अकारणं कारणिभिर् बोधार्थम् उपमीयते । उपमानैस् तूपमेयसदृशैर् एकदेशतः
स्थातव्यं नेह भोगेषु विवेकविकलात्मना । उपलोदरसञ्जातपरिपीनान्धभेकवत्
दृष्टान्तैर् युक्तिभिर् यत्नाद् वाञ्छितं त्यजतेतरत् । विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना
शास्त्रोपशमसौजन्यप्रज्ञातज्ज्ञसमागमैः । अन्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रियः
तावद् विचारयेत् प्राज्ञो यावद् विश्रान्तिम् आत्मनि । सम्प्रयात्य् अपुनर्नाशां शान्तिं तुर्यपदाभिधाम्
तुर्यविश्रान्तियुक्तस्य प्रतीर्णस्य भवार्णवात् । जीवतो ऽजीवतश् चैव गृहस्थस्याथ वा यतेः
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवाम्भोधिस् स तिष्ठति यथास्थितम्
एकांशेनोपमानानाम् उपमेयसधर्मता । बोद्धव्या बोध्यबोधाय न स्थेयं चोद्यचञ्चुना
यया कयाचिद् युक्त्याशु बोद्धव्यं बोध्यम् एव ते । मुक्तये तन् न पश्यन्ति व्याकुलाश् चोद्यचञ्चवः
हृदये संविदाकाशे विश्रान्ते ऽनुभवात्मनि । वस्तुन्य् अनर्थं यः प्रष्टा चोद्यचञ्चुस् स उच्यते
अभिमानविकल्पांशैर् अज्ञो ज्ञप्तिं विकल्पयन् । बोधं मलिनयत्य् अन्तर् मुखं सर्प इवामलम्
सर्वप्रमाणसत्तानां पदम् अब्धिर् अपाम् इव । प्रमाणम् एकम् एवेह प्रत्यक्षं राम तच् छृणु
सर्वार्थसारम् अध्यक्षं वेदनं विदुर् उत्तमाः । नूनं तत् प्रति यत् सिद्धं प्रत्यक्षं तद् उदाहृतम्
अनुभूतेर् वेदनस्य प्रतिपत्तेर् यथास्थितम् । प्रत्यक्षम् इति नामेह कृतं जीवस् स एव च
स एव संवित् स पुनर् अहन्ताप्रत्ययात्मकः । स ययोदेति संवित्त्या सा पदार्थ इति स्मृता
स सङ्कल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः । जगत्तया स्फुरत्य् अम्बु तरङ्गादितया यथा
प्राग् अकारणम् एवाशु सर्गादौ सर्गलीलया । स्फुरित्वा कारणीभूतं प्रत्यक्षं स्वयम् आत्मनि
कारणत्वं विचारो ऽस्य जीवस्यासद् अपि स्थितम् । सद् इवास्यां जगद्रूपसम्पत्तौ व्यक्तिम् आगतम्
स्वयम् एव विचारस् तु सनञर्थं स्वकं वपुः । नाशयित्वा करोत्य् आशु प्रत्यक्षं परमं पदम्
विचारयन् विचारो ऽपि नात्मानम् अधिगच्छति । यदा तदा निरुल्लेखं परम् एवावशिष्यते
मनस्य् अनीहिते शान्ते तैर् बुद्धीन्द्रियकर्मभिः । नेह कैश्चित् कृतैर् अर्थो नाकृतैर् अप्य् अभावनात्
मनस्य् अनीहिते शान्ते न प्रवर्तन्त एव ते । कर्मेन्द्रियाणि कर्मादाव् असञ्चारितयन्त्रवत्
मनोयन्त्रस्य चलने कारणं वेदनं विदुः । प्राणाली दारुमेषस्य रज्जुर् अन्तर्गता यथा
रूपालोकमनस्कारपदार्थाद्याकुलं जगत् । विद्यते वेदनस्यान्तर् वाते ऽन्तस् स्पन्दनं यथा
सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् । भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम्
द्रष्टैव दृश्यताभासं स्वं रूपं धारयन् स्थितः । स्वं यथा तत्र यद् रूपं प्रविभाति तथैव तत्
सर्वम् आत्मा यथा तत्र सङ्कल्पत्वम् इवागतः । तिष्ठत्य् आशु तथा तत्र तद्रूप इव राजते
सर्वात्मकतया द्रष्टुर् दृश्यत्वम् इव युज्यते । द्रष्टृत्वं द्रष्ट्रसद्भावे दृश्यस्य त्व् अस्ति नासतः
अकारणकम् एवातो ब्रह्मकल्पम् इदं स्थितम् । प्रत्यक्षम् एव निर्मातृ तस्यांशास् त्व् अनुपाधयः
स्वयत्नमात्रेतररूपको यस् तद्दैवशब्दार्थम् अपास्य दूरे । शूरेण साधो पदम् उत्तमं तत् स्वपौरुषेणैव हि लभ्यते ऽन्तः