सर्ग एव परं ब्रह्म परं ब्रह्मैव सर्गदृक् । सर्गशब्दार्थरहितो वाक्यार्थस् त्व् एष शाश्वतः
ब्रह्मशब्दार्थसम्पत्तौ सर्गशब्दार्थधीः कुतः । सर्गशब्दार्थसम्पत्तौ ब्रह्मशब्दार्थधीः कुतः
समस्तशब्दशब्दार्थभावनाभावनोदये । शुद्धं किम् अपि चिद्व्योम ब्रह्मशब्देन कथ्यते
सम्यग्दर्शनसंसिद्धाव् उभयोर् अप्य् अवेदने । यच् छिष्टम् अजरं शान्तं ततो वाग् विनिवर्तते
संशान्तसर्वात्मकवेदनौघम् अस्तीदम् एकात्मकम् अच्छरूपम् । यथास्थितं सर्वजगत् खरूपं पाषाणरूपं च परं ज्ञरूपम्
एवं चैतन् महाबुद्धे यादृशं कारणं परम् । तादृशं कार्यम् एवेदं जगद् इत्य् एव वेद्म्य् अहम्
यत्र कारणता तत्र कार्यं समुपपद्यते । यन् न कारणम् एवादौ तस्मात् कार्यं कुतो भवेत्
नेहास्ति कारणं किञ्चिन् न च कार्यं कदाचन । विद्यमानम् इदं सर्वं शिवं शान्तम् अजं जगत्
जायते कारणात् कार्यं यत् तत् कारणवद् भवेत् । यन् न जायत एवेह तस्मिन् सदृशता कुतः
बीजम् एव न यस्यास्ति तत् कथं वद जायते । अप्रतर्क्यम् अनाख्यं च यन् न तस्येह बीजता
देशकालवशात् सर्वा हेतुमत्यः प्रमोपमाः । अकर्तृ ब्रह्म विषयः प्रमाकारणयोः कथम्
अकर्तृकर्मकरणे नास्ति कारणता शिवे । तस्माद् अकारणं नास्ति जगच्छब्दार्थवेदनम्
ब्रह्मैव स्वं स्वरूपं सद् यत् स्थितं धारयत् ततम् । असम्यग्दर्शिविषयं तद् एव जगद् आचितम्
चिन्मात्रम् अजरं शान्तं यद् एकं तत् प्रगीयते । तेनैवाजं जगद्ब्रह्म सच् छान्तं बुध्यते वपुः
अस्य स्व एव यो भावश् चेतसः पृथिवीपते । स एव नाशः कथितश् चानुभूतश् च पण्डितैः
चित्तं नाशस्वभावं त्वं विद्धि नाशात्मकं नृप । क्षणनाशाय सङ्कल्पश् चित्तशब्देन कथ्यते
असङ्कल्पनमात्रेण सम्यग्ज्ञानोदयं विना । सङ्कल्पः क्षीयते सिद्ध्यै स्वयम् एवासदात्मकः
नाम्नैवाङ्गीकृताभावं यद् अविद्येति कथ्यते । विद्यमानं कथं तत् स्याच् चित्तं तामरसेक्षण
हस्ताव् उत्क्षिप्य यो ब्रूते शूद्रो ऽस्मीति भृशं गिरा । कथं स विप्रो भवति विप्रत्वं तस्य कीदृशम्
विवृत्तधातुर् अत्युच्चैर् मृतो ऽस्मीति विरौति यः । मृतम् एवाङ्ग तं विद्धि जीवितं तस्य तु भ्रमः
भ्रमाकृति यद् अस्तीह दृश्यते ऽलातचक्रवत् । मृगतृष्णाद्विचन्द्रादिबालवेतालकादिवत्
तत् कथं किल नाम स्यात् सत्यं भ्रमभरात्मकम् । अज्ञानभ्रान्तिर् एवातश् चित्तम् इत्य् एव कथ्यते
अज्ञानम् उच्यते चित्तम् असत् सद् इव संस्थितम् । मिथ्याभ्रमं निराकारं केशोण्डुकम् इवाम्बरे
एवम् अज्ञानम् एवैतच् चित्तशब्देन कथ्यते । तन्नाशश् चेतसो नाशश् चित्तत्यागस् स एव च
अज्ञानं कीदृशं देव कथं चैतद् विनश्यति । समासेनेति भगवन् वद मे वदतां वर
यद् असंवेदनं सम्यग् वस्तुनो राजसत्तम । दृष्टादृष्टस्य कुम्भादेस् तद् अज्ञानम् इति स्मृतम्
असंवेदनम् अज्ञानं ज्ञानं संवेदनं भवेत् । अज्ञानस्य त्व् असंवित्तेर् ज्ञानात् संवेदनात् क्षयः
जलज्ञानं मुधाभ्रान्तिस् साधो मरुमरीचिषु । नैतज् जलम् इति ज्ञानात् संवित्तिः प्रविलीयते
इदं चित्तम् इति प्रौढं यद् अज्ञानम् अलं हृदि । नास्ति चित्तम् इति ज्ञानात् तत् समूलं विनश्यति
यथा रज्ज्वां भुजङ्गत्वम् अज्ञानभ्रमसम्भवम् । न सर्पो ऽयम् इति ज्ञानाद् धृदि रूढात् प्रणश्यति