शिवे शान्ते निराभासे परे ऽनुल्लङ्घितात्मनि । द्रष्टृदर्शनदृश्याख्यो विश्वात्मा प्रत्ययः कुतः
साधु पृष्टं महाराज राजसे बोधभास्वता । एतद् एव हि ते शिष्टं ज्ञतायास् तद् इदं शृणु
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वप्रकाराढ्यं कल्पान्ते तत् प्रणश्यति
ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् । महाकल्पविलासान्ते सत् सारम् अवशिष्यते
चिन्मात्रम् अमलं कान्तम् आभातम् अमलं नभः । समस्तकलनोन्मुक्तं युक्तं परमया श्रिया
यद् एकोदितम् अत्यच्छं शान्तम् आततम् उज्ज्वलं । परमात्मात्मकं तेजस् स्तिमितं ज्ञप्तिमात्रकम्
अप्रतर्क्यम् अविज्ञेयं समं शिवम् अनिङ्गनम् । ब्रह्म निर्वाणम् आपूर्णम् आघूर्णद् इव सम्पदा
अणीयसाम् अणीयस् तत् स्थविष्ठं च स्थवीयसाम् । गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि
ईदृशं तत् परं सूक्ष्मं तस्याग्रे यद् इदं नभः । अणोः पार्श्वे महामेरुर् इव स्थूलात्म लक्ष्यते
ईदृशं तत् परं स्थूलं तस्याग्रे यद् इदं जगत् । परमाणुवद् आभाति क्वचिद् एव न भाति वा
ईदृशं तद् गरिष्ठं च जगद्राज्यं यद् अक्षतम् । बुद्ध्वैतद् अमलं शान्तं जरत्तृणलवायते
ईदृशं तत् परं श्रेयस् तस्मिन् सति यद् ईश्वरे । जगत्पदार्थसार्थश्रीस् स्वसत्तोदेति वेदनात्
तत् सारम् एकम् एवेह विद्यते भूपते ततम् । एकम् एकान्तबुद्ध्यात्तं नैकम् अप्य् अद्वितावशात्
तस्माद् द्वितीया कलना काचिन् नाम न विद्यते । आत्मतत्त्वम् अलं भातं तद् एवापूर्णम् अक्षतम्
संस्थितं सर्वदा सर्वं सर्वाकारम् इवोदितम् । अवाच्यत्वाद् अलभ्यत्वात् तन् न कार्यं न कारणम्
प्रत्यक्षादेर् अगम्यत्वात् किम् अप्य् एकम् तद् उत्तमम् । सर्वं सर्वात्मकं सूक्ष्मम् अच्छानुभवमात्रकम्
तस्यानाख्यस्य रूपस्य निर्गतस्य प्रमादृशः । सतो वाप्य् असतो वापि कथं कारणता भवेत्
यद् वै न कस्यचिद् बीजम् अनाख्यत्वान् न कारणम् । न किञ्चिज् जायते तस्मात् प्रमाणातिगतात्मनः
अकर्तृकर्मकरणम् सत्यं चिद्घनम् अक्षतम् । आत्मरूपम् अनाभासं स्वसंवेदनलक्षणम्
तस्मान् न जायते किञ्चित् परस्माद् ब्रह्मणो मुने । कथं किल वदाव्यक्ते स्याज् जन्यजनकक्रमः
न किञ्चिज् जायते शान्ते न च किञ्चित् प्रलीयते । स्वसत्तया स्थितं ब्रह्म न बीजं न च कारणम्
शुद्धानुभवमात्रं तत् तस्माद् अन्यन् न विद्यते । किञ्चिज् जगदहन्तादि तद् एवानन्तम् अस्ति हि
शिवे जगदहन्तादि मुने नास्तीति वेद्म्य् अहम् । सर्गवेदनम् आभाति कथम् एतद् वदाशु मे
चित्सारं तद् अनाद्यन्तं तत् स्वसंविदि तिष्ठति । तत् तद्भवनम् अत्यच्छं तत्तामात्रं जगद् विदुः
चित्स्वात्मकचनं नाम यद् असम्भवचेत्यदृक् । तद् अहंवेदनं विद्धि विराडात्म जगत् स्थितम्
वातस्य वातस्पन्दस्य यथा भेदो न विद्यते । शून्यत्वखत्वोपमयोश् चिन्मात्राहन्त्वयोस् तथा
जले ऽस्ति देशकालात्ते यथोर्म्यादि सकारणम् । परे ऽस्त्य् अदेशकालात्ते तथा जगद् अकारणम्
जलादौ यत् तरङ्गादि तत् सकारणम् अस्त्व् इह । परे जगदहन्तादि नाकारणम् अवैम्य् अहम्
इदानीं भवता ज्ञातम् एतत् सत्यं महीपते । इदं जगदहन्तादि नेह किञ्चन विद्यते
जगच्छब्दार्थरहितं जगद् अस्ति शिवात्मकम् । व्योम्न्य् एव निर्मितं शान्तं व्योम्नस् सूक्ष्मतरेण वा