तस्माद् इदं निरंशस्य चिद्व्योम्नो ऽप्रतिघाकृतेः । निराकृतेर् अनन्तस्य पूर्वात् पूर्वतरं सतः
ब्रह्मणस् सर्वरूपस्य शान्तं शान्तस्य यत् समम् । स्वत एवात्मकचनं सर्गप्रलयरूपधृत्
स्वकं वपुस् तत् तेनैव ज्ञातं जगद् इदं क्षणम् । क्षणान्तरे तु बुद्धं सद् ब्रह्मैवास्ते निजात्मनि
ब्रह्मैवेदम् अतस् सर्वं क्व चैत्तजगदादिधीः । क्व चित्तादि क्व देहादि क्व द्वैतैक्यादिकल्पनाः
सर्वं निरालम्बम् अजं प्रशान्तम् अनादिमध्यात्म यथास्थितं सत् । इदं च नानैव न चापि नाना यथास्थितं तिष्ठ सुकाष्ठमौनः
नष्टो मोहस् स्मृतिर् लब्धा त्वत्प्रसादान् मया मुने । स्थितो ऽस्मि गतसन्देहो विश्रान्तमतिर् आत्मवान्
ज्ञातज्ञेयो महामौनी तीर्णमायामहार्णवः । शान्तो ऽहम् अनहंरूपो ज्ञस् स्थितो ऽस्मि निरामयः
अहो नु सुचिरं कालं प्रभ्रान्तो ऽहम् अवान्तरे । स्थानम् अव्ययम् अक्षुब्धम् अधुना प्राप्तवान् अहम्
एवं स्थिते मुने नास्ति साहन्तादिजगत्त्रयम् । मूर्खबुद्धम् इदं भाति यत् तद् ब्रह्मेति वेद्म्य् अहम्
जगद् एव न यत्रास्ति तत्राहन्त्वविभासनम् । संसाराम्बरसम्भारः क्व कुतः कीदृशः कथम्
यथास्थितव्यवहृतिर् मौनी शान्तमना मुनिः । सोम्यार्णवोदरावर्तपरिस्पन्दवद् आस्स्व भोः
ब्रह्मरूपतया शान्तम् इदम् अस्ति यथास्थितम् । अहं जगद् इदं चेति शब्दार्थात्म नभो ऽमलम्
इदम् आद्यन्तरहितं सर्गसंहारनामकम् । चिच्चमत्कृतिमात्रात्म नभः कचकचायते
सन्निवेशदृशश् शान्तौ यद् अस्ति कनकं यथा । जगदाद्यर्थसंशान्तौ ब्रह्मेदं विद्यते तथा
यथा स्वयम्भूस् सङ्कल्पस् स्वयंनाशस् तथैव हि । एतौ स्ववेदनायत्तौ बन्धमोक्षौ व्यवस्थितौ
अहम् इत्य् एव सङ्कल्पो बन्धायातिविनाशिने । नाहम् इत्य् एव सङ्कल्पो मोक्षाय विमलात्मने
यद् बन्धमोक्षसङ्कल्पशब्दार्थानां सदासताम् । स्वरूपवेदनं तत् सत् केवलत्वं च कथ्यते
अनहंवेदनं सिद्धिर् अहंवेदनम् आपदे । सो ऽहम् एवानहम् इति शुद्धबोधो भवात्मवान्
असङ्कल्पनमात्रेण सम्यग्ज्ञानोदयात्मना । सङ्कल्पः क्षीयते सिद्ध्यै स्वयम् एवासदात्मकः
अप्रतर्क्यस्वरूपे हि नास्ति कारणता शिवे । कारणाभावतः कार्यं पदार्थो ऽपि न विद्यते
पदार्थाभावसंसिद्धौ वेदनं नोपपद्यते । कारणाभावतो नित्यम् अहम्भावस्य नोदयः
अहम्भावानुदयतस् संसारः कस्य कीदृशः । संसाराभावतस् सर्वं परम् एवावशिष्यते
यच् चेदं भासते तत् सत् परम् एवात्मनि स्थितम् । परं परे परापूर्णं समम् एव विजृम्भते
तेन निस्तिमितं सर्वं शैलोत्कीर्णम् इवाचलम् । विद्धि रश्मिमयाकारम् इव ब्रह्म जगत् स्थितम्
पुरसङ्कल्पके नष्टे सङ्कल्पनगरस्य यत् । रूपं तद् विद्धि जगतः खाद् अच्छं सदसन्मयम्
छायापुरुषवत् स्पन्दि शान्तं निर्मननं जगत् । जगच्छब्दार्थरहितं यः पश्यति स पश्यति
रूपालोकमनस्कारा नीरसा गतभावनाः । सम्यग्ज्ञानवतो यस्य निर्वाणं तं विदुर् बुधाः
यथास्ति वातो निस्स्पन्दो यथास्ति खम् अनीलिम । यथा हेमासन्निवेशम् अस्ति ब्रह्माजगत् तथा
नीरसा असदाभासा जगत्प्रत्ययकारिणः । रूपालोकमनस्कारास् सन्तीमे ब्रह्मरूपिणः
ऊर्मिशब्दार्थरहितं यादृग् अम्बु बहूर्म्य् अपि । सर्गशब्दार्थरहितं तादृग् ब्रह्मापि सर्गवत्