहम् इत्य् अन्तर् यावद् अज्ञानसम्भवः । तावच् चित्तं मनो माया भवत्य् एव न संशयः
चित्तं नास्त्य् अहम् इत्य् अन्तर् यावज् ज्ञानोदयो भवेत् । तावच् चित्तं मनो माया नास्त्य् एवात्र न संशयः
मिथ्यायक्षभ्रमो यावत् तावद् यक्षो हि दृश्यते । मिथ्यायक्षभ्रमे शान्ते कुतो यक्षस्य सम्भवः
न चित्तम् अस्ति नो चैत्तम् अहङ्कारादिसंयुतम् । किञ्चिद् एव जगत्य् अस्मिन् संविद् एकास्ति निर्मला
तया सङ्कल्पचित्तादि कृतम् आसीद् विमूढया । यद् यत् सङ्कल्प्य तत् सर्वं परित्यक्तं प्रबुद्धया
सङ्कल्पेन यद् आयाति तत् सङ्कल्पेन गच्छति । पवनेन महाबाहो ज्वालाजालम् इवानले
आत्मतत्त्वैकघनया तत् तया ब्रह्मसत्तया । जगत् सर्वम् अभिव्याप्तं समुद्र इव वारिणा
नाहम् अस्मि न चान्यो ऽस्ति न त्वं नैते न चित्तकम् । नेन्द्रियाणि न चाकाशम् आत्मैवैको ऽस्ति निर्मलः
घटाद्याकाररूपेण स एवायं विलोक्यते । इदं चित्तम् अयं चाहम् इति केव कुकल्पना
न जायते न म्रियते किञ्चिद् अस्मिञ् जगत्त्रये । केवलं विलसत्य् आत्मा सदसद्भावनात्मना
सर्वम् आत्मा परं ब्रह्म सकृत् प्रकटम् आततम् । द्वित्वैकत्वे न विद्येते निर्भ्रान्तिर् भव सत्यतः
सर्वेन्द्रियगुणाकारस् सन्न् एवासि सखे नभः । न दह्यसे महाबुद्धे न च क्वचन लिप्यसे
न ते विनश्यति सखे न च किञ्चिद् विवर्धते । निर्मलाकाशरूपस्य चैकस्यानन्तरूपिणः
इच्छानिच्छात्मिके शक्ती ये तवापि त्वम् एव ते । न ह्य् अंशुव्यतिरेकेण शशाङ्क उपलभ्यते
त्वम् अजरम् अपरं परस्वभावं सकृद् अमलं सततं सद् एकरूपम् । विगलितकलनं कलाख्यलीलं समुदितम् आद्यम् अजं तद् आत्मतत्त्वम्
इति कुम्भवचो राजा भावयंस् तद् अकृत्रिमम् । स्व एवात्मपदे तस्मिन् क्षणं परिणतो ऽभवत्
बभूवामीलितमनोलोचनश् शान्तवाग् अभीः । शिलातलाद् इवोत्कीर्णो निस्स्पन्दावयवाकृतिः
ततो मुहूर्तमात्रेण प्रबुद्धं स्फारितेक्षणम् । तम् उवाच महाबाहो चूडाला कुम्भरूपिणी
कच्चिद् अस्मिन् पदे स्फारे शुद्धे मृदुनि निर्मले । सुतल्पे निर्विकल्पानां सुखं विश्रान्तवान् असि
कच्चिद् अन्तः प्रबुद्धो ऽसि कच्चिद् भ्रान्तिस् त्वयोज्झिता । कच्चिज् ज्ञेयं परिज्ञातं दृष्टं द्रष्टव्यम् एव वा
भगवंस् त्वत्प्रसादेन महाविभवभूषिता । महती पदवी दृष्टा सर्वस्योर्ध्वे स्थिता मया
सतां विदितवेद्यानाम् अहो बत महात्मनाम् । अपूर्वैकामृतमयस् सङ्गस् सारफलप्रदः
जन्मनापि मया लब्धं यन् नाम न महामृतम् । तद् अद्य त्वत्समासङ्गात् क्षणेनासादितं स्वयम्
अनन्तम् आद्यम् अमृतम् एतत् कमललोचन । कथं नासादितम् अभूद् एतद् आत्मपदं मया
मनस्य् उपशमं याते त्यक्तभोगैषणे स्थिते । कषायपाके निर्वृत्ते सर्वेन्द्रियगणस्य च
यान्ति चेतसि विश्रान्तिं विमला दैशिकोक्तयः । यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः
कषायाणाम् अनन्तानां सम्भृतानां शरीरके । स्ववासनास्वरूपाणाम् अद्य पाकस् तवोदितः
देहान् मलानि सर्वाणि कालेन कमलेक्षण । साधो वृक्षात् फलानीव पाकेन विगलन्त्य् अधः
वासनात्मसु यातेषु मलेषु विलयं सखे । यद् वक्ति गुरुर् अन्तस् तद् विशतीषुर् यथा बिले
कषायपाके सम्पन्ने त्वं मयाद्य विबोधितः । तेनाद्यैव तवाज्ञानक्षयो जातो महामते