अहम्भावासम्भवतश् चित्तम् अन्यत् किम् उच्यते । इति चित्तम् अहंरूपं नास्त्य् अतो भव विन्नभः
निर्वासनश् शान्तमना मौनी परनभोमयः । सदेहो वा विदेहो वा भव स्थायी चलो ऽथ वा
सर्वत्वाच् छुद्धविद्दृष्टेः पदार्थाभावसिद्धितः । भावनाभावतश् चित्ते नास्त्य् एवाहम् अतश् शिवम्
सर्वं ब्रह्मेति वेदार्थभावनाद् अनुभूतितः । चेतितार्थैकसत्यत्वाच् चित्तं नाम न विद्यते
तेनासि निर्मलम् अकारणम् आदिमुक्तं तद् ब्रह्म शाश्वतम् अशेषम् अनेकम् एकम् । शून्यं विनामयम् असत् सद् अनादिमध्यं सर्वं न किञ्चिद् अपि चास्स्व यथास्थितं सत्
चित्तं नास्तीति मे बोधो यथा युक्त्या स्फुटो भवेत् । ताम् अन्याम् अन्यथा ब्रूहि बुद्धं न निपुणं मया
चित्तं नास्त्य् एव राजर्षे कदाचित् किञ्चन क्वचित् । यच् चेदं चित्तवद् भाति तद् ब्रह्माभिधम् अव्ययम्
अज्ञज्ञातात्मकं यत्र जगद् एव न विद्यते । तत्राहं त्वं तद् इत्यादिकलनाकलनाः कुतः
नास्त्य् एव जगद् एवेदं यत् त्व् इदं किञ्चनोदितम् । ब्रह्मैवात्मनि तद् भाति शृण्व् एतद् बुध्यते कथम्
महाप्रलयसर्गादाव् एवेदं नोदितं जगत् । निर्देशस् त्व् अयम् अन्यत्र त्वद्बोधाय मया कृतः
उपादानात्मकादीनां कारणानाम् अभावतः । अकारणं च भावानाम् अशेषाणाम् असम्भवात्
एवम् अज्ञावबुद्धात्म जगद् यस्मान् न विद्यते । तस्माद् यद् इदम् आभाति भासनं ब्राह्मम् एव तत्
अनाख्यो ऽनाकृतिर् देवः करोतीदम् इति त्व् असत् । भाषितं नोपपत्त्यात्म न सत्येनानुभूयते
अनाख्यो ऽप्रतिघः खात्मा निराकारो य ईश्वरः । स करोति जगन्तीति हासायैव वचो ऽधियाम्
अनेनैव प्रयोगेण राजंश् चेतो न विद्यते । जगद् एव न सत् साधो कुतश् चित्तादि तद्गतम्
चेतो हि वासनामात्रं वास्ये तु सति वासना । वास्यं जगत् तद् एवासद् अतश् चित्तास्तिता कुतः
यद् इदं कचति ब्रह्म स्वयम् आत्मात्मनात्मनि । कृतं तस्यैव तेनैव चित्तम् इत्यादिनामकम्
जगद् दृश्यम् इदं वास्यं तद् एवोत्पन्नम् एव नो । कारणाभावतः पूर्वम् एवातश् चित्तता कुतः
अतश् चिद्व्योममात्रात्म परमाकाशनामकम् । स्फारं वेदनम् एवेदं कचत्य् अस्तीह नो जगत्
यत् किञ्चित् परमाकाशम् ईषत् कचकचायते । चिदादर्शे निजाच्छत्वात् तच् चित्तं तज् जगत् कृतम्
अहं त्वं जगद् इत्य् एषा प्रतिपत्तिर् न वास्तवी । मिथ्या स्वप्न इवाभाता नूनम् अप्य् अर्थकारिणी
वास्यस्य जगतो ऽभावाद् यतो नास्त्य् एव वासना । अतस् तदात्मकं चित्तं कीदृशं क्व कुतः कथम्
अप्रबुद्धैर् अवगतं चैत्तं दृश्यम् इदं जगत् । असद् एव निराकारं पूर्वम् उत्पन्नम् एव नो
नोत्पन्नं कारणाभावात् सर्गादाव् एव सर्वदा । लोकशास्त्रानुभवतो न च दृश्यस्य वस्तुनः
अनादित्वम् अजत्वं वा स्थैर्यं वाप्य् उपपद्यते । साकारस्यास्य जगतस् स्थूलसप्रतिघाकृतेः
समस्तकारणाभावाल् लोकशास्त्रानुभूतिभिः । युज्यन्ते च निराकर्तुं न महाप्रलयोदयाः
शास्त्रानुभववेदार्थसिद्धान् एतांश् च यो ऽपि वा । प्रलयादीन् न सन्तीति वक्त्य् उन्मत्तक एव सः
लोकाश् शास्त्राणि वेदाश् च प्रमाणं यस्य नामतेः । असत्योक्तेस् सुमूढस्य स पशुस् तं न संश्रयेत्
न च सप्रतिघस्यास्य दृश्यस्याप्रतिघं क्वचित् । कारणं भवितुं शक्तं साकारस्य निराकृतिः
इत्थम् आलक्ष्यमाणं सन् न चेदं नावभासते । न च नार्थक्रियाकारि न चैवेत्थम् इदं जगत्