यथा नभसि शून्यत्वं तथेदं ब्रह्मणि स्थितम् । सदसद्वस्तुरूपेण न वा रूपेण केनचित्
एवंरूपं जगद् इदं सम्यग्ज्ञानाच् छिवं भवेत् । सम्यग्ज्ञानप्रभावेण विषम् अप्य् अमृतं भवेत्
असम्यग्ज्ञानम् अखिलं जगद् दुःखप्रदं परम् । विषबुद्ध्यामृतम् अपि भुक्तं विषरसायते
ईश्वरत्वाद् यथा वेत्ति यद् यद् एष चिदीश्वरः । तत् तथैवाशु भवति तादृग्रूपतया शिवम्
यथा ज्वालाभ्रमाला वा विचित्राकारविभ्रमैः । तिष्ठत्य् अनन्यरूपैव ब्रह्मसत्ता तथैव हि
यत् परं चित्स्वरूपेण स्थितम् आत्मनि मन्थरम् । तत् तेनेदम् अहन्तादि जगदाद्य् एव लक्ष्यते
केवलं परम् एवेत्थं परमं भासते शिवम् । कुतो जगदहन्तादि प्रश्न एवेह नोचितः
यद् वस्तु विद्यमानं सत् प्रश्नस् तत्र विराजते । प्रेक्षितं यत् तु नास्त्य् एव प्रेक्षाप्रश्नेन तत्र किम्
सन्निवेशं विना सत्ता यथा हेम्नो न विद्यते । तथा जगदहम्भावं विना नेशस्य संस्थितिः
अकारणत्वान् नास्तीदं ब्रह्मैवेत्थं विजृम्भते । अजृम्भमाणम् एवाहंजगत्त्वेनेह संस्थितम्
यन्मया एव तेनैव मिथस् सम्प्रेरिताशयम् । चमत्कुर्वन्त्य् अमी भावाः पञ्चेषु मिथुनौघवत्
चिन्मात्र एव चिन्मात्रं चिन्मात्रेणैव चीयते । नानात्मनेवानानैव स्वात्मनात्माप्य् अनात्मवत्
पूर्णात् पूर्णम् उद्धरन्ति पूर्णात् पूर्णानि चक्रिरे । भवन्ति पूर्णात् पूर्णानि पूर्णम् एवावतिष्ठते
चिन्मात्रम् एव कचति यच् चिन्मात्रतयात्मनि । अकचत् त्व् एव तन् नाम कचितं सर्गवेदनम्
अहं चिता चिद् एवासौ भवतीव स्वयं स्वतः । अभवन्त्य् एव रूपं स्वम् अत्यजन्ती निरामयम्
चितो रूपम् अनाद्यन्तं मनोरूपम् अनन्तकम् । सम्राट्छरीरम् आभासि भवतीव स्वयम्भुवः
पश्यत्य् अथासद् एवेदं स्वरूपत्वात् सद् एव वा । भावनाद् घनताम् एति दृश्यं भवति च क्रमात्
शान्तं जगत्प्रसररूपतया स्वभावशब्दार्थमुक्तम् इदम् अव्यपदेश्यम् एकम् । वस्तुस्थितं निजचमत्करणावलोकरूपं जगत्त्वरहितानुभवात्मतत्त्वम्
न विज्ञानमयो ऽर्थो ऽस्ति न बाह्यो नापि शून्यता । वेदनामात्रसारत्वाद् यथावित् सो ऽर्थ उच्यते
द्रवत्वं सलिलस्येव विदो वित्त्वम् अकारणम् । खात्म नित्यम् अनन्तं तद् यथास्थितम् अवस्थितम्
प्रतियोगिव्यवच्छेदाभावतस् स्वत्वभावयोः । असत्ता तेन न परे सत्त्वभावव्यवस्थितिः
यदि कारणतापत्तियोग्यं शान्तं परं भवेत् । अनिङ्गनम् अनाभासम् अप्रतर्क्यं कथं भवेत्
अतो न कारणं नैव बीजं ब्रह्म कदाचन । कार्यस्य कस्यचिन् नाम तेन सर्गो न विद्यते
न चान्यथोपपत्तिर् हि सर्गस्यास्योपपद्यते । चिन्मात्रकाद् ऋते तस्माज् जडस् सर्गो न विद्यते
यद् इदं दृश्यते किञ्चित् तच् चिद्घनम् अवेधितम् । असम्भवज्जगच्छब्दशब्दार्थरसरञ्जनम्
कार्यं न कारणाभावात् पदार्थ उपपद्यते । द्वित्वैक्याद्यात्मकं व्योमपुष्पवत् स्वानुभूतितः
वस्तु नाशैकनिष्ठत्वान् न चाजम् उपपद्यते । उपलम्भे ध्रुवो नाशो जन्म नष्टस्य च ध्रुवम्
अथ वैनं सदा सन्तं नित्यं नष्टं च वेत्सि वा । पदार्थौघं तद् एषो ऽर्थ एकरूपो ऽत्र किं व्यथा
उपलम्भस् तु यश् चायं सा चित्तत्त्वचमत्कृतिः । चित्तत्त्वमात्रसत्तास्ति द्वित्वम् ऐक्यं च नास्त्य् अलम्
अतः पदार्थसत्ताया अभावे सति भूपते । असम्भवे भावनस्य नाहन्ताभावनास्ति ते